62189: अनोरप्रधानकनीयसी

Padacheda: अनोः | S | 5 | 1 |

अप्रधान-कनीयसी | S | 1 | 2 |

Sutrartha


Vasu English Summary

After अनु a word which is not the Principal as well as कनीयस् has acute accent (उदात्त) on the final.

Vasu English Translation

After अनु a word which is not the Principal as well as कनीयस् has acute accent (उदात्त) on the final. The word अप्रधान means a word which stands in a dependant relation in a compound. Thus अनुगतो ज्येष्ठम् = अनुज्येष्ठः꣡, अनुमध्यमः꣡ ॥ These are प्रादि samasa in which the first member is the principal or Pradhana. अनुगतः कनीयान् = अनुकनीया꣡म्, here the second member is the Principal: the word कनीयस् is taken as प्रधान ॥ Had it been non-pradhana, it would be covered by the first portion of the sutra, and there would have been no necessity of its separate enumeration. Why do we say “अप्रधान”? Observe अनुगतो ज्येष्ठः = अनुज्येष्ठः, where ज्येष्ठ is the Principal.

Kashika

अनोरुत्तरमप्रधानवाचि कनीयश्चान्तोदात्तं भवति। अनुगतो ज्येष्ठम् अ॒नु॒ज्ये॒ष्ठः। अ॒नु॒म॒ध्य॒मः। पूर्वपदार्थप्रधानः प्रादिसमासोऽयम्। अनुगतः कनीयान् अ॒नु॒क॒नी॒यान्। उत्तरपदार्थप्रधानोऽयम्। प्रधानार्थं च कनीयोग्रहणम्। अप्रधानकनीयसी इति किम्? अनुगतो ज्येष्ठो अनु॑ज्येष्ठः॥

Siddhanta Kaumudi

अनोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् । अनुगतो ज्येष्ठमनुज्येष्ठः । पूर्वपदार्थप्रधानः प्रादिसमासः । अनुगतः कनीयाननुकनीयान् । उत्तरपदार्थप्रधानः । प्रधानार्थं च कनीयोग्रहणम् । अप्रेति किम् । अनुगतो ज्येष्ठोऽनुज्येष्ठः ॥

Padamanjari

उदाहरणे उतरपदार्थस्याप्राधान्यं दर्शयति । पूर्वपदार्थप्रधानः प्रादिसमासोऽयमिति । प्रधानार्थे च कनीयोग्रहणमिति । अन्यत्रा प्रधानग्रहणेनैव सिद्धत्वात् । अनुगतो ज्यष्ठ इति । विग्रहविशेषेण प्रधानवाचित्वं ज्येष्टशब्दस्य दर्शयति ॥

Nyaas

अनुज्येष्ठः इति। वृद्धस्य च (5.3.62) इतीष्ठनि परतो वृद्धस्य ज्ज्यादेशः। जेष्ठशब्दो नित्सवरेणाणाद्युदात्तः। अनुमध्यमः इति। मध्यान्मः (4.3.8) इति मध्यमः, प्रत्ययस्वरेणान्तोदात्तः। पूर्वपदार्थप्रधानः प्रादिसमसोऽम् इति। अत्र हि योऽसौ ज्येष्ठमनुगतो मध्यमञ्च स प्राधान्येन प्रादिसमासेनोच्यते, ज्येष्ठमध्यमौ तु गुणभावेन। तस्मात्? पूर्वपदार्थप्रधानोऽयम्। अनुकनीयान् इति। ईयसुनि परतो युवशब्दस्य युवाल्पयोः कनन्यतरस्याम् (5.3.64) इति कनादेशः। कनीयशब्दो नित्स्वरेणाद्युदात्त-। अनुगतो ज्येष्ठोऽनुज्येष्ठः ति। उत्तरपदार्थप्रधानोऽयम्। तेन प्रधानवाचित्वं ज्येष्ठशब्दस्यास्ति॥

Prakriyasarvasvam

अनोः परमप्रधानार्थं कनीयश्चान्तोदात्तं स्यात् ॥ अनुगतो ज्येष्ठमनुज्येष्ठः । प्राक्पदार्थप्रधानः प्रादिसमासोऽयम् । अनुगतः कनीयान् अनुकनीयान् । अत्र परपदार्थप्रधानः ।