62170: जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः

Padacheda: जाति-काल-सुखादिभ्यः | S | 5 | 3 |

अनाच्छादनात् | S | 5 | 1 |

क्तः | S | 1 | 1 |

अ-कृतमितप्रतिपन्नाः | S | 1 | 3 |

Sutrartha


Vasu English Summary

After a word denoting a species (with the exception of a word for ‘garment or covering’) and after a time-denoting word as well as after सुख etc. the Participle in the क्त has acute accent (उदात्त) on the final in a बहुव्रीहि समास but not so when the participles are 1. कृत 2. मित 3. प्रतिपन्न।

Vasu English Translation

After a word denoting a species (with the exception of a word for ‘garment or covering’) and after a time-denoting word as well as after सुख etc. the Participle in the क्त has acute accent (उदात्त) on the final in a बहुव्रीहि समास but not so when the participles are 1. कृत 2. मित 3. प्रतिपन्न। Thus सारङ्गजग्धः꣡, पलाण्डुभक्षितः꣡, सुरापीतः꣡ ॥ कालः - मासजातः꣡, सवत्सरजातः꣡, द्व्यहजातः꣡, त्र्यहजातः꣡ ॥ सुख &c :- सुखजातः꣡ दुःखजातः꣡, तृप्तजातः꣡ ॥ Why do we say “after a Species, a time or सुख &c. word” ? Observe पुत्रजातः (2.2.37), the participle being placed after the word Putra. Why do we say ‘when not meaning a garment’? Observe व꣡स्त्रच्छन्नः, व꣡सनच्छन्नः from the root वस् with the affixes ष्ट्रन् and ल्युट् respectively. Why do we say “when not कृत &c.”? Observe कु꣡ण्डकृतः, कु꣡ण्डमितः कु꣡ण्डप्रातपन्नः; कुण्ड is first acute by Phit II.3 being neuter. These three participles do not stand first in a compound (contrary to (2.2.36)), as this sutra implies. In the counter-examples, above given, the first members retain their original accent (6.2.1). The words सुख &c are given under (3.1.18).

1 सुख, 2 दुःख, 3 तृप्त (तृप्त तोव्र) 4 कृच्छ्र, 5 अस्र, 6 आस्र, 7 अलीक 8 प्रतीप, 9 करुण, 10 कृपण, 11 सोढ 12 गहन.

Kashika

जातिवाचिन आच्छादनवर्जितात् कालवाचिनः सुखादिभ्यश्च परं क्तान्तं कृतमितप्रतिपन्नान् वर्जयित्वा बहुव्रीहौ समासेऽन्तोदात्तं भवति। सा॒र॒ङ्ग॒ज॒ग्धः। प॒ला॒ण्डु॒भ॒क्ष्िातः। सु॒रा॒पी॒तः। काल — मा॒स॒जा॒तः। सं॒व॒त्स॒र॒जा॒तः। द्व्य॒ह॒जा॒तः। त्र्य॒ह॒जा॒तः। सुखादिभ्यः — सु॒ख॒जा॒तः। दुः॒ख॒जा॒तः। तृ॒प्र॒जा॒तः। जात्यादिभ्य इति किम् ? पु॒त्रजा॑तः। आहिताग्न्यादित्वात् परनिपातः। अनाच्छादनादिति किम्? वस्त्र॑च्छन्नः। वस॑नच्छन्नः। अकृतमितप्रतिपन्ना इति किम्? कुण्ड॑कृतः। कुण्ड॑मितः। कुण्ड॑प्रतिपन्नः। एतेषु बहुव्रीहिषु निष्ठान्तस्य पूर्वनिपातो न भवत्यस्मादेव ज्ञापकात्। प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरो योजयितव्यः। सुखादयस्तृतीयेऽध्याये (३.१.१८) पठ्यन्ते॥

Siddhanta Kaumudi

सारङ्गजग्धः । मासजातः । सुखजातः । दुःखजातः । जातिकालेति किम् । पुत्रजातः । अनाच्छादनात्किम् । वस्त्रच्छन्नः । अकृतेति किम् । कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । अस्माज्ज्ञापकान्निष्ठान्तस्य परनिपातः ॥

