62195: सोरवक्षेपणे

Padacheda: सोः | S | 5 | 1 |

अवक्षेपणे | S | 7 | 1 |

Sutrartha


Vasu English Summary

After सु the second member has acute accent (उदात्त) on the final in a तत्-पुरुष समास when reproach is meant, in spite of the addition of सु which denotes praise.

Vasu English Translation

After सु the second member has acute accent (उदात्त) on the final in a तत्-पुरुष समास when reproach is meant, in spite of the addition of सु which denotes praise. Thus इह खल्विदानीं, सुस्थण्डिले सुस्फिताभ्यां सुप्रत्यवसितः꣡ ॥ The word सु here verily denotes praise, but it is the sense of the whole sentence that indicates reproach or censure. Why do we say “after सु”? Observe कुब्राह्मणः ॥ Why ‘when reproach is meant’? Observe शोभनेषु तृणेषु = सुतृणेषु ॥

Kashika

सुशब्दात् परमुत्तरपदं तत्पुरुषे समासेऽन्तोदात्तं भवत्यवक्षेपणे गम्यमाने। अवक्षेपणं निन्दा। इह खल्विदानीं सुस्थण्डिले सुस्फिगाभ्यां सु॒प्॒रत्य॒व॒सि॒तः। सुशब्दोऽत्र पूजायामेव। वाक्यार्थस्तु अवक्षेपणमसूयया तथाभिधानात्। सोरिति किम्? कुब्रा॑ह्मणः। अवक्षेपण इति किम् ? शोभनेषु तृणेषु सुतृ॑णेषु॥

Siddhanta Kaumudi

सुप्रत्यवसितः । सुरत्र पूजायामेव । वाक्यार्थस्त्वत्र निन्दा । असूयया तथाभिधानात् । सोः किम् । कुब्राह्मणः । अवक्षेपणे किम् । सुवृषणम् ॥

Padamanjari

उदाहरणे तु स्वती पूजायाम् इति कर्मप्वचनीयस्य समासः । तेन सुप्रत्यवसिते थाथादिस्वरेण सिद्धिर्नाशङ्क्या । यदि सुशब्दोऽत्र पूजायामेव वर्तते, कथं तर्हि क्षेपो गम्यते इत्याह - वाक्यार्थस्त्विति । कथम् इत्याह - आसूयया तथाभिधानादिति । यः खल्वनर्थं उपस्थिते सुखायामास्ते तं प्रकृत्यैवमुक्ते क्षेपो गम्यते ॥

Nyaas

सुस्थण्डिलः इति। स्थानं स्थिरमस्मिन्निति स्थण्डिलम्। पृषोदरादित्वादाद्युदात्तः। सुस्फिगाभ्याम् इति। स्फिगशब्दः आद्युदात्तः। सुप्रत्यवसितः इति। प्रत्यवसितशब्दस्थाथादि (6.2.143) स्वरेणान्तोदात्तः। ननु च सुशब्देनापि सह समासे कृते थाथादिस्वरेणैवान्तोदात्तत्वं भविष्यति, तत्? किमर्थमुदाहृतम्? एवं मन्यते -सत्यन्यार्थेऽस्यारम्भे परत्वादनेनैवात्राप्यन्तोदात्तत्वं युक्तमिति। यदि सुशब्दोऽत्र पूजायामेव वर्तते, अवक्षेपणं तर्हि कस्यार्थः? इत्याह -वाक्यार्थस्त्ववक्षेपणम् इति। अत्रैव कारणमाह -असूण्या तथाभिधानात् इति। इह खल्विदानीं अस्स्व सुस्थण्डिलः इत्येवम्प्रकारं वाक्यं यस्मादसूयया प्रयुज्यते, तस्माद्वाक्यार्थस्यैवावक्षेपणम्। सुतृणेषु इति। अत्र गुणोद्भावनेच्छयाभिधानम्, नासूयया। तेनावक्षेपणं नास्ति, पूजैव तु विद्यते॥

Prakriyasarvasvam

क्षेपे द्योत्ये सोः परमन्तोदात्तं स्यात् । इह खल्विदानीमास्व सुस्थले ‘स्वती पूजायाम्’ (स. ३-२-१४७) इति समासः । आपन्नं प्रत्युक्तवाक्येन क्षेपो द्योत्यते ।