62186: अपाच्च ============= **Padacheda:** अपात् | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The word मुख has acute accent (उदात्त) on the final after the preposition अप्। Vasu English Translation ------------------------ The word मुख has acute accent (उदात्त) on the final after the preposition अप्। Thus अपमुख꣡म्, अपमुखः꣡ ॥ The compound is in one case *Avyayibhava* also, when rule (6.2.33) will be superseded. The separation of this from the last *sutra*, is for the sake of the subsequent aphorism, in which the *anuvritti* of अप only goes. Bhashya ------- अपाच्च (2846) (सूत्राक्षेपभाष्यम्) किमर्थमिदमुच्यते, न उपसर्गात्स्वाङ्गं ध्रुवम् - ःइत्येव सिद्धम् ? (6380 सूत्रप्रयोजनवार्तिकम् ॥ 1 ॥) - अभेर्मुखमपाच्चाध्रुवार्थम् - अध्रुवार्थोऽयमारम्भः ॥ (6381 प्रयोजनान्तरवार्तिकम् ॥ 2 ॥) - अबहुव्रीह्यर्थो वा - अथवा बहुव्रीहेरिति वर्तते । अबहुव्रीह्यर्थोऽयमारम्भः ॥ Kashika ------- अपात् चोत्तरं मुखमन्तोदात्तं भवति। अ॒प॒मु॒खः। अ॒प॒मु॒खम्। अव्ययीभावेऽप्यत्र प्रयोजयति। तत्रापि हि **परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु** (६.२.३३) इत्युक्तम्। योगविभाग उत्तरार्थः॥ Siddhanta Kaumudi ----------------- अपमुखम् । योगविभाग उत्तरार्थः ॥ Padamanjari ----------- अव्ययीभावोऽप्यत्र प्रयोजयतीति । कुतः इत्याह - तत्रापि हीति । यस्मातत्रापि परिप्रत्युपापा इति पूर्वपदप्रकृतिस्वरत्वमुक्तम्, तस्मात्सोऽपि प्रयोजयतीत्यर्थः । योगाविभाघ उतरार्थ इति । उतरत्र उपात् इत्यस्यैवानुवृत्तिर्यथा स्यात्, अभेर्मा भूत् ॥ Nyaas ----- `अव्ययीभावोऽप्यत्र प्रयोजयति` इति। न केवलं बहुव्रीहितत्पुरुषावित्यपिशब्दार्थः। तत्र यदा बहुव्रीहिस्तदा -अपगतं मुखमस्मादिति विग्रहः। यदा तु प्रादिसमासस्तदा अपगतं मुखमिति। यदा पुनरव्ययीभावस्तदा -अपमुखादिति, मुखं वर्जयित्वेत्यर्थः। अव्ययीभावस्तु **अपपरिबहिरञ्चवः पञ्चम्या** (2.1.12) इत्यनेन। कथं पुनरव्ययीभावः प्रयोजयति, यावता समासान्तोदात्तत्वेनैव सिद्धम्? इत्याह -`तत्रापि हि` इत्यादि। प्रकृतिस्वरत्वमित्यत्राध्याहार्यम्। तत्राप्यव्ययीभाव `परिप्रत्युपापा` (6.2.33) इत्यादिना पूर्वपदस्य प्रकृतिस्वरत्वमुक्तं समासस्वरापवादः। तस्मादव्ययीभावोऽपि प्रयोजयति। `योगविबाग उत्तरार्थः` इति। `उत्तरसूत्रेऽपादित्यस्यैवानुवृत्तिर्यथा स्यात्, अभेर्मा भूत्। अव्ययपूर्वादपि प्रकृतिस्वरापवादो योगः। एवमुत्तरेऽपि योगाः `द्वित्रिभ्यां पद्दन्मूर्धसु बहुव्रीहौ` (6.2.197) इत्यतो योगात्? प्राग्वेदितव्याः॥ Prakriyasarvasvam ----------------- मुखमन्तोदात्तं स्यात् । अपगतं मुखमस्य अपमुखम् । अत्राव्ययीभावोऽपि ।