62184: निरुदकादीनि च¶
Padacheda: निरुदकादीनि | S | 1 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The words निरुदकetc. Have acute accent (उदात्त) on the final.
Vasu English Translation¶
The words निरुदकetc. Have acute accent (उदात्त) on the final. Thus निरुदक꣡म्, निरुलप꣡म्, निरुपल꣡म् &c.
1 निरुदक, 2 निरुपल निरुलप 3 निर्मक्षिक, 4 निर्मशक, 5 निष्कालक, 6 निष्कालिक, 7 निष्पेष, 8 दुस्तरीप, 9 निस्तरीप, 10 निस्तरीक, 11 निरजिन, 12 उदजिन, 13 उपाजिन, 14 परेर्हस्तपादकेशकर्षा आकृतिगण.
These may he considered either as a प्रादि समास or Bahuvrihi. If they be considered as avyayibhava compounds then they are end acute already by (6.1.223). The word निष्कालक = निष्क्रान्तः कालकात्, is a Pradi - samasa with the word काल ending in the affix कन् ॥ The word दुस्तरीपः is thus formed : to the root तॄ is added the affix ई and we have तरी (Unadi III.158) तरीम् पाति = तरीपः; कुत्सित स्तरीपः = दुस्तरीपः ॥ The word निस्तरीकः is formed by adding the affix कप् to the Bahuvrihi निस्तरी ॥ The words हस्त, पाद, केश and कर्ष have acute on the Final after परि, as, परिहस्तः, परिपादः, परिकेशः, and परिकर्षः ॥
Kashika¶
निरुदकादीनि च शब्दरूपाण्यन्तोदात्तानि भवन्ति। नि॒रु॒द॒कम्। नि॒रु॒ल॒पम्। नि॒रु॒प॒लम्। इत्यन्ये पठन्ति। नि॒र्म॒श॒कम्। नि॒र्म॒क्ष्िाकम्। एषां प्रादिसमासो बहुव्रीहिर्वा। अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम्। नि॒ष्का॒ल॒कः। निष्क्रान्तः कालकादिति कन्प्रत्ययान्तेन कालशब्देन प्रादिसमासः। नि॒ष्का॒लि॒क इत्यन्ये पठन्ति। नि॒ष्पे॒षः। दु॒स्त॒री॒पः। अवितृस्तृतन्त्रिभ्य ईः (प० उ० ३.१५८) — तरीः। तां पातीति तरीपः। कुत्सितस्तरीपो दुस्तरीपः। नि॒स्त॒री॒प इति केचित् पठन्ति। अपरे नि॒स्त॒री॒क इति। ते तरीशब्दान्ते बहुव्रीहौ कपं कुर्वन्ति। नि॒र॒जि॒नम्। उ॒द॒जि॒नम्। उ॒पा॒जि॒नम्। परेर्हस्तपादकेशकर्षाः (ग०सू० १७९)। प॒रि॒ह॒स्तः। प॒रि॒पा॒दः। प॒रि॒के॒शः। प॒रि॒क॒र्षः। निरुदकादिराकृतिगणः॥
Siddhanta Kaumudi¶
अन्तोदात्तानि । निरुदकम् । निरुपलम् ॥
Laghu Siddhanta Kaumudi¶
अरित्रम्। लवित्रम्। धुवित्रम्। सवित्रम्। खनित्रम्। सहित्रम्। चरित्रम्॥
Padamanjari¶
एषामित्यादि । यदा प्रदिसमासस्तदा - निर्गतमुदकं निर्गतं वोदकादिति विग्रहः, बहुव्रीहौ - निर्गतमुदकमस्मादिति । अथाव्ययीभावार्थमप्येषां ग्रहणं कस्मान्न भवति अथ आह - अव्ययीभावे त्विति । निष्कालिक इति । कालशब्दज्जानपदादिसूत्रेण ङीष्, ततः स्वार्थे कन्, केऽणः इति ह्रस्वः, कालिका, ततः प्रादिसमासः । निष्पेष इति । पिषेर्घञ् । कुत्सितस्तरीय इति । दुः कुत्सायां वर्तत इति दर्शयति । अपरे निस्तरीक इति । पठन्तीत्यनुषङ्गः, निष्पूर्वोऽजिनशब्दः । स एवोदुपपूर्वः । परेरित्यादि । परेरुतरे हस्तादयोऽन्तोदाता भवन्ति । परिहस्त इत्यादि । (हरैरिव केशा यस्य हरिकेशः , कपेरिव कपिकेशः )॥
