62194: उपाद् द्व्यजजिनमगौरादयः¶
Padacheda: उपात् | S | 5 | 1 |
द्व्यजजिनम् | S | 1 | 1 |
अगौरादयः | S | 1 | 3 |
Sutrartha¶
Vasu English Summary¶
In a तत्-पुरुष समास the words of two syllables and अजिन् have acute accent (उदात्त) on the final when preceded by उप but not when they are गौर etc.
Vasu English Translation¶
In a तत्-पुरुष समास the words of two syllables and अजिन् have acute accent (उदात्त) on the final when preceded by उप but not when they are गौर etc. Thus उपगतो देवः = उपदेवः꣡, उपेन्द्रः꣡, उपसोमः꣡, उपहोडः꣡, उपाजिन꣡म् ॥ But not so in उपगौरः, उपनैषः &c.
1 गौर, 2 तैष (नैष) 3 तैल, 4 लेट, 5 लोट, 6 जिह्वा, 7 कृष्ण (कृष्णा) 8 कन्या, 9 गुध (गुड) 10 कल्प, 11 पाठ
Why “in a Tatpurusha”? Observe उपगतः सोमोऽस्य = उपसोमः ॥
Kashika¶
उपादुत्तरं द्व्यजजिनं चान्तोदात्तं भवति तत्पुरुषे समासे गौरादीन् वर्जयित्वा। उपगतो देवम् उ॒प॒दे॒वः। उ॒प॒सो॒मः। उ॒पे॒न्द्रः। उ॒प॒ह॒ोडः। अजिन — उ॒पा॒जि॒नम्। अगौरादय इति किम् ? उप॑गौरः। उप॑तैषः। तत्पुरुष इत्येव — उपगतः सोमोऽस्य उप॑सोमः॥ गौर। तैष। तैट। लट। लोट। जिह्वा। कृष्णा। कन्या। गुड। कल्प। पाद। गौरादिः॥
Siddhanta Kaumudi¶
उपात्परं यत् द्व्यच्कमजिनं चान्तोदात्तं तत्पुरुषे गौरादीन्वर्जयित्वा । उपदेवः । उपेन्द्रः । उपाजिनम् । अगौरादयः किम् । उपगौरः । उपतैषः । तत्पुरुषे किम् । उपगतः सोमोऽस्य स उपसोमः ॥
Padamanjari¶
गुरी उद्यमने, पचाद्यजन्तात्प्रज्ञाद्यण्, गौरम्। तिष्येण युक्तः कालस्तैषः । लेट् लोट् इति । कण्ड्वादिपठिताब्यां पचाद्यच्, लेटलोटौ । दिहेर्जिह्वा उणादिः । कृषेर्वर्णे इति नक्, टाप् - कृष्णा । कन्याशब्दः अध्न्यादयश्चेति निपातितः । गुघ घनत्वे इगुपधात्कः गुधः । कॢपिपदिभ्यां घञ् - कल्पः, पादः ॥
Nyaas¶
उपदेवः इति। प्रादिसमासोऽयम्। देवशब्दः पचाद्यजन्तत्वादन्तोदात्तः। उपसोमः इति। अतिस्तुसुहुसृ` (6.4.149) इत्यादिना मन्। तेन सोमशब्द आद्युदात्तः। हुडृ हुडृ गतौ (धा।प।352,353) अस्मात्? पचाद्यच्। तेन होडशब्दोऽन्तोदात्तः। अजिनमन्तोदात्तमित्युक्तम्, अद्व्यजर्थं चास्य ग्रहणम्। गौरशब्दः प्रज्ञद्यणन्तत्वादाद्युदात्तः। तिष्येण युक्तः कालस्तैषः, प्राग्दीव्यतोऽण् (4.1.83) । सूर्यतिष्य (6.4.149) इति यलोपः। नैषतैटावणन्तौ। तेनान्तोदात्तो। रट परिभाषणे (धातुपाठः-297) -अस्मादच्। रलयोरेकत्वाद्रेफस्य लकारः। लटः। लुट विलोडने (धातुपाठः-314) -अस्मात्? पचाद्यच्। तेन लटलोटावप्यन्तोदात्तौ। शवयह्वजिह्वाग्रीवाप्वामीवाः (द।उ।8।128) इति जिह्वान्तोदात्ता निपत्यते। इण्सिञ्जि (द।उ।5।35) [इण्सिञ् -द।उ।पं।उ। (3।2)] इत्यधिकृत्य कृषेर्वर्णे (द।उ।5।37) इति कृषेर्नक्, टाप्? सवर्णदीर्घत्वम्, `एकादेश उदात्तेनोदात्तः (8.2.5) । तेन कृष्णाशब्दोऽन्तोदात्तः। `अध्न्यादयश्च (द।उ।8।14) इति कन्याशब्दोऽन्तस्वरितो निपात्यते। गुड घनत्वे [गुड रक्षायाम् -धातुपाठः-] (धातुपाठः-1370) -अस्मादिगपधलक्षणः (3.1.135) कः। तेन गुडोऽन्तोदात्तः। कल्पवाहशब्दौ वृषादित्वादन्तोदात्तौ॥