63019: नेन्सिद्धबध्नातिषु ========================= **Padacheda:** न | S | 0 | 0 | इन्-सिद्धबध्नातिषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The Locative -7th case ending is not preserved before a stem ending in इन् before he word सिद्ध and before a word derived from बन्ध् । Vasu English Translation ------------------------ The Locative -7th case ending is not preserved before a stem ending in इन् before he word सिद्ध and before a word derived from बन्ध् । Thus स्थण्डिलशायिन्, सांकाश्यसिद्धः, काम्पिल्यसिद्धः, चक्रबन्धकः, चरकबन्धकः ॥ The compounding takes place by *yoga*-*vibhaga* of *sutra* (2.1.40). Some use the word चक्रबन्धः as an illustration under this rule: बन्ध then is derived by अच् of (3.1.134). The बन्ध ending in घञ् is governed by (6.3.13). This *sutra* is an exception to (6.3.14). Kashika ------- इन्नन्त उत्तरपदे सिद्धशब्दे बध्नातौ च परतः सप्तम्या अलुग् न भवति। स्थण्डिलवर्ती। सिद्ध — सांकाश्यसिद्धः। काम्पिल्यसिद्धः। बध्नाति — चक्रबद्धः। चारबद्धः। सप्तमीति योगविभागात् समासः। चक्रबन्ध इति केचिदुदाहरन्ति तत् पचाद्यजन्तं द्रष्टव्यम्। घञन्ते हि **बन्धे च विभाषा**(६.३.१३) इत्युक्त म्॥ Siddhanta Kaumudi ----------------- इन्नन्तादिषु सप्तम्या अलुङ्न । स्थण्डिलशायी । सांकाश्यसिद्धः । चक्रबद्धः ॥ Balamanorama ------------ **नेन्सिद्धबध्नातिषु** - नेन्सिद्धबन्धानादिषु च । चक्रबद्ध इति ।साधनं कृते॑ति क्तान्तेन सप्तम्यन्तस्य समासः । Tattvabodhini ------------- **नेन्सिद्धबध्नातिषु** - नेन्सिद्धब । चक्रबन्ध इति । तत्पुरुषे इत्यनुवृत्तेस्तत्पुरुष एवायं निषेधः । बहुव्रीहौ तु बन्धे च विभाषा इति विकल्प एव । वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु । पश्यतोहर इति । पश्यन्तमनादृत्य हरतीत्यर्थः । षष्ठी चाऽनादरे इति षष्ठी । देवानांप्रिय इति च मूर्खे । देवानामिति । मूर्खा हि देवानां प्रीतिं जनयन्ति देवपशुत्वादिति मनोरमा । अयं भावः — ब्राहृआज्ञानरहितत्वात्संसारिणो मूर्खाः । ते तु यागादिकर्माण्युनुतिष्ठन्तः पुरोडाशादिप्रदानद्वारा देवानाम्तयन्तं प्रीतिं जनयन्ति । बहृज्ञानिनस्तु न तथा, तेषां यागाद्यनुष्ठानाऽबावात् । अतो गवादिस्थानापन्नत्वान्मूर्खा एव देवपशव इति । शेपपुच्छलाङ्गूलेषु शुनः । सेपपुच्छेति । शुन इव शेपमस्य शुनःशेपः । यद्यपि शेपस्शब्दः सकारान्तः, गौर्लिङ्गं चिह्नशेपसोः इत्यमरप्रोगात्, तथापि शीङ्गो निपातनादौणादिके पप्रत्यये अकारान्तोऽप्यस्त्येव । तथा च मन्त्र यस्याकमुशन्तः प्रहराम शेपमिति । चिह्नशेफसोः इति पाटे तु शेफशब्दस्य सकारान्तत्वशङ्कैव नास्तीति बोध्यम् । शुनः पुच्छ इत्यादावपि बहुव्रीहिः । त्रयोऽप्यमी ऋषिविशेषाणां संज्ञाः । मातुः पितुभ्र्यामिति सूत्रे समासेऽङ्गुलेः सङ्गः इत्यतः समास इत्यनुवर्तितम्, तत्फलं दर्शयति — असमासे त्विति । वाक्ये वैकल्पिकमपि षत्वं नेत्यर्थः । इत्यलुक्समासः तत्त्वबोधिन्याम् । Nyaas ----- **तत्पुरुषे कृति बहुलम्** (6.3.14) इति प्राप्तस्यालुकोऽयं प्रतिषेधः। `इन्नन्त उत्तरपदे` इति। ननु च `उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्नष्यते` (पु।प।26) इति ज्ञापितमेतत्, तत्कथमिह तदन्तमुत्तरपदं गृह्रते? सप्तम्याः परस्येन्प्रत्ययस्यासम्भवात्। द्विविध एव हीन्प्रत्ययः - कृत्? तद्धितश्च। तत्र कृद्धातोरेवोत्पद्यते इति न सप्तम्याः परस्येन्प्रत्ययस्यासम्भवात्। द्विविध एव हीन्प्रत्ययः - कृत्? तद्धितश्च। तत्र कृद्धातोरेवोत्पद्यते इति न सप्तम्याः परः सम्भवति। तद्धितोऽपि नैव कश्चित्? सप्तमीसमर्थादुत्पद्यत इत्यसावपि नैव सप्तम्याः परः सम्भवति। तस्मादिन्नन्तमेव गृह्रत युक्तमुक्तमेतत्। `स्थण्डिलवर्ती` इति। `व्रते` (3.2.80) इति णिनिः; **उपपदमतिङ्** (2.2.19) इति समासः। `साङ्काश्यसिद्धः` इति। **सिद्धशुष्कपक्वबन्धैश्च** (2.1.41) इत्यादिना समासः। `चक्रबद्धः` इति। बद्धशब्दो निष्ठान्तः, `सप्तमी` (2.1.40) इति योगविभागात्? समासः। बन्धशब्देन `चक्रबन्धः` इति। `सिद्ध` (2.1.40) इत्यादिना समासः। `तत्? पचाद्यचप्रत्ययान्तं द्रष्टव्यम्` इति। अथ बन्ध इत्येतच्छब्दरूपं घञन्तं कस्मान्न गृह्रते? इत्याह `घञन्ते हि` इत्यादि॥ Prakriyasarvasvam ----------------- इन्नन्ते सिद्धशब्दे बध्नातौ च परे तत्पुरुषे कृति० (६-३-१४) इत्यलुङ् न स्यात् । वनवर्ती । शास्त्रसिद्धः । यूपबन्धः ॥