62186: अपाच्च

Padacheda: अपात् | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The word मुख has acute accent (उदात्त) on the final after the preposition अप्।

Vasu English Translation

The word मुख has acute accent (उदात्त) on the final after the preposition अप्। Thus अपमुख꣡म्, अपमुखः꣡ ॥ The compound is in one case Avyayibhava also, when rule (6.2.33) will be superseded. The separation of this from the last sutra, is for the sake of the subsequent aphorism, in which the anuvritti of अप only goes.

Bhashya

अपाच्च (2846) (सूत्राक्षेपभाष्यम्) किमर्थमिदमुच्यते, न उपसर्गात्स्वाङ्गं ध्रुवम् - ःइत्येव सिद्धम् ? (6380 सूत्रप्रयोजनवार्तिकम् ॥ 1 ॥) - अभेर्मुखमपाच्चाध्रुवार्थम् - अध्रुवार्थोऽयमारम्भः ॥ (6381 प्रयोजनान्तरवार्तिकम् ॥ 2 ॥) - अबहुव्रीह्यर्थो वा - अथवा बहुव्रीहेरिति वर्तते । अबहुव्रीह्यर्थोऽयमारम्भः ॥

Kashika

अपात् चोत्तरं मुखमन्तोदात्तं भवति। अ॒प॒मु॒खः। अ॒प॒मु॒खम्। अव्ययीभावेऽप्यत्र प्रयोजयति। तत्रापि हि परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु (६.२.३३) इत्युक्तम्। योगविभाग उत्तरार्थः॥

Siddhanta Kaumudi

अपमुखम् । योगविभाग उत्तरार्थः ॥

Padamanjari

अव्ययीभावोऽप्यत्र प्रयोजयतीति । कुतः इत्याह - तत्रापि हीति । यस्मातत्रापि परिप्रत्युपापा इति पूर्वपदप्रकृतिस्वरत्वमुक्तम्, तस्मात्सोऽपि प्रयोजयतीत्यर्थः । योगाविभाघ उतरार्थ इति । उतरत्र उपात् इत्यस्यैवानुवृत्तिर्यथा स्यात्, अभेर्मा भूत् ॥

Nyaas

अव्ययीभावोऽप्यत्र प्रयोजयति इति। न केवलं बहुव्रीहितत्पुरुषावित्यपिशब्दार्थः। तत्र यदा बहुव्रीहिस्तदा -अपगतं मुखमस्मादिति विग्रहः। यदा तु प्रादिसमासस्तदा अपगतं मुखमिति। यदा पुनरव्ययीभावस्तदा -अपमुखादिति, मुखं वर्जयित्वेत्यर्थः। अव्ययीभावस्तु अपपरिबहिरञ्चवः पञ्चम्या (2.1.12) इत्यनेन। कथं पुनरव्ययीभावः प्रयोजयति, यावता समासान्तोदात्तत्वेनैव सिद्धम्? इत्याह -तत्रापि हि इत्यादि। प्रकृतिस्वरत्वमित्यत्राध्याहार्यम्। तत्राप्यव्ययीभाव परिप्रत्युपापा (6.2.33) इत्यादिना पूर्वपदस्य प्रकृतिस्वरत्वमुक्तं समासस्वरापवादः। तस्मादव्ययीभावोऽपि प्रयोजयति। योगविबाग उत्तरार्थः इति। उत्तरसूत्रेऽपादित्यस्यैवानुवृत्तिर्यथा स्यात्, अभेर्मा भूत्। अव्ययपूर्वादपि प्रकृतिस्वरापवादो योगः। एवमुत्तरेऽपि योगाः `द्वित्रिभ्यां पद्दन्मूर्धसु बहुव्रीहौ (6.2.197) इत्यतो योगात्? प्राग्वेदितव्याः॥

Prakriyasarvasvam

मुखमन्तोदात्तं स्यात् । अपगतं मुखमस्य अपमुखम् । अत्राव्ययीभावोऽपि ।