62191: अतेरकृत्पदे ================== **Padacheda:** अतेः | S | 5 | 1 | अकृत्पदे | S | 1 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- After अति , a word not formed by a कृत् affix and the word पद have acute accent (उदात्त) on the last syllable. Vasu English Translation ------------------------ After अति , a word not formed by a कृत् affix and the word पद have acute accent (उदात्त) on the last syllable. Thus अत्यङ्कुशो꣡ नागः, अतिकशो꣡ऽश्वः, अतिपदा꣡ शक्वरी ॥ Why do we say 'non *krit*-word and पद'? Observe अतिकारकः ॥ Vart:- The rule is restricted to those compounds in which a root has been elided. That is, when in analysing the compound a verb like क्रम् is to be employed to complete the sense. Therefore it does not apply to शोभनी गार्ग्यः = अतिगार्ग्यः ॥ But it would apply to अतिकारुकः, which when analysed becomes equal to अतिक्रान्तः कारुम् ॥ Bhashya ------- अतेरकृत्पदे (2851) (6378 न्यासान्तरबोधकवार्तिकम् ॥ 1 ॥) - अतेर्धातुलोपे - अतेर्धातुलोप इति वक्तव्यम् । अकृत्पदे इति ह्युच्यमाने इह च प्रसज्येत - शोभनो गार्ग्यः - अतिगार्ग्य इति । इह च न स्यात् - अतिकारकः, अतिपदा शक्वरी ॥ Kashika ------- अतेःपरमकृदन्तं पदशब्दश्चान्तोदात्तो भवति। अ॒त्य॒ङ्कु॒शो नागः। अ॒ति॒क॒शोऽश्वः। पदशब्दःखल्वपि — अ॒ति॒प॒दा शक्वरी। अकृत्पद इति किम्? अति॑कारकः॥ अतेर्धातुलोप इति वक्त व्यम्॥ इह मा भूत् — शोभनो गार्ग्यः अति॑गार्ग्यः। इह च यथा स्यात् — अतिक्रान्तः कारकाद् अ॒ति॒का॒र॒क इति॥ Siddhanta Kaumudi ----------------- अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तः । अत्यङ्कुशो नागः । अतिपदगायत्री । अकृत्पदे किम् । अतिकारः । (वार्तिकम्) ॥ इह मा भूत् । शोभनो गार्ग्योऽतिगार्ग्यः । इह च स्यात् । अतिक्रान्तः कारुमतिकारुकः ॥ Padamanjari ----------- अकृच्च पदच्च अकृत्पदे ॥ Nyaas ----- `अकृत्पदे` इति। अकृच्च पदं चाकृत्पदे -प्रथमाद्विवचनान्तमेतत्। `अत्यङ्कुशो नागः` इति। अङ्कुशशब्दः `सानसिपर्णसि` (द।उ।10।17) [सानसिधर्णसिपर्णसि -द।उ। सानासिवर्णसिपर्णसि -पं।उ।पं।उ।4।107) इत्यादिना `अकि लक्षणे` (धातुपाठः-1024) अस्मात्? पचाद्यच्, टाप्, **एकादेश उदात्तेनोदात्तः** (8.2.5) । तेन कशान्तोदात्ता। `अतिपदा शक्वरी` इति। **खनो घ च** (3.3.125) इति पदेर्घः। घित्करणेन हि ज्ञापितम् -तत्र घोऽन्यस्मादपि भवतीति। तेन पदमन्तोदात्तम्। `अतिकारकः` इति। करोतेर्ण्वुल्। अत्र `तत्पुरुषे तुल्यार्थ` (6.2.2) इत्यादिना पूर्वपदस्याव्ययस्वरो भवति। `अतेर्धातुलोपः` इति। यत्र धातोर्लोपस्तत्रातेरुत्तरपदमन्तोदात्तं भवतीति वक्तव्यम्। किमर्थम्? इत्याह -`इह` इत्यादि। यद्यतेर्धातुलोप इति नोच्येत, तदिहापि स्यात् -शोभनो गाग्र्योऽतिगाग्र्य इति। भवति ह्यत्रातेरुत्तरपदमकृदन्तम्। इह च न स्यात् -अतिक्रान्तः कारकादतिकारक इति। `निरादयः क्रान्ताद्यर्थे पञ्चम्या` (वा।94) इति प्रादिसमासः। अत्र हि कृदन्तः कारकशब्दः उत्तरपदम्। तत्र यद्यतेर्धातुलोप ति नोच्यते तदिहापि न स्यात्। एवं तूच्यमान इहापि भवति, अस्ति ह्यत्र क्रमेर्धातोर्लोपः। लोपः पुनस्तस्य समासे गम्यमानार्थत्वादप्रत्युज्यमानस्यादर्शनम्॥ Prakriyasarvasvam ----------------- अतः परसकृदन्तं पदशब्दश्चान्तोदात्तः स्यात् । अतिकृशोऽश्वः । अतिपदा शक्वरी । अकृतपदे इत्यपनीय 'अतेर्धातुलोपे' इति (लोपः?) वाच्यम् । अतिक्रान्त इति क्रमेर्लोपो धातुलोपः । तेन 'स्वती पूजायाम्' (स. ३-२-१४७) इति समासे अतिगार्ग्य इत्यत्र न । क्रान्तार्थेऽप्यतिकारक इत्यत्र तु स्यात् । Vartika ------- अतेर्धातुलोप इति वक्तव्यम् ।