Nyaas

शाङ्गरजग्धः इति। गुणातेरितेर्वा शमि धातोः संज्ञायाम् (3.2.14) इत्यच्? शङ्गरः, ततोऽपि प्रज्ञादेराकृतिगणत्वादण्। तेन शाङ्गरशब्दोऽन्तोदात्तः। पलाण्डुभक्षितः इति। पल गतौ (धातुपाठः-839) उणादयो बहुलम् (3.3.1) इत्याण्डुप्रत्ययः तेन पलाण्डुशब्दो मध्योदात्तः। सुरपीतः इति। सुसूधागुधिभ्यः क्रन् (द।उ।य8।42) इति सुराशब्द आद्युदात्तः। मासजातः इति। मसी परिमाणे (धातुपाठः-1221) [परिणामे`धातुपाठः-] अस्माद्घञ्, तेन मास आद्युदात्तः। `संवत्सरजातः इति। अशेः सरः (द।उ।8।50) [सरन् -द।उ।प।उ। (3।70)] इत्यधिकृत्य वसेश्च (द।उ।8।51) सम्पूर्वाच्चित् (द।उ।8।52) इति। तेन संवत्सरोऽन्तोदात्तः। द्व्यहजातः। त्र्यहजातः इति। द्वित्रिशब्दावन्तोदाततावित्युकतम्। सुखजातः इति। खनतेः सुपूर्वात्? अन्येष्वपि दृश्यते (3.2.101) इति डः। तेन सुखशब्दोऽन्तोदात्तः। एवं दृःखशब्दोऽपि वेदितव्यः। तेन तृप्रशब्दोऽन्तोदात्तः। कृच्छ्रजातः इति। कृतेच्छः क्रू च (द।उ।8।38,पं।उ।2।21) [कृते च्छक्? च -द।उ। `कृतेश्छक्रू च -पं।उ।] इति कृच्छ्रशब्दोऽन्तोदात्तः। असु क्षेणपे (धातुपाठः-1209) अस्माद्? बहुलमन्यत्र#आऽपि (द।उ।8।40) इति रक्, तेनास्लमन्तोदात्तम्। वृतृवदहनिकमिकषिब्यः सः (द।उ।9।21) [कषियुमुचिभ्यः -द।उ।] इति बहुलवचनादमेरपि भवति। अंसो वृषादित्वादाद्युदात्तः। अलकम् इति। अलतेः पुंसि संज्ञायां घः प्रायेण (3.3.118) , ततः कन्निति कन्नन्तोऽप्लकशब्दः। तेनाद्युदात्तः। कृवृदारिभ्य उनन् (पं।उ।3।53), तेन करुणशब्द आद्युदात्तः। रञ्जेः क्वुन् () इति बहुलवचनात्? कृपेरपि भवति। तेन कृपणमाद्युदात्तम्। सोढः इति क्तान्तम्। तेनैतदन्तोदात्तम्। पूर्ववद्घत्वढत्वादयः कर्तव्याः। प्रतीयम् इति। प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः। ऋक्पूः (5.4.74) इत्यादिनाऽकारः समासान्तः, द्व्यन्तरुपसर्गेभ्योऽप ईत् (6.3.97) इतीत्त्वम्। पुत्रजातः इति। अत्र बहुव्रीहिस्वर एव भवति। अमिचिमिदिशसिभ्यः क्त्रः (द।उ।8।86) पुवो ह्रस्वश्च (पं।3.4.164) तेन पुत्रशब्दोऽन्तोदात्तः। कथं पुनर्जातशब्दस्य परनिपातः, यावता निष्ठा (2.2.36) इति पूर्वनिपातेनात्र भवितव्यम्? इत्यत आह -आहिताग्न्यादित्वात् इत्यादि। पुत्रजातशब्दोऽयमाहितागन्यादिषु षठते, तेन वाऽऽहितागन्यादिषु (2.2.37) इति जातादिशब्दसय परनिपातः। वस्त्रच्छन्नः इति। वस्त्रम्ाच्छादनम्, आच्छाद्यतेऽनेनेति कृत्वा। वस्त्रशब्द उक्तस्वरः। छन्नशब्दः छद अपवारणे (धातुपाठः-1833) इत्यस्य ण्यन्तस्य निष्ठायां वा दन्तशान्त (7.2.27) इत्यादिना निपातितः। वसनच्छन्नः इति। वसेराच्छादनार्थाल्ल्युट्। तेन वसनमाद्युदात्तम्। कुण्डलकृतः इति। कुण्डशब्दोऽयं नब्विषयस्य (फि।सू।2।26) इत्याद्युदात्तः। कुण्डमितः इति। माङ् माने (धातुपाठः-1142), द्यतिस्यति (7.4.40) इत्यादिनेत्त्वम्। अथ कथमेतेषु बहुव्रीहिषु निष्ठा (2.2.36) इत्यनेन निष्ठान्तस्य पर्वनिपातो न भवति? इत्याह -एतेषु इत्यादि। यस्मादेतत्? कृतम्, तस्माज्जात्यादिभ्यः परस्यान्तोदात्तत्वबिधानाम्। एतस्मादेव ज्ञापकान्निष्ठान्तस्य पूर्वनिपातो न भवति; अन्यथा ह्रेतदन्तोदात्तत्वविदानं नोपपद्यते॥