62170: जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः =========================================================== **Padacheda:** जाति-काल-सुखादिभ्यः | S | 5 | 3 | अनाच्छादनात् | S | 5 | 1 | क्तः | S | 1 | 1 | अ-कृतमितप्रतिपन्नाः | S | 1 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- After a word denoting a species (with the exception of a word for 'garment or covering') and after a time-denoting word as well as after सुख etc. the Participle in the क्त has acute accent (उदात्त) on the final in a बहुव्रीहि समास but not so when the participles are 1. कृत 2. मित 3. प्रतिपन्न। Vasu English Translation ------------------------ After a word denoting a species (with the exception of a word for 'garment or covering') and after a time-denoting word as well as after सुख etc. the Participle in the क्त has acute accent (उदात्त) on the final in a बहुव्रीहि समास but not so when the participles are 1. कृत 2. मित 3. प्रतिपन्न। Thus सारङ्गजग्धः꣡, पलाण्डुभक्षितः꣡, सुरापीतः꣡ ॥ कालः - मासजातः꣡, सवत्सरजातः꣡, द्व्यहजातः꣡, त्र्यहजातः꣡ ॥ सुख &c :- सुखजातः꣡ दुःखजातः꣡, तृप्तजातः꣡ ॥ Why do we say "after a Species, a time or सुख &c. word" ? Observe पुत्रजातः (2.2.37), the participle being placed after the word *Putra*. Why do we say 'when not meaning a garment'? Observe व꣡स्त्रच्छन्नः, व꣡सनच्छन्नः from the root वस् with the affixes ष्ट्रन् and ल्युट् respectively. Why do we say "when not कृत &c."? Observe कु꣡ण्डकृतः, कु꣡ण्डमितः कु꣡ण्डप्रातपन्नः; कुण्ड is first acute by *Phit* II.3 being neuter. These three participles do not stand first in a compound (contrary to (2.2.36)), as this *sutra* implies. In the counter-examples, above given, the first members retain their original accent (6.2.1). The words सुख &c are given under (3.1.18). 1 सुख, 2 दुःख, 3 तृप्त (तृप्त तोव्र) 4 कृच्छ्र, 5 अस्र, 6 आस्र, 7 अलीक 8 प्रतीप, 9 करुण, 10 कृपण, 11 सोढ 12 गहन. Kashika ------- जातिवाचिन आच्छादनवर्जितात् कालवाचिनः सुखादिभ्यश्च परं क्तान्तं कृतमितप्रतिपन्नान् वर्जयित्वा बहुव्रीहौ समासेऽन्तोदात्तं भवति। सा॒र॒ङ्ग॒ज॒ग्धः। प॒ला॒ण्डु॒भ॒क्ष्िातः। सु॒रा॒पी॒तः। काल — मा॒स॒जा॒तः। सं॒व॒त्स॒र॒जा॒तः। द्व्य॒ह॒जा॒तः। त्र्य॒ह॒जा॒तः। सुखादिभ्यः — सु॒ख॒जा॒तः। दुः॒ख॒जा॒तः। तृ॒प्र॒जा॒तः। जात्यादिभ्य इति किम् ? पु॒त्रजा॑तः। आहिताग्न्यादित्वात् परनिपातः। अनाच्छादनादिति किम्? वस्त्र॑च्छन्नः। वस॑नच्छन्नः। अकृतमितप्रतिपन्ना इति किम्? कुण्ड॑कृतः। कुण्ड॑मितः। कुण्ड॑प्रतिपन्नः। एतेषु बहुव्रीहिषु निष्ठान्तस्य पूर्वनिपातो न भवत्यस्मादेव ज्ञापकात्। प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरो योजयितव्यः। सुखादयस्तृतीयेऽध्याये (३.१.१८) पठ्यन्ते॥ Siddhanta Kaumudi ----------------- सारङ्गजग्धः । मासजातः । सुखजातः । दुःखजातः । जातिकालेति किम् । पुत्रजातः । अनाच्छादनात्किम् । वस्त्रच्छन्नः । अकृतेति किम् । कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । अस्माज्ज्ञापकान्निष्ठान्तस्य परनिपातः ॥ Nyaas ----- `शाङ्गरजग्धः` इति। गुणातेरितेर्वा **शमि धातोः संज्ञायाम्** (3.2.14) इत्यच्? शङ्गरः, ततोऽपि प्रज्ञादेराकृतिगणत्वादण्। तेन शाङ्गरशब्दोऽन्तोदात्तः। `पलाण्डुभक्षितः` इति। `पल गतौ` (धातुपाठः-839) **उणादयो बहुलम्** (3.3.1) इत्याण्डुप्रत्ययः तेन पलाण्डुशब्दो मध्योदात्तः। `सुरपीतः` इति। `सुसूधागुधिभ्यः क्रन्` (द।उ।य8।42) इति सुराशब्द आद्युदात्तः। `मासजातः` इति। `मसी परिमाणे` (धातुपाठः-1221) [`परिणामे`धातुपाठः-] अस्माद्घञ्, तेन मास आद्युदात्तः। `संवत्सरजातः` इति। `अशेः सरः` (द।उ।8।50) [`सरन्` -द।उ।प।उ। (3।70)] इत्यधिकृत्य `वसेश्च` (द।उ।8।51) `सम्पूर्वाच्चित्` (द।उ।8।52) इति। तेन संवत्सरोऽन्तोदात्तः। `द्व्यहजातः। त्र्यहजातः` इति। द्वित्रिशब्दावन्तोदाततावित्युकतम्। `सुखजातः` इति। खनतेः सुपूर्वात्? **अन्येष्वपि दृश्यते** (3.2.101) इति डः। तेन सुखशब्दोऽन्तोदात्तः। एवं दृःखशब्दोऽपि वेदितव्यः। तेन तृप्रशब्दोऽन्तोदात्तः। `कृच्छ्रजातः` इति। `कृतेच्छः क्रू च` (द।उ।8।38,पं।उ।2।21) [`कृते च्छक्? च -द।उ। `कृतेश्छक्रू च` -पं।उ।] इति कृच्छ्रशब्दोऽन्तोदात्तः। `असु क्षेणपे` (धातुपाठः-1209) अस्माद्? `बहुलमन्यत्र#आऽपि` (द।उ।8।40) इति रक्, तेनास्लमन्तोदात्तम्। `वृतृवदहनिकमिकषिब्यः सः` (द।उ।9।21) [कषियुमुचिभ्यः -द।उ।] इति बहुलवचनादमेरपि भवति। अंसो वृषादित्वादाद्युदात्तः। `अलकम्` इति। अलतेः **पुंसि संज्ञायां घः प्रायेण** (3.3.118) , ततः कन्निति कन्नन्तोऽप्लकशब्दः। तेनाद्युदात्तः। `कृवृदारिभ्य उनन्` (पं।उ।3।53), तेन करुणशब्द आद्युदात्तः। `रञ्जेः क्वुन्` () इति बहुलवचनात्? कृपेरपि भवति। तेन कृपणमाद्युदात्तम्। `सोढः` इति क्तान्तम्। तेनैतदन्तोदात्तम्। पूर्ववद्घत्वढत्वादयः कर्तव्याः। `प्रतीयम्` इति। प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः। `ऋक्पूः` (5.4.74) इत्यादिनाऽकारः समासान्तः, **द्व्यन्तरुपसर्गेभ्योऽप ईत्** (6.3.97) इतीत्त्वम्। `पुत्रजातः` इति। अत्र बहुव्रीहिस्वर एव भवति। `अमिचिमिदिशसिभ्यः क्त्रः` (द।उ।8।86) `पुवो ह्रस्वश्च` (पं।3.4.164) तेन पुत्रशब्दोऽन्तोदात्तः। कथं पुनर्जातशब्दस्य परनिपातः, यावता `निष्ठा` (2.2.36) इति पूर्वनिपातेनात्र भवितव्यम्? इत्यत आह -`आहिताग्न्यादित्वात्` इत्यादि। पुत्रजातशब्दोऽयमाहितागन्यादिषु षठते, तेन `वाऽऽहितागन्यादिषु` (2.2.37) इति जातादिशब्दसय परनिपातः। `वस्त्रच्छन्नः` इति। वस्त्रम्ाच्छादनम्, आच्छाद्यतेऽनेनेति कृत्वा। वस्त्रशब्द उक्तस्वरः। छन्नशब्दः `छद अपवारणे` (धातुपाठः-1833) इत्यस्य ण्यन्तस्य निष्ठायां `वा दन्तशान्त` (7.2.27) इत्यादिना निपातितः। `वसनच्छन्नः` इति। वसेराच्छादनार्थाल्ल्युट्। तेन वसनमाद्युदात्तम्। `कुण्डलकृतः` इति। कुण्डशब्दोऽयं `नब्विषयस्य` (फि।सू।2।26) इत्याद्युदात्तः। `कुण्डमितः` इति। `माङ् माने` (धातुपाठः-1142), `द्यतिस्यति` (7.4.40) इत्यादिनेत्त्वम्। अथ कथमेतेषु बहुव्रीहिषु `निष्ठा` (2.2.36) इत्यनेन निष्ठान्तस्य पर्वनिपातो न भवति? इत्याह -`एतेषु` इत्यादि। यस्मादेतत्? कृतम्, तस्माज्जात्यादिभ्यः परस्यान्तोदात्तत्वबिधानाम्। एतस्मादेव ज्ञापकान्निष्ठान्तस्य पूर्वनिपातो न भवति; अन्यथा ह्रेतदन्तोदात्तत्वविदानं नोपपद्यते॥