62191: अतेरकृत्पदे¶
Padacheda: अतेः | S | 5 | 1 |
अकृत्पदे | S | 1 | 2 |
Sutrartha¶
Vasu English Summary¶
After अति , a word not formed by a कृत् affix and the word पद have acute accent (उदात्त) on the last syllable.
Vasu English Translation¶
After अति , a word not formed by a कृत् affix and the word पद have acute accent (उदात्त) on the last syllable. Thus अत्यङ्कुशो꣡ नागः, अतिकशो꣡ऽश्वः, अतिपदा꣡ शक्वरी ॥ Why do we say ‘non krit-word and पद’? Observe अतिकारकः ॥
Vart:- The rule is restricted to those compounds in which a root has been elided. That is, when in analysing the compound a verb like क्रम् is to be employed to complete the sense. Therefore it does not apply to शोभनी गार्ग्यः = अतिगार्ग्यः ॥ But it would apply to अतिकारुकः, which when analysed becomes equal to अतिक्रान्तः कारुम् ॥
Bhashya¶
अतेरकृत्पदे (2851) (6378 न्यासान्तरबोधकवार्तिकम् ॥ 1 ॥) - अतेर्धातुलोपे - अतेर्धातुलोप इति वक्तव्यम् । अकृत्पदे इति ह्युच्यमाने इह च प्रसज्येत - शोभनो गार्ग्यः - अतिगार्ग्य इति । इह च न स्यात् - अतिकारकः, अतिपदा शक्वरी ॥
Kashika¶
अतेःपरमकृदन्तं पदशब्दश्चान्तोदात्तो भवति। अ॒त्य॒ङ्कु॒शो नागः। अ॒ति॒क॒शोऽश्वः। पदशब्दःखल्वपि — अ॒ति॒प॒दा शक्वरी। अकृत्पद इति किम्? अति॑कारकः॥ अतेर्धातुलोप इति वक्त व्यम्॥ इह मा भूत् — शोभनो गार्ग्यः अति॑गार्ग्यः। इह च यथा स्यात् — अतिक्रान्तः कारकाद् अ॒ति॒का॒र॒क इति॥
Siddhanta Kaumudi¶
अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तः । अत्यङ्कुशो नागः । अतिपदगायत्री । अकृत्पदे किम् । अतिकारः ।<!अतेर्धातुलोप इति वाच्यम् !> (वार्तिकम्) ॥ इह मा भूत् । शोभनो गार्ग्योऽतिगार्ग्यः । इह च स्यात् । अतिक्रान्तः कारुमतिकारुकः ॥
Padamanjari¶
अकृच्च पदच्च अकृत्पदे ॥
Nyaas¶
अकृत्पदे इति। अकृच्च पदं चाकृत्पदे -प्रथमाद्विवचनान्तमेतत्। अत्यङ्कुशो नागः इति। अङ्कुशशब्दः सानसिपर्णसि (द।उ।10।17) [सानसिधर्णसिपर्णसि -द।उ। सानासिवर्णसिपर्णसि -पं।उ।पं।उ।4।107) इत्यादिना अकि लक्षणे (धातुपाठः-1024) अस्मात्? पचाद्यच्, टाप्, एकादेश उदात्तेनोदात्तः (8.2.5) । तेन कशान्तोदात्ता। अतिपदा शक्वरी इति। खनो घ च (3.3.125) इति पदेर्घः। घित्करणेन हि ज्ञापितम् -तत्र घोऽन्यस्मादपि भवतीति। तेन पदमन्तोदात्तम्। अतिकारकः इति। करोतेर्ण्वुल्। अत्र तत्पुरुषे तुल्यार्थ (6.2.2) इत्यादिना पूर्वपदस्याव्ययस्वरो भवति। अतेर्धातुलोपः इति। यत्र धातोर्लोपस्तत्रातेरुत्तरपदमन्तोदात्तं भवतीति वक्तव्यम्। किमर्थम्? इत्याह -इह इत्यादि। यद्यतेर्धातुलोप इति नोच्येत, तदिहापि स्यात् -शोभनो गाग्र्योऽतिगाग्र्य इति। भवति ह्यत्रातेरुत्तरपदमकृदन्तम्। इह च न स्यात् -अतिक्रान्तः कारकादतिकारक इति। निरादयः क्रान्ताद्यर्थे पञ्चम्या (वा।94) इति प्रादिसमासः। अत्र हि कृदन्तः कारकशब्दः उत्तरपदम्। तत्र यद्यतेर्धातुलोप ति नोच्यते तदिहापि न स्यात्। एवं तूच्यमान इहापि भवति, अस्ति ह्यत्र क्रमेर्धातोर्लोपः। लोपः पुनस्तस्य समासे गम्यमानार्थत्वादप्रत्युज्यमानस्यादर्शनम्॥
Prakriyasarvasvam¶
अतः परसकृदन्तं पदशब्दश्चान्तोदात्तः स्यात् । अतिकृशोऽश्वः । अतिपदा शक्वरी । अकृतपदे इत्यपनीय ‘अतेर्धातुलोपे’ इति (लोपः?) वाच्यम् । अतिक्रान्त इति क्रमेर्लोपो धातुलोपः । तेन ‘स्वती पूजायाम्’ (स. ३-२-१४७) इति समासे अतिगार्ग्य इत्यत्र न । क्रान्तार्थेऽप्यतिकारक इत्यत्र तु स्यात् ।
Vartika¶
अतेर्धातुलोप इति वक्तव्यम् ।