62192: नेरनिधाने¶
Padacheda: नेः | S | 5 | 1 |
अनिधाने | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
After नि the second member has the acute accent (उदात्त) on the last syllable when the sense is of ‘not laying down’.
Vasu English Translation¶
After नि the second member has the acute accent (उदात्त) on the last syllable when the sense is of ‘not laying down’. The word निधानं = अप्रकाशता ‘not making manifest’. Thus निमूल꣡म्, न्यक्ष꣡म्, नितृण꣡म् ॥ These are either Bahuvrihi or pradisamasa. In the case of their being Avyayibhava, they would have acute on the final by (6.1.223). Why do we say when meaning ‘not laying down’? Observe निवाक् = निहितवाक् as निवाग्वृषलः; निदण्डः = निहितदण्डः ॥ The force of नि is that of निधान here.
Kashika¶
नेः परमुत्तरपदमन्तोदात्तं भवत्यनिधाने। निधानमप्रकाशता। नि॒मू॒लम्। न्य॒क्षम्। नि॒तृ॒णम्। बहुव्रीहिरयं प्रादिसमासो वा। अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम्। अनिधान इति किम् ? निवा॑ग् वृषलः। निद॑ण्डः। निहितवाक्, निहितदण्ड इत्यर्थः। निशब्दोऽत्र निधानार्थं ब्रवीति। प्रादयो हि वृत्तिविषये ससाधनां क्रियामाहुः॥
Siddhanta Kaumudi¶
निधानमप्रकाशता ततोऽन्यदनिधानं प्रकाशनमित्यर्थः । निमूलम् । न्यक्षम् । अनिधाने किम् । निहितो दण्डो निदण्डः ॥
Padamanjari¶
निधानमप्रकाशतेति । न निधानमनिधानम् । निर्गतं मूलमस्य निर्गतं वा मूलन्निमूलम् । निधानार्थं ब्रवीतीति । अप्रकाशतां ब्रवीतीत्यर्थः । कथं पुनर्निशब्दस्यायमर्थः इत्याह - प्रादयो हीति ॥
Nyaas¶
निधानमप्रकाशता इति। न निधानमनिधानम्। निर्मूलम्, न्यक्षम् इति। मूल प्रतिष्ठायाम् (धातुपाठः-529)-अस्मात्? पचाद्यच्। तस्मान्मूलशब्दोऽन्तोदात्तः। वृतृवदिहनि कमिकषिभ्यः सः (द।उ।9।21) [कमिकषियुमुचिभ्यः - द।उ।] इत्यधिकृत्य अशेर्देवने (द।उ।9।24) इति सप्रत्ययान्तत्वादक्षशब्दोऽप्यन्तोदात्तः। नितृणम् इति। नब्विषयस्य (फि।सू।2।26) इति तृणमाद्युदात्तम्। बहुव्रीहिरयम् इत्यादि। यदा बहुव्रीहिस्तदा - निगतानि मूला न्यस्येति विग्रहः। यदा प्रादिसमासस्तदा निगतं मूलमिति। अव्ययीभावः कस्मादयं न भवति? इत्याह - अव्ययीभावे तु इत्यादि। बहुव्रीहौ तु समासान्तोदात्तत्वापवादः बहुव्रीहौ प्रकृत्या (6.2.1) इत्यादिना पूर्वपदस्य प्रकृतिस्वर उक्तः। तत्पुरुषेऽपि तत्पुरुषे तुल्यार्थ (6.2.2) इत्यादिना; तेन तयोर्विनाऽनेन वचनेनान्तोदात्तत्वं न सिध्यति। अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिदधम्, न हि तत्र तस्यापवादः उक्तः। निवाग्वृषलः; निदण्डः इति। अत्र पूर्वपदस्य प्रकृतिस्वर एव भवति। वाक्शब्दः क्विब्वचिप्रच्छि (द।उ।10।2) इत्यादिना क्विबन्तो व्युत्पादित आद्युदात्तः। दमु उपशमे (धातुपाठः-1203) - अस्मात्? ञमन्ताङ्ङः (द।उ।5।7) इति। तेन दण्डशब्दोऽप्यन्तोदात्तः। निशब्दोऽत्रि निधानार्थं ब्रावीति इति। अप्रकाशतां ब्रातीतीत्यर्थः। कथं पुनरत्र निशब्दो निधानार्थं ब्रावीति? इत्याह - प्रादयो हि इत्यादि। वृत्तिशब्देनेह समासवृत्त्यादिर्गुह्रते। प्रादयो हि स्वभावेनैव वृत्तिविषये ससाधनां क्रियामाहुः। तस्मादिह समासवृत्तौ विषयेयासावप्रकाशनात्मिका क्रिया निधानशब्दवाच्या वाक्साधना, दण्डसाधना च तां निशब्दो ब्रावीति॥
Prakriyasarvasvam¶
अनिधानादन्यत्रार्थे नेः परमन्तोदात्तं स्यात् । निर्मूलम् । बहुव्रीहिः प्रादिर्वा । निधाने तु-निहितदण्डो निदण्डः । तत्रा (ज?द) न्तात् देवाट्टित्त्वाङ्ङीपि ‘यस्य-’ (६-४-१४८) इति लोपे कृते ‘अनुदात्तस्य च यत्रोदात्तलोपः’ (६-१-१६१) इति ङीप उदात्तत्वम् । देवी । जनित्र्यजीजनत् ।