62195: सोरवक्षेपणे ================== **Padacheda:** सोः | S | 5 | 1 | अवक्षेपणे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After सु the second member has acute accent (उदात्त) on the final in a तत्-पुरुष समास when reproach is meant, in spite of the addition of सु which denotes praise. Vasu English Translation ------------------------ After सु the second member has acute accent (उदात्त) on the final in a तत्-पुरुष समास when reproach is meant, in spite of the addition of सु which denotes praise. Thus इह खल्विदानीं, सुस्थण्डिले सुस्फिताभ्यां सुप्रत्यवसितः꣡ ॥ The word सु here verily denotes praise, but it is the sense of the whole sentence that indicates reproach or censure. Why do we say "after सु"? Observe कुब्राह्मणः ॥ Why 'when reproach is meant'? Observe शोभनेषु तृणेषु = सुतृणेषु ॥ Kashika ------- सुशब्दात् परमुत्तरपदं तत्पुरुषे समासेऽन्तोदात्तं भवत्यवक्षेपणे गम्यमाने। अवक्षेपणं निन्दा। इह खल्विदानीं सुस्थण्डिले सुस्फिगाभ्यां सु॒प्॒रत्य॒व॒सि॒तः। सुशब्दोऽत्र पूजायामेव। वाक्यार्थस्तु अवक्षेपणमसूयया तथाभिधानात्। सोरिति किम्? कुब्रा॑ह्मणः। अवक्षेपण इति किम् ? शोभनेषु तृणेषु सुतृ॑णेषु॥ Siddhanta Kaumudi ----------------- सुप्रत्यवसितः । सुरत्र पूजायामेव । वाक्यार्थस्त्वत्र निन्दा । असूयया तथाभिधानात् । सोः किम् । कुब्राह्मणः । अवक्षेपणे किम् । सुवृषणम् ॥ Padamanjari ----------- उदाहरणे तु स्वती पूजायाम् इति कर्मप्वचनीयस्य समासः । तेन सुप्रत्यवसिते थाथादिस्वरेण सिद्धिर्नाशङ्क्या । यदि सुशब्दोऽत्र पूजायामेव वर्तते, कथं तर्हि क्षेपो गम्यते इत्याह - वाक्यार्थस्त्विति । कथम् इत्याह - आसूयया तथाभिधानादिति । यः खल्वनर्थं उपस्थिते सुखायामास्ते तं प्रकृत्यैवमुक्ते क्षेपो गम्यते ॥ Nyaas ----- `सुस्थण्डिलः` इति। स्थानं स्थिरमस्मिन्निति स्थण्डिलम्। पृषोदरादित्वादाद्युदात्तः। `सुस्फिगाभ्याम्` इति। स्फिगशब्दः आद्युदात्तः। `सुप्रत्यवसितः` इति। प्रत्यवसितशब्दस्थाथादि (6.2.143) स्वरेणान्तोदात्तः। ननु च सुशब्देनापि सह समासे कृते थाथादिस्वरेणैवान्तोदात्तत्वं भविष्यति, तत्? किमर्थमुदाहृतम्? एवं मन्यते -सत्यन्यार्थेऽस्यारम्भे परत्वादनेनैवात्राप्यन्तोदात्तत्वं युक्तमिति। यदि सुशब्दोऽत्र पूजायामेव वर्तते, अवक्षेपणं तर्हि कस्यार्थः? इत्याह -`वाक्यार्थस्त्ववक्षेपणम्` इति। अत्रैव कारणमाह -`असूण्या तथाभिधानात्` इति। इह खल्विदानीं `अस्स्व सुस्थण्डिलः` इत्येवम्प्रकारं वाक्यं यस्मादसूयया प्रयुज्यते, तस्माद्वाक्यार्थस्यैवावक्षेपणम्। `सुतृणेषु` इति। अत्र गुणोद्भावनेच्छयाभिधानम्, नासूयया। तेनावक्षेपणं नास्ति, पूजैव तु विद्यते॥ Prakriyasarvasvam ----------------- क्षेपे द्योत्ये सोः परमन्तोदात्तं स्यात् । इह खल्विदानीमास्व सुस्थले 'स्वती पूजायाम्' (स. ३-२-१४७) इति समासः । आपन्नं प्रत्युक्तवाक्येन क्षेपो द्योत्यते ।