62196: विभाषोत्पुच्छे¶
Padacheda: विभाषा | S | 1 | 1 |
उत्पुच्छे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In a तत्-पुरुष समास the word उत्पुच्छ may optionally have acute accent (उदात्त) on the final.
Vasu English Translation¶
In a तत्-पुरुष समास the word उत्पुच्छ may optionally have acute accent (उदात्त) on the final. Thus उत्क्रान्तः पुच्छात् = उत्पुच्छः꣡ or उ꣡त्पुच्छः (6.2.2) ॥ When this word is derived by the affix अच् from पुच्छमुदस्यति = उत्पुच्छयति, then it would always have taken acute on the final by (6.2.144), the present sutra ordains option there also. The rule does not apply to a non-Tatpurusha: as, उदस्तं पुच्छमस्य = उत्पुच्छः ॥
Kashika¶
उत्पुच्छशब्दे तत्पुरुषे विभाषान्त उदातो भवति। उत्क्रान्तः पुच्छाद् उ॒त्पु॒च्छः, उत्पु॑च्छः। यदा तु पुच्छमुदस्यति उत्पुच्छयति, उत्पुच्छयतेरच्, उत्पुच्छः, तदा थाथादिसूत्रेण (६.२.१४४) नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयमिति सेयमुभयत्रविभाषा भवति। तत्पुरुष इत्येव — उदस्तं पुच्छमस्य उत्पु॑च्छः॥
Siddhanta Kaumudi¶
तत्पुरुषे । उत्क्रान्तः पुच्छादुत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छयतेः एरच्-(SK3231) उत्पुच्छस्तदा थाथादिस्वरेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयम् । सेयमुभयत्र विभाषा । तत्पुरुषे किम् । उदस्तं पुच्छं येन स उत्पच्छः ॥
Padamanjari¶
सेयमुभयत्र विभाषेति । आद्यप्रवृतावव्ययपूर्वपदप्रकृतिस्वरेण बाधितत्वात् समासस्यान्तोदातत्वमप्राप्तम्, द्वितीयायां तु थाथादिस्वरेण नित्यं प्राप्तमिति कृत्वा ॥ एद्वित्रिभ्यां पाद्दन्मूर्द्धसु बहुव्रीहौ ॥ द्वित्रिभ्याम् इति दिग्योगलक्षणा पञ्चमी, पाद्दन्मूर्द्धसु इति सत्सप्तमी, बहुव्रीहिः कार्यीति, तदेतदाह - द्वित्रि इत्येताभ्यामिति । द्विपादिति । संख्या सुपूर्वस्य इत्यकारलोपः समासान्तः । दन्निति । वयसि दन्तस्य दतृ। मूर्द्धन्नित्यादि । न ह्यकृत्समासान्तस्य सम्भवः अत आह - एतदेवेति । यदि तर्ह्यकृतसमासान्तस्योपादनम्, एवं सति यदि समासान्तः क्रियते, तदा न प्रापनोति तस्य शब्दान्तरत्वादित्यत आह - यदपीति । इह हि बहुव्रीहिः कार्यित्वेनोपातः, न मूर्द्धशब्दः । तदेकदेशत्वाच्चेति । तस्य बहुव्रीहेरेकदेशोऽवयवः समासान्तस्तद्भावस्तत्वम्, तस्मादित्यर्थः । तदेकदेशित्वादिति पाठे स व व्रीहिरेकदेशी अवयवी यस्य स तदेकदेशी, तस्य भावस्तत्वम्, तस्मादिति स एवार्थः । तदेवं बहुव्रीहेः कार्यित्वात्त्देकदेशत्वाच्च समासान्तस्य यदापि समासान्तः क्रियते, तदाप्ययं विधिर्भवत्येव । अपर आह - यदाप्युतरपदस्य कार्यित्वं तदापि परत्वादन्तोदातत्वे कृते पश्चात्समासान्तः, तत्र टिलोपे सति उदातनिवृत्तिस्वरेणैव षप्रत्ययस्य सिद्धमुदातत्वमिति । कल्याणमूर्द्धेति । पूर्वपदप्रकृतिस्वर एवात्र भवति । कल्याणशब्दः लघावन्ते इति मध्योदातः ॥
Nyaas¶
उत्पुच्छः इति। पुच्छशब्दः नब्विषयस्य (फि।सू।2।26) इत्याद्युदात्तः। सेयमुभयत्र विभाषा भवति इति। यदोत्पुच्छशब्दोऽच्प्रत्ययान्तो न भवति तदा समासान्तोदात्तत्वम्। यदा समासान्तोदात्तत्वापवादः तत्पुरुषे तुल्यार्थ (6.2.2) इत्यादिना पूर्वपदस्याव्ययस्य प्रकृतिस्वरः, तदा तेनाप्राप्तेस्मिन्नन्तोदात्तत्वे विभाषेयम्। यदा तु पुच्छमुदस्यतीत्यस्यार्थस्य विवक्षायां पुच्छभाण्डचीवराण्णिङ् (3.1.20) ति णिङं विदाय तदन्तादुत्पुच्छयतेः पचाद्यचि कृते उत्पुच्छ इत्येतच्छपब्दरूपं भवति, तदा थाथादिस्वरेण (6.2.143) नित्यमन्तोदात्तत्वे प्राप्तेऽयं विकल्पः। तेन प्राप्ते विभाषेयम्। उदस्तं पुच्छमस्योत्पच्छः इति। बहुव्रीहिप्रकृतिस्वर एव भवति॥
Prakriyasarvasvam¶
तत्पुरुषरूप उत्पुच्छेऽन्त उदात्तौ वा स्यात् । उत्क्रान्तः पुच्छादुत्पुच्छः । प्रादिपक्षेऽव्ययस्वरापवादः । उत्पुच्छ्यतेरजितिपक्षे तु ‘था था’दिन नित्यमुदात्तत्वे प्राप्ते विकल्पोक्तिः ।