62184: निरुदकादीनि च ==================== **Padacheda:** निरुदकादीनि | S | 1 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The words निरुदकetc. Have acute accent (उदात्त) on the final. Vasu English Translation ------------------------ The words निरुदकetc. Have acute accent (उदात्त) on the final. Thus निरुदक꣡म्, निरुलप꣡म्, निरुपल꣡म् &c. 1 निरुदक, 2 निरुपल निरुलप 3 निर्मक्षिक, 4 निर्मशक, 5 निष्कालक, 6 निष्कालिक, 7 निष्पेष, 8 दुस्तरीप, 9 निस्तरीप, 10 निस्तरीक, 11 निरजिन, 12 उदजिन, 13 उपाजिन, 14 परेर्हस्तपादकेशकर्षा आकृतिगण. These may he considered either as a प्रादि समास or *Bahuvrihi*. If they be considered as *avyayibhava* compounds then they are end acute already by (6.1.223). The word निष्कालक = निष्क्रान्तः कालकात्, is a *Pradi* - *samasa* with the word काल ending in the affix कन् ॥ The word दुस्तरीपः is thus formed : to the root तॄ is added the affix ई and we have तरी (*Unadi* III.158) तरीम् पाति = तरीपः; कुत्सित स्तरीपः = दुस्तरीपः ॥ The word निस्तरीकः is formed by adding the affix कप् to the *Bahuvrihi* निस्तरी ॥ The words हस्त, पाद, केश and कर्ष have acute on the Final after परि, as, परिहस्तः, परिपादः, परिकेशः, and परिकर्षः ॥ Kashika ------- निरुदकादीनि च शब्दरूपाण्यन्तोदात्तानि भवन्ति। नि॒रु॒द॒कम्। नि॒रु॒ल॒पम्। नि॒रु॒प॒लम्। इत्यन्ये पठन्ति। नि॒र्म॒श॒कम्। नि॒र्म॒क्ष्िाकम्। एषां प्रादिसमासो बहुव्रीहिर्वा। अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम्। नि॒ष्का॒ल॒कः। निष्क्रान्तः कालकादिति कन्प्रत्ययान्तेन कालशब्देन प्रादिसमासः। नि॒ष्का॒लि॒क इत्यन्ये पठन्ति। नि॒ष्पे॒षः। दु॒स्त॒री॒पः। **अवितृस्तृतन्त्रिभ्य ईः** (प० उ० ३.१५८) — तरीः। तां पातीति तरीपः। कुत्सितस्तरीपो दुस्तरीपः। नि॒स्त॒री॒प इति केचित् पठन्ति। अपरे नि॒स्त॒री॒क इति। ते तरीशब्दान्ते बहुव्रीहौ कपं कुर्वन्ति। नि॒र॒जि॒नम्। उ॒द॒जि॒नम्। उ॒पा॒जि॒नम्। परेर्हस्तपादकेशकर्षाः (ग०सू० १७९)। प॒रि॒ह॒स्तः। प॒रि॒पा॒दः। प॒रि॒के॒शः। प॒रि॒क॒र्षः। निरुदकादिराकृतिगणः॥ Siddhanta Kaumudi ----------------- अन्तोदात्तानि । निरुदकम् । निरुपलम् ॥ Laghu Siddhanta Kaumudi ----------------------- अरित्रम्। लवित्रम्। धुवित्रम्। सवित्रम्। खनित्रम्। सहित्रम्। चरित्रम्॥ Padamanjari ----------- एषामित्यादि । यदा प्रदिसमासस्तदा - निर्गतमुदकं निर्गतं वोदकादिति विग्रहः, बहुव्रीहौ - निर्गतमुदकमस्मादिति । अथाव्ययीभावार्थमप्येषां ग्रहणं कस्मान्न भवति अथ आह - अव्ययीभावे त्विति । निष्कालिक इति । कालशब्दज्जानपदादिसूत्रेण ङीष्, ततः स्वार्थे कन्, केऽणः इति ह्रस्वः, कालिका, ततः प्रादिसमासः । निष्पेष इति । पिषेर्घञ् । कुत्सितस्तरीय इति । दुः कुत्सायां वर्तत इति दर्शयति । अपरे निस्तरीक इति । पठन्तीत्यनुषङ्गः, निष्पूर्वोऽजिनशब्दः । स एवोदुपपूर्वः । परेरित्यादि । परेरुतरे हस्तादयोऽन्तोदाता भवन्ति । परिहस्त इत्यादि । (हरैरिव केशा यस्य हरिकेशः , कपेरिव कपिकेशः )॥ Nyaas ----- `निरुदकम्` इति। निष्क्रान्तमुदकमस्मादिति बहुव्रीहिः, निष्क्रान्तमुदकादिति वा प्रादिसमासः। उदकं कायतीति **आतोऽनुपसर्गे कः** (3.2.3) , **उदकस्योदः संज्ञायाम्** (6.3.57) इत्युदभावः। तेनोदकमन्तोदात्तम्। `निरुपलम्` इति। `विटपविष्टपविशिपोलपाः` (द।उ।7।12) इत्युपलशब्दोऽन्तोदात्तो निपात्यते। `निरुपलमित्यन्ये` इति। उपपूर्वाल्लातेः **आतश्चोपसर्गे** (3.3.106) इति कः। तेनोपलशब्दस्थाथादि (6.2.143) स्वरेणाद्युदात्तः। `निर्मक्षिकम्, निर्मशकमित्यदीनाम्` इति। मशकमक्षिकाशब्दा(वा)द्युदात्तान्तोदात्तौ। तत्र हि `अथादिः, प्राक्, शकटेः`(फि।सू।2।24), `अथ द्वितीयः प्रादीषात्` (फि।सू।3।50) [`द्वितीयं` -फि।सू।] इति वर्तते। `एषाम्` इत्यादि। यदि प्रादिसमासस्तदा निर्गतमुदकं निर्गतं वोदकादिति विग्रहः। यदा तु बहुव्रीहिस्तदा निर्गतमुदकमस्मादिति। अथाव्ययीभावोऽप्येषां कस्यान्न भवति? इत्याह -`अव्ययी भावे तु` इत्यादि। बहुव्रीहिप्रादिसमासयोस्तु समासान्तोदात्तत्वेन न सिध्यति। तथा हि -**बहुव्रीहौ प्रकृत्या पूर्वपदम्** (6.2.1) इति समासस्वरापवादः पूर्वपदप्रकृतिस्वरो बहुव्रीहावुक्तः। प्रादिसमासेऽपि `तत्पुरुषे तुल्यार्थ` (6.2.2) इत्यादिना। `निष्कालकः` इति। कालशब्दः कन्प्रत्ययान्तत्वादाद्युदात्तः। `निष्कालिकः` इति। निष्क्रान्तः कालिकाया इति प्रादिसमासः। कालीति जानपदादिसूत्रेण (4.1.42) [`द्वितीयं` -फि।सू।] ङीषान्तत्वादन्तोदात्तः, ततः स्वार्थिके कनि कृतेऽप्याद्युदात्त एव भवति। `निष्पेषः` इति। `विष्लृ सञ्चूर्णने` (धातुपाठः-1452) अस्माद्घञ्। तेन पेषशब्द आद्युदात्तः। `तरीं पाति` इति। **आतोऽनुपसर्गे कः** (3.2.3) इति तरीपशब्दोऽन्तोदात्तः। कुत्सितस्तरीप इति कुत्सितग्रहणेन दुस्तरीपशब्दे दुःशब्दः कुत्सायां वर्तत इति दर्शयति। `निस्तरीप इति केचित्` इति। ते च निर्गतस्तरीप इति विगृह्र प्रादिसमासं कुर्वन्ति। `अपरे निस्तरीक इति` इति। पठन्तीति सम्बन्धः। `निरजिनम्` इत्यादि। `अजिनमन्तोदात्तम्` इत्युक्तम्। `परेः` इत्यादि। हस्तपादकेशाः `स्वाङ्गशिटामदन्तानाम्` (फि।सू।2।29) इत्याद्युदात्ताः। शिटाम्=सर्वनाम्नामित्यर्थः। कर्षशब्दः **कर्षात्वतो घञोऽन्त उदात्तः** (6.1.159) इत्यन्तोदात्तः॥ Prakriyasarvasvam ----------------- अन्तोदात्तानि स्युः । 'उदकोपललोलपमशकमक्षिका१कालककालिकातरीक- तरोपपेषपर्वा निरः' (स. ८-४-२०७) । निरुदकम् । निरुपलम् । इत्यादि । निर्मक्षिकम् । निष्कालकम् । निष्कालिकः । कालात्कन् । काल्याः कनि केऽणो ह्रस्वः । निस्तरीकः । तरीं पाति तरीपः । निस्तरीपः । निष्पेषः । एषु प्रादिर्बहु- व्रीहिर्वा । 'उपसर्गात् स्वाङ्गम्' (६-२-१७७) इति सिद्धेऽप्युक्तिरस्वाङ्गाद् ध्रुवार्था ।