62168: नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः

Padacheda: न | S | 0 | 0 |

अव्यय-दिक्शब्द-गो-महत्-स्थूल-मुष्टि-पृथु-वत्सेभ्यः | S | 5 | 3 |

Sutrartha


Vasu English Summary

In a बहुव्रीहि समास the acute accent (उदात्त) does not fall on such मुख ‘mouth’ denoting a real mouth when it comes after an indeclinable and a name of a direction or after 1. गो 2. महत् 3. स्थूल 4. मुष्टि 5. पृथु and 6. वत्स।

Vasu English Translation

In a बहुव्रीहि समास the acute accent (उदात्त) does not fall on such मुख ‘mouth’ denoting a real mouth when it comes after an indeclinable and a name of a direction or after 1. गो 2. महत् 3. स्थूल 4. मुष्टि 5. पृथु and 6. वत्स। Thus: अव्ययः - उच्चै꣡र्मुखः, नीचै꣡र्मुखः ॥ The words उच्चैः and नीचैः are finally acute and retain their accent. दिक् - प्रा꣡ङ्मुखः, प्रत्य꣡ङ्मुखः ॥ The word प्राङ् has acute on the first by (6.2.52), and प्रत्यङ् is finally acute by (6.3.139). गो &c :- गो꣡मुखः, महा꣡मुखः, स्थूल꣡मुखः, मुष्टिमु꣡खः पृथु꣡मुखः and वत्स꣡मुखः ॥ In these the first members of the Bahