62187: स्फिगपूतवीणाऽञ्जोऽध्वकुक्षिसीरनामनाम च¶
Padacheda: स्फिग-पूत-वीणा-अञ्जस्-अध्वन्-कुक्षि-सीरनाम-नाम | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The words 1. स्फिग 2. पूत 3. वीणा 4. अञ्जस् 5. अध्वम् 6. कुक्षि 6. नामन् and a word denoting ‘a plough’ have acute accent (उदात्त) on the final when preceded by the preposition अप्।
Vasu English Translation¶
The words 1. स्फिग 2. पूत 3. वीणा 4. अञ्जस् 5. अध्वम् 6. कुक्षि 6. नामन् and a word denoting ‘a plough’ have acute accent (उदात्त) on the final when preceded by the preposition अप्। Thus अपस्फिग꣡म्, अपपूत꣡म्, अपवीण꣡म्, अपाञ्जः꣡, अपाध्वा꣡ (This ordains acute on the final where the compound apadhwa does not take the samasanta affix अच् by (5.4.85), when it takes that affix, the acute will also fall on the final because अच् is a चित् affix.) This further shows that the samasanta affixes are not compulsory. (अनित्यश्च समासान्तः), अपकुक्षिः, अपसीरः꣡ अपहलः꣡, अपलाङ्गल꣡म्, अपनाम꣡ ॥ These are प्रादि compounds or Bahuvrihi or Avyayibhavas. Some of these viz. स्फिग, पूत and कुक्षिः will be end-acute by (6.2.177), also when they denote parts of body and a permanent condition and the compound is a Bahuvrihi. Here the compound must not be a Bahuvrihi, nor should these words denote parts of body and permanent condition of these parts.
Bhashya¶
स्फिगपूतवीणाऽञ्ञ्जोऽध्वकुक्षिसीरनाम नाम च (2847) (सूत्रप्रयोजनाक्षेपभाष्यम्) स्फिगपूतग्रहणं किमर्थम्, न उपसर्गात्स्वाङ्गं ध्रुवम् इत्येव सिद्धम् ? (6377 सूत्रप्रयोजनवार्तिकम् ॥ 1 ॥) - स्फिगपूतग्रहणं च - किम् ? अध्रुवार्थमबहुव्रीह्यर्थमेव वा ॥
Kashika¶
स्फिग पूत वीणा अञ्जस् अध्वन् कुक्षि इत्येतान्युत्तरपदानि सीरनामानि च नामशब्दश्चापादुत्तराण्यन्तोदात्तानि भवन्ति। अ॒प॒स्फि॒गम्। अ॒प॒पू॒तम्। अ॒प॒वी॒णम्। अ॒पा॒ञ्जः। अ॒पा॒ध्वा। उपसर्गादध्वनः (५.४.८५) इति यदा समासान्तो नास्ति, तदानेनान्तोदात्तत्वं भवति। तस्मिन् हि सत्यच्प्रत्ययस्य चित्त्वादेव सिद्धम्। अनित्यश्च समासान्तः (परि० ८४) इत्येतदेव ज्ञापकम्। अ॒प॒कु॒क्षिः। अ॒प॒सी॒रः। अ॒प॒ह॒लम्। अ॒प॒ला॒ङ्ग॒लम्। अ॒प॒ना॒म। सर्वत्र प्रादिसमासो बहुव्रीहिरव्ययीभावो वा। स्फिगपूतकुक्षीणां ग्रहणमबहुव्रीह्यर्थम — ध्रुवार्थमस्वाङ्गार्थं च॥
Siddhanta Kaumudi¶
अपादिमान्यन्तोदात्तानि । अपस्फिगम् । अपपूतम् । अपवीणम् । अञ्जस् । अपाञ्जः । अध्वन् । अपाध्वा । उपसर्गादध्वनः-(SK953) इत्यस्याभावे इदम् । एतदेव च ज्ञापकं समासान्तानित्यत्वे उपकुक्षिः । सीरनाम । अपसीरम् । अपहलम् । नाम अपनाम । स्फिगपूतकुक्षिग्रहणमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं च ॥
Padamanjari¶
नामग्रहणं सीरशब्देनेव सम्बध्यते, न स्फिगादिभिःस्फिगपूतकुक्षीणां पृथग्ग्रहणात् । उपसर्गादध्वन इति यदा समासान्त इत्यादि । अत्र कारणमाह - तस्मिन् हि सतीति । ननु च एचौपसर्गादध्वनः इत्यत्र तु न विकल्पः श्रुतः, नापि प्रकृतः, तत्किमुच्यते - यदा समासान्तो नास्तीति अत आह - अनित्यस्चेति । यदि नित्यः समासान्तः स्यदध्वग्रहणमिह न कर्तव्यं स्याद्, अच्प्रत्ययस्य चित्वादेवान्तोदातत्वस्य सिद्धत्वात् कृतं तु, ज्ञापयति - समासान्तविधिरनित्य इति । एस्फिगपूतकुक्षीणामित्यादि । यदा ह्यएतानि स्वाङ्गवाचीनि ध्रुवाणि च भवन्ति, बहुव्रीहिश्च समासः, तदा उपसर्घात्स्वाङ्गम् इत्येव सिद्धम् ॥
Nyaas¶
स्फिगदीनां नामपर्यन्तानां समाहारे द्वन्द्वः। सीरनामानि च इति। हलादीनि। अपस्फिगम्, अपपूतम् इति। प्रादिसमासः, बहुव्रीहिर्वा। स्फिगपूतशब्दौ स्वाङ्गशिटामदन्तानाम् (फि।सू।2।29) इत्याद्युदात्तौ। केचित्तु स्फिगशब्दं धृतादित्वा(फि।सू।1।21)दन्तोदात्तमिच्छन्ति। रास्नासास्नास्थूणावीणाः (द।उ।5।47) इति वीणाशब्द आद्युदात्तो निपात्यते। अञ्जू इत्येतदस्मादसुन्। तेनञ्ज आद्युदात्तः। शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः क्वनिप् [क्वन् -इति मु। पाठः,] इत्यधिकृत्य अदेर्धच [अदेर्धश्च -द।उ।] इत्यध्वा। तेनायमाद्युदात्तः। उपसर्गादध्वनः इत्यादि। अच्प्रत्यन्ववपूर्वात्? सामलोभ्नः (5.4.75) इत्यतोऽझणेऽनुवर्तमाने उपसर्गादध्वनः (5.4.85) इत्यनेनाच्? समासान्तो विधीयते। तेन तस्मिन्? समासान्तेऽच्प्रत्ययस्य चित्त्वादेव सिद्धमन्तोदात्तत्वम्। ननु च नित्यः समासान्तः, तत्? किमुच्यते -यदा समासान्तो नास्तीति? अत आह -अनित्यश्च इत्यादि। यदि नित्यः समासान्तः स्यादध्वग्रहणमिह न कृतं स्यात्; अच्प्रत्ययस्य चित्त्वादेवान्तोदात्तस्य सिद्धत्वात्; कृतं च, तस्मादेतदेव ज्ञापयति -समासान्तविधिरनित्यः इति। तेन तत्रोपासितलोकभर्तरि इत्येवमादयः प्रयोगा उपपन्ना भवन्ति। प्लुषिकुषिशुषिभ्यः क्सिः (द।उ।1।11) [प्लुषिशुषिकुषिभ्यः क्सिः -द।उ।]
Prakriyasarvasvam¶
स्फिगादयः षट् सीरानामानि नाम पदं च अपात् पराण्यन्तोदात्तानि स्युः । अपस्फिगम् । अप३पूत, । अपवीणम् । अपाञ्जः । अपाध्वा । समासान्तस्यानित्यत्वात् । ‘उपसर्गादध्वनः’ (५-४-८५) इत्यजभावेऽयं विधिः । अपकुक्षिः । अपसीरम् । अपहलम् । अपनाम । सर्वदिबहुव्रीह्यव्ययीभावाः ।