62194: उपाद् द्व्यजजिनमगौरादयः ============================== **Padacheda:** उपात् | S | 5 | 1 | द्व्यजजिनम् | S | 1 | 1 | अगौरादयः | S | 1 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- In a तत्-पुरुष समास the words of two syllables and अजिन् have acute accent (उदात्त) on the final when preceded by उप but not when they are गौर etc. Vasu English Translation ------------------------ In a तत्-पुरुष समास the words of two syllables and अजिन् have acute accent (उदात्त) on the final when preceded by उप but not when they are गौर etc. Thus उपगतो देवः = उपदेवः꣡, उपेन्द्रः꣡, उपसोमः꣡, उपहोडः꣡, उपाजिन꣡म् ॥ But not so in उपगौरः, उपनैषः &c. 1 गौर, 2 तैष (नैष) 3 तैल, 4 लेट, 5 लोट, 6 जिह्वा, 7 कृष्ण (कृष्णा) 8 कन्या, 9 गुध (गुड) 10 कल्प, 11 पाठ Why "in a *Tatpurusha*"? Observe उपगतः सोमोऽस्य = उपसोमः ॥ Kashika ------- उपादुत्तरं द्व्यजजिनं चान्तोदात्तं भवति तत्पुरुषे समासे गौरादीन् वर्जयित्वा। उपगतो देवम् उ॒प॒दे॒वः। उ॒प॒सो॒मः। उ॒पे॒न्द्रः। उ॒प॒ह॒ोडः। अजिन — उ॒पा॒जि॒नम्। अगौरादय इति किम् ? उप॑गौरः। उप॑तैषः। तत्पुरुष इत्येव — उपगतः सोमोऽस्य उप॑सोमः॥ गौर। तैष। तैट। लट। लोट। जिह्वा। कृष्णा। कन्या। गुड। कल्प। पाद। गौरादिः॥ Siddhanta Kaumudi ----------------- उपात्परं यत् द्व्यच्कमजिनं चान्तोदात्तं तत्पुरुषे गौरादीन्वर्जयित्वा । उपदेवः । उपेन्द्रः । उपाजिनम् । अगौरादयः किम् । उपगौरः । उपतैषः । तत्पुरुषे किम् । उपगतः सोमोऽस्य स उपसोमः ॥ Padamanjari ----------- गुरी उद्यमने, पचाद्यजन्तात्प्रज्ञाद्यण्, गौरम्। तिष्येण युक्तः कालस्तैषः । लेट् लोट् इति । कण्ड्वादिपठिताब्यां पचाद्यच्, लेटलोटौ । दिहेर्जिह्वा उणादिः । कृषेर्वर्णे इति नक्, टाप् - कृष्णा । कन्याशब्दः अध्न्यादयश्चेति निपातितः । गुघ घनत्वे इगुपधात्कः गुधः । कॢपिपदिभ्यां घञ् - कल्पः, पादः ॥ Nyaas ----- `उपदेवः` इति। प्रादिसमासोऽयम्। देवशब्दः पचाद्यजन्तत्वादन्तोदात्तः। `उपसोमः` इति। अतिस्तुसुहुसृ` (6.4.149) इत्यादिना मन्। तेन सोमशब्द आद्युदात्तः। `हुडृ हुडृ गतौ` (धा।प।352,353) अस्मात्? पचाद्यच्। तेन होडशब्दोऽन्तोदात्तः। अजिनमन्तोदात्तमित्युक्तम्, अद्व्यजर्थं चास्य ग्रहणम्। गौरशब्दः प्रज्ञद्यणन्तत्वादाद्युदात्तः। तिष्येण युक्तः कालस्तैषः, **प्राग्दीव्यतोऽण्** (4.1.83) । `सूर्यतिष्य` (6.4.149) इति यलोपः। नैषतैटावणन्तौ। तेनान्तोदात्तो। `रट परिभाषणे` (धातुपाठः-297) -अस्मादच्। रलयोरेकत्वाद्रेफस्य लकारः। लटः। `लुट विलोडने` (धातुपाठः-314) -अस्मात्? पचाद्यच्। तेन लटलोटावप्यन्तोदात्तौ। `शवयह्वजिह्वाग्रीवाप्वामीवाः` (द।उ।8।128) इति जिह्वान्तोदात्ता निपत्यते। `इण्सिञ्जि` (द।उ।5।35) [इण्सिञ् -द।उ।पं।उ। (3।2)] इत्यधिकृत्य `कृषेर्वर्णे (द।उ।5।37) इति कृषेर्नक्, टाप्? सवर्णदीर्घत्वम्, `एकादेश उदात्तेनोदात्तः (8.2.5) । तेन कृष्णाशब्दोऽन्तोदात्तः। `अध्न्यादयश्च` (द।उ।8।14) इति कन्याशब्दोऽन्तस्वरितो निपात्यते। `गुड घनत्वे` [`गुड रक्षायाम्` -धातुपाठः-] (धातुपाठः-1370) -अस्मादिगपधलक्षणः (3.1.135) कः। तेन गुडोऽन्तोदात्तः। कल्पवाहशब्दौ वृषादित्वादन्तोदात्तौ॥