62193: प्रतेरंश्वादयस्तत्पुरुषे

Padacheda: प्रतेः | S | 5 | 1 |

अंश्वादयः | S | 1 | 3 |

तत्पुरुषे | S | 7 | 1 |

Sutrartha


Vasu English Summary

In a तत्-पुरुष समास the words अंशु etc. have acute accent (उदात्त) on the final when preceded by प्रति।

Vasu English Translation

In a तत्-पुरुष समास the words अंशु etc. have acute accent (उदात्त) on the final when preceded by प्रति। Thus प्रत्यंशुः꣡, प्रतिजनः꣡, प्रतिराजा꣡ ॥ In the case of राजन् this rule applies when the Samasanta affix टच् is not added, when that affix is added, the acute will also be on the final by virtue of टच् which is a चित् affix.

1 अंशु, 2 जन, 3 राजन्, 4 उष्ट्र, 5 खेटक (रोटक), 6 अजिर, 7 आर्द्रा, 8 श्रवण, 9 कृत्तिका, 10 अर्ध, 11 पुर (आर्धपुर आर्धपुरः) ॥

The word अंशु is formed by the affix कु under the general class मृगवुः (Unadi I.37), राजन् is formed by the affix कनिन् (Unadi I.156), उष्ट्र by adding ष्ट्रन् to उष् ‘to burn’. (Unadi IV. 162), खिट् + ण्वुल् = खेटक; अजिर is formed by किरच् (Unadi I.53) आ + द्रा + अङ् (3.3.106), with the augment रक् added to आ = आर्द्रा ॥ शृ + ल्युट् = श्रवण, कृत + तिकन् = कृत्तिका (Unadi III.147) ऋध् + अच् (3.1.134) = अर्द्ध; पुर् + क = पुर ॥

Why do we say ‘in the Tatpurusha’? Observe प्रतिगता अंशवोऽस्य = प्रत्यंशुरयमुष्ट्रः ॥

Kashika

प्रतेरंश्वादयस्तत्पुरुषे समासेऽन्तोदात्ता भवन्ति। प्रतिगतः अंशुः प्॒रत्यं॒शुः। प्॒रति॒ज॒नः। प्॒रति॒रा॒जा। राजशब्दः समासान्तस्यानित्यत्वाद् यदा टज् नास्ति, तदा प्रयोजयति। तस्मिन् हि सति चित्त्वादेवान्तोदात्तत्वं सिद्धम्। तत्पुरुष इति किम् ? प्रतिगता अंशवोऽस्य प्रत्यं॑शुः अयमुष्ट्रः॥ अंशु। जन। राजन्। उष्ट्र। खेटक। अजिर। आर्द्रा। श्रवण। कृत्तिका। अर्ध। पुर॥

Siddhanta Kaumudi

प्रतेः परेंऽश्वादयोऽन्तोदात्ताः । प्रतिगतोंऽशुः प्रत्यंशुः प्रतिजनः । प्रतिराजा । समासान्तस्यानित्यत्वान्न टच् ॥

Padamanjari

अंशुशब्दः कुश्चेति वर्तमाने मृगय्वादयश्चेति निपातितः । राजतेः कनिन् राजन् । उष दाहे, ष्ट्रन् -उष्ट्रः । खिट्, ण्वुल् -खेटकः । अजिरशिशिर इति किरच् - अजिरम् । द्रातेराङ्पूर्वाद् आतश्चोपसर्गे इत्यङ्, अस्मादेव निपातनादाङे रगागमझः - आर्द्रा । शृणोतेर्ल्युट् - श्रवणम् । कृतिभिदिलतिभ्यः कित्, तिकन् प्रकृतः - कृतिका । ऋघेः पचाद्यच् - अर्धः । पुर अग्रगमने इगुपधात्कः पुरम् । एते अंश्वादयः ॥

Nyaas

पूर्वपदप्रकृतिस्वरापवादो योगः। प्रत्यंशुः इति। प्रादिसमासः। कुभ्र्रश्च इत्यधिकृत्य मुगय्वादयश्च (द।उ।1।121) इत्यंशुशब्दो निपातितः। तेनान्तोदात्तः। जनेर्घञ्। तेन जन आद्युदात्तः। राजञ्शब्दोऽपि कनिन्प्रत्ययान्तत्वात्। राजशब्दः इत्यादि। राजाहःसखिभ्यष्टच् (5.4.91) इति यदाऽनित्यत्वाट्टज्? नास्ति, तदा राजशब्द इह पाठे प्रयोजयति। अथ तस्मिन्? समासान्ते सति कस्मान्न प्रयोजयति? इत्याह -तस्मिन्? हि सति इत्यादि। अनित्यत्वं तु समासान्तविधेः पूर्वमेव ज्ञापितम्। राजशब्दस्य चेह पाठः समासान्तविधेरनित्यत्वं ज्ञापयति। उष दाहे (धातुपाठः-696) -इत्यस्मात्? ष्ट्रन्। तेन उष्ट्रशबद आद्युदात्तः शिट सन्तापे [खिट त्रासे -धातुपाठः-] (धातुपाठः-302) -अस्माण्वुल्। तेन खेटकशब्दोऽप्याद्युदात्तः। अजिरशिशिर (द।उ।8।27) इत्यादिना किरच्प्रत्ययान्तोऽजिरशब्दो निपातितः। तेनान्तोदात्तः। द्रो कुत्सायां गतौ (धातुपाठः-1054) -अस्मादाङ्पूर्वात्? आतश्चोपसर्गे (3.3.106) इत्यङ्? निपातनात्? पूर्वपदस्य रेफान्तता। ततश्चाव्ययरूपहानादसत्यस्मात्? पूर्वपदप्रकृतिस्वरत्वे आर्देत्यन्तोदात्ता भवति। श्रु श्रवणे (धातुपाठः-942) इत्यस्माल्ल्युट्। तेन श्रवणशब्दो लित्स्वरेणाद्युदात्तः। वृतेस्तिकन् (द।उ।3।28) इति प्रकृते कृतिभिदिलतिभ्यः कित् (द।उ।3।29) इति तिकन्, टाप्। तेन कृत्तिकाशब्द आद्युदात्तः। ऋध -इत्येतस्मादच्, घञ्? वा। तेनार्धशब्दोऽन्तोदात्तः, आद्युदात्तो वा। पुर अग्रगमने (धातुपाठः-1346) -अस्मादिगुपधलक्षणः (3.1.135) कः। तेन पुरशब्दोऽन्तोदात्तः। प्रतिगता अंशवोऽस्य इत्यादि। अत्र बहुव्रीहौ पूर्वपदप्रकृतिस्वरो भवति॥

Prakriyasarvasvam

अन्तोदात्ताः स्युः । अंशुजनराजनुष्ट्रखेटकाजिराद्राश्रवणाकृत्तिकार्धपुराणि’ (स. ८-४-२१९, २२०) । प्रतिगतोंऽशुः प्रत्यंशुः । प्रतिजनः । प्रतिराजा । टजभावे विधिः । एवं प्रत्युष्ट्रः । प्रतिखेटक इत्यादि ।