62190: पुरुषश्चान्वादिष्टः

Padacheda: पुरुषः | S | 1 | 1 |

च | S | 0 | 0 |

अन्वादिष्टः | S | 1 | 1 |

Sutrartha


Vasu English Summary

After अनु the acute accent (उदात्त) falls on the final of पुरुष when it means a man of whom mention was already made.

Vasu English Translation

After अनु the acute accent (उदात्त) falls on the final of पुरुष when it means a man of whom mention was already made. The word अन्वादिष्ट means ‘of a secondary importance, inferior’, or ‘mentioned again after having already been mentioned’. Thus अन्वादिष्टः पुरुषः = अनुपुरुषः꣡; but अनुगतः पुरुषः = अनुपुरुषः ॥

Kashika

पुरुषशब्दोऽन्वादिष्टवाची चानोरुत्तरोऽन्तोदात्तो भवति। अन्वादिष्टः पुरुषः अ॒नु॒पु॒रु॒षः। अन्वादिष्टोऽन्वाचितः कथितानुकथितो वा। अन्वादिष्ट इति किम् ? अनुगतः पुरुषः अनु॑पुरुषः॥

Siddhanta Kaumudi

अनोः परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः । अन्वादिष्ट पुरुषोऽनुपुरुषः । अन्वादिष्टः किम् । अनुगतः पुरुषोऽनुपुरुषः ॥

Padamanjari

अन्वादिष्टः - अप्रधानशिष्टः, यथा भिक्षामठ गां चानयेति गोरानयनम् । कथितानुकथितो वेति । कस्मिंश्चित्प्राक्कथिते योऽन्यः पश्चात्कथ्यते स कथितानुकथितः । अनुगतः - पश्चाद्गतः ॥

Nyaas

पृ? पालनपूरणयोः (दा।पा।1489) - अस्मात्? पुरः कुषन् (द।उ।9।14) इति कुषन्प्रत्ययः। तेन पुरुषशब्द आद्युदात्तः। अन्वादिष्टोऽन्वाचितः इति। अप्रधानशिष्ट इत्यर्थः। यथा भिक्षामट गाञ्यानयेत्यत्र गोरानयनम्, यथा वा - कर्त्तुः क्यङ्? सलोपश्च (3.1.11) इत्यत्र सलोपः। कथितानुकथितो वा इति। यः कथितात्? पश्चात्? कथितः स कथितानुकथितः। यो वा किञ्चित्? पाक्? कथयित्वा पश्चात् कथ्यते कथ्यते स कथितानुकथित इत्युच्यते। अनुगतः पुरुषोऽनुपुरुषः इति। यः पश्चाद्भवः पुरुष स एवमुच्यते॥