62171: वा जाते¶
Padacheda: वा | S | 0 | 0 |
जाते | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
After a species (with the exception of a word for ‘garment or covering’) or a time-denoting word or after सुख etc. in a बहुव्रीहि समास the word जात has optionally acute accent (उदात्त) on the final.
Vasu English Translation¶
After a species (with the exception of a word for ‘garment or covering’) or a time-denoting word or after सुख etc. in a बहुव्रीहि समास the word जात has optionally acute accent (उदात्त) on the final. Thus दन्तजातः꣡ or द꣡न्तजातः, स्तनजातः꣡ or स्त꣡नजातः, मासजातः꣡ or मा꣡सजातः, संवत्सरजातः꣡ or संवत्सर꣡जातः; सुखजातः꣡ or सुखजातः, दुःखजातः꣡ or दुःख꣡जातः &c. The words दन्त and स्तन are first-acute by Phit II.6; मास is first-acute by Phit II.15, संवत्सर is finally-acute by Phit I.7. बहिष्ठवत्सरति शत्थान्ताम् “words ending in बहिष्ठ, वत्स, ति, शत् and थ are finally acute”, as बहिष्ठः꣡, संवत्सरः꣡, सप्ततिः꣡, त्रिंश꣡त्, गूथ꣡म् ॥ The words सुख and दुःख are end-acute by Phit I.6.
Kashika¶
जातशब्द उत्तरपदे वान्त उदात्तो भवति बहुव्रीहौ समासे जातिकालसुखादिभ्यः। द॒न्त॒जा॒तः, दन्त॑जातः। स्त॒न॒जा॒तः, स्तन॑जातः। कालात् — मा॒स॒जा॒तः, मास॑जातः। सं॒व॒त्स॒र॒जा॒तः, सं॒व॒त्स॒रजा॑तः। सुखादिभ्यः — सु॒ख॒जा॒तः, सु॒खजा॑तः। दुः॒ख॒जा॒तः, दुः॒खजा॑तः॥
Siddhanta Kaumudi¶
जातिकालसुखादिभ्यः परो जातशब्दो वान्तोदात्तः । दन्तजातः । मासजातः ॥
Padamanjari¶
दन्तस्तनशब्दौ स्वाङ्गशिटामदन्तानाम् इत्याद्यौदातौ । मासशब्दः प्रामादीनां च इत्याद्यौदातः । संवत्सरशब्दः बंहिष्ठवत्सरतिशत्थान्तानाम् इत्यन्तोदातः । अस्यार्थः - बंहिष्टवत्सरतिशत्थ त्येविमन्तानामन्त उदातो भवति - बंहिष्ठः, संवत्सरः, सप्ततिः, अशीतिः, त्रिंशत्, चत्वारिंशत्, गूथम्, पूथम् । सुखदुःखशब्दौ खान्तस्याशमादेः इत्यान्तोदातौ । अस्यार्थः - खान्तस्य शब्दस्याशकारमकारादेरन्त उदातो भवति, नखः, तौखा । अशमादेरिति किम् शिखा, मुखम् । तृपेः स्फायितञ्चि इत्यादिना रक्प्रत्ययः । कृतेश्छर च - कृच्छ्रम् । असेर्बहुलवचनाद्रक्, अस्रम् । अम्बिकादयश्चेति अम्बकशब्द इकन्प्रत्ययान्तो निपातितः । प्रतिगता आपोऽत्र प्रतीपम् । कृवापाजिभ्य उण् - कारुः । कृपेः क्युन् - कृपणः । सहेः क्ते सोढः । दश सुखादयः ॥
Nyaas¶
जातशब्दोऽपि क्तान्त इति तस्यापि जात्यादिभ्यः परस्य पूर्वेण नित्यमन्तोदात्तत्वे विकल्पोऽयमुच्यते। दन्तजातः इति। हसिमृग्रिण्वमिदमि`(द।उ।6।7) इत्यादिना तन् -दन्तः। तेनायमाद्युदात्तः। `स्तनजातः इति। स्तनशब्द उक्तस्वरः।
Prakriyasarvasvam¶
जात्यादिभ्योऽस्मिन् परेऽन्तोदात्तो वा स्यात् । दन्तजातः । मासजातः । सुखजातः इत्यादि । पक्षे प्राक्पदप्रकृतिस्वरः । दन्तः ‘स्वाङ्गशिटामदन्तानाम्’ (फि. सू. २९) इत्यन्तोदात्तः । मासे (स) प्रत्ययः । (खा ?) ‘स्वान्तस्याश्मादेः’ (स. ८-३-११४) अकारमकारादेः स्वा (खा ?)न्तस्यान्त उदात्तः स्यात् । इत्यन्तोदात्तं मुखम् ।