62169: निष्ठोपमानादन्यतरस्याम्¶
Padacheda: निष्ठोपमानात् | S | 5 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In a बहुव्रीहि समास the word मुख denoting ‘an actual mouth’ has optionally the acute accent (उदात्त) on the final when preceded by a participle in त or by that wherewith something is compared.
Vasu English Translation¶
In a बहुव्रीहि समास the word मुख denoting ‘an actual mouth’ has optionally the acute accent (उदात्त) on the final when preceded by a participle in त or by that wherewith something is compared. Thus प्रक्षालितमुखः꣡ or प्रक्षालित꣡मुखः or प्र꣡क्षालितमुखः ॥ When the final is not acute, then Rule (6.2.110) applies which makes the first member have acute on the final optionally, and when that also does not apply, then by (6.2.1) the first member preserves its original accent, which is that of the gati (6.2.49). Thus there are three forms. So also with a word denoting comparison:- सिंहमुखः꣡ or सिंह꣡मुखः, व्याघ्रमुखः꣡ or व्याघ्र꣡मुखः ॥
Kashika¶
निष्ठान्तादुपमानवाचिनश्च मुखं स्वाङ्गमुत्तरपदमन्यतरस्यां बहुव्रीहौ समासेऽन्तोदात्तं भवति। प्॒रक्षा॒लि॒त॒मु॒खः, प्॒रक्षा॒लि॒तमु॑खः, प्रक्षा॑लितमुखः। यदैतदुत्तरपदान्तोदात्तत्वं न भवति तदा निष्ठोपसर्गपूर्वमन्यतरस्याम् (६.२.११०) इति पक्षे पूर्वपदान्तोदात्तत्वम्, तदभावपक्षेऽपि पूर्वपदप्रकृतिस्वरत्वेन गतिस्वर इति त्रीण्युदाहरणानि भवन्ति। उपमानात् — सिं॒ह॒मु॒खः, सिं॒हमु॑खः। व्या॒घ्॒रमु॒खः, व्या॒घ्रमु॑खः॥
Siddhanta Kaumudi¶
निष्ठान्तादुपमानवाचिनश्च परं मुखं स्वाङ्गं वान्तोदात्तं बहुव्रीहौ । प्रक्षालितमुखः । पक्षे निष्ठोपसर्ग-(SK3844) इति पूर्वपदान्तोदात्तत्वम् । पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि भवति । उपमानम् । सिंहमुखः ॥
Padamanjari¶
हिंसेः पचाद्यच्, पःषोदरादित्वादाद्यन्तविपर्ययः - सिंहः । व्याजिघ्रतीति व्याघ्रः । आतश्चोपसर्गे इति कः । पाध्राध्माधेट्दृशः इति शो न भवति, जिघ्रतेः संज्ञायां प्रतिषेधः इति वचनात् ॥ एजातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतिमितप्रतिमन्नाः ॥ 6 - 2- 170 ॥ एननूदाहरणेषु प्रत्युदारहणेषु च नि,ठेति निष्ठान्तं पूर्वं प्रयोक्तव्यं स्यात् इत्यत आह - एतष्विति । प्रत्युदारहणे,त्याइदि । तत्र पुत्रशब्दोऽन्तोदातः । वसेष्ट्रन् - वस्त्रम् , दस्यैव ल्युट् - वसनम् । कुण्डशब्दः नब्विषयस्यानिसन्तस्य इत्याद्यदातः ॥
Prakriyasarvasvam¶
निष्ठान्तादुपमानार्थाच्च परं मुखं स्वाङ्गमन्तोदात्तं वा स्यात् ॥ प्रक्षालित- मुखः ॥ यदैतन्नास्ति तदा ‘निष्ठोपसर्गपूर्व—’ (६-२-११०) इति वा प्राक्- पदान्तोदात्तत्वं गतिस्वरश्चेति त्रिधा । उपमानात् पद्ममुखः । पदेर्मनि पद्मम् ।