62185: अभेर्मुखम्

Padacheda: अभेः | S | 5 | 1 |

मुखम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The word मुख has acute accent (उदात्त) on the final when preceded by अभि।

Vasu English Translation

The word मुख has acute accent (उदात्त) on the final when preceded by अभि। As, अभिमुख꣡म् ॥ It is a Bahuvrihi or a प्रादि samasa. If it is an Avyayibhava, then it would have acute on the final by (6.1.223) also. By (6.2.177), even मुख would have oxytone after an upasarga, the present sutra makes the additional declaration that मुख is oxytone even when the compound is not a Bahuvrihi, when it does not denote an indispensable part of body, or a part of body even, as was the case in (6.2.177). Thus अभिमुखा꣡ शाला ॥

Bhashya

अभेर्मुखम् (2845)

Kashika

अभेरुत्तंर मुखमन्तोदात्तं भवति। अ॒भि॒मु॒खः। बहुव्रीहिरयं प्रादिसमासो वा। अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम्। **उपसर्गात् स्वाङ्गम्०**(६.२.१७७) इति सिद्धे वचनमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं च। अ॒भि॒मु॒खा शाला॥

Siddhanta Kaumudi

अभिमुखम् । उपसर्गात्स्वाङ्गम्-(SK3911) इति सिद्धे बहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं चेदम् । अभिमुखा शाला ॥

Padamanjari

एउपसर्गात्स्वाङ्ग ध्रुवमिति सिद्ध इति । मुखं स्वाङ्गम् इति न सिद्ध्यति नाव्ययदिक्शब्द इति प्रतिषेधात् ॥

Nyaas

अभिमुखः इति। मुखशब्द उक्तस्वरः। अभिशब्दोऽन्तोदात्तः। बहुव्रीहिरयम्`इत्यादि। यदा बहुव्रीहिस्तदा -अभिगतं मुखमनेनेति विग्रहः। यदा तु प्रादिसमासस्तदा अभिगतो मुखम्, अभिगतो वा मुखेनेति। कस्मादयमव्ययीभावो न भवति? इत्याह -`अव्ययीबावे तु इत्यादि। वचनमिदमबहुव्रीह्रर्थम् इति। यदा मुखं ध्रुवं भवति तदाऽध्रुवार्थम्, अस्वाङ्गार्थ चेति। अध्रुवमस्वाङ्गञ्च मुखं बहुव्रीहावपि यदा भवति। अभिमुखा शाला इति। अभिगतं मुखं यस्या इति बहुव्रीहिः। अत्र उपसर्गात् स्वाङ्गं ध्रुवमपर्शु (6.2.177) इति न सिध्यति; मुखशब्दस्यास्वाङ्गवाचित्वात्॥

Prakriyasarvasvam

अभेः परं मुखमन्तोदात्तं स्यात् । अभिमुखा शाला ।