Nyaas¶
निरुदकम् इति। निष्क्रान्तमुदकमस्मादिति बहुव्रीहिः, निष्क्रान्तमुदकादिति वा प्रादिसमासः। उदकं कायतीति आतोऽनुपसर्गे कः (3.2.3) , उदकस्योदः संज्ञायाम् (6.3.57) इत्युदभावः। तेनोदकमन्तोदात्तम्। निरुपलम् इति। विटपविष्टपविशिपोलपाः (द।उ।7।12) इत्युपलशब्दोऽन्तोदात्तो निपात्यते। निरुपलमित्यन्ये इति। उपपूर्वाल्लातेः आतश्चोपसर्गे (3.3.106) इति कः। तेनोपलशब्दस्थाथादि (6.2.143) स्वरेणाद्युदात्तः। निर्मक्षिकम्, निर्मशकमित्यदीनाम् इति। मशकमक्षिकाशब्दा(वा)द्युदात्तान्तोदात्तौ। तत्र हि अथादिः, प्राक्, शकटेः`(फि।सू।2।24), `अथ द्वितीयः प्रादीषात् (फि।सू।3।50) [द्वितीयं -फि।सू।] इति वर्तते। एषाम् इत्यादि। यदि प्रादिसमासस्तदा निर्गतमुदकं निर्गतं वोदकादिति विग्रहः। यदा तु बहुव्रीहिस्तदा निर्गतमुदकमस्मादिति। अथाव्ययीभावोऽप्येषां कस्यान्न भवति? इत्याह -अव्ययी भावे तु इत्यादि। बहुव्रीहिप्रादिसमासयोस्तु समासान्तोदात्तत्वेन न सिध्यति। तथा हि -बहुव्रीहौ प्रकृत्या पूर्वपदम् (6.2.1) इति समासस्वरापवादः पूर्वपदप्रकृतिस्वरो बहुव्रीहावुक्तः। प्रादिसमासेऽपि तत्पुरुषे तुल्यार्थ (6.2.2) इत्यादिना। निष्कालकः इति। कालशब्दः कन्प्रत्ययान्तत्वादाद्युदात्तः। निष्कालिकः इति। निष्क्रान्तः कालिकाया इति प्रादिसमासः। कालीति जानपदादिसूत्रेण (4.1.42) [द्वितीयं -फि।सू।] ङीषान्तत्वादन्तोदात्तः, ततः स्वार्थिके कनि कृतेऽप्याद्युदात्त एव भवति। निष्पेषः इति। विष्लृ सञ्चूर्णने (धातुपाठः-1452) अस्माद्घञ्। तेन पेषशब्द आद्युदात्तः। तरीं पाति इति। आतोऽनुपसर्गे कः (3.2.3) इति तरीपशब्दोऽन्तोदात्तः। कुत्सितस्तरीप इति कुत्सितग्रहणेन दुस्तरीपशब्दे दुःशब्दः कुत्सायां वर्तत इति दर्शयति। निस्तरीप इति केचित् इति। ते च निर्गतस्तरीप इति विगृह्र प्रादिसमासं कुर्वन्ति। अपरे निस्तरीक इति इति। पठन्तीति सम्बन्धः। निरजिनम् इत्यादि। अजिनमन्तोदात्तम् इत्युक्तम्। परेः इत्यादि। हस्तपादकेशाः स्वाङ्गशिटामदन्तानाम् (फि।सू।2।29) इत्याद्युदात्ताः। शिटाम्=सर्वनाम्नामित्यर्थः। कर्षशब्दः कर्षात्वतो घञोऽन्त उदात्तः (6.1.159) इत्यन्तोदात्तः॥
Prakriyasarvasvam¶
अन्तोदात्तानि स्युः । ‘उदकोपललोलपमशकमक्षिका१कालककालिकातरीक- तरोपपेषपर्वा निरः’ (स. ८-४-२०७) । निरुदकम् । निरुपलम् । इत्यादि । निर्मक्षिकम् । निष्कालकम् । निष्कालिकः । कालात्कन् । काल्याः कनि केऽणो ह्रस्वः । निस्तरीकः । तरीं पाति तरीपः । निस्तरीपः । निष्पेषः । एषु प्रादिर्बहु- व्रीहिर्वा । ‘उपसर्गात् स्वाङ्गम्’ (६-२-१७७) इति सिद्धेऽप्युक्तिरस्वाङ्गाद् ध्रुवार्था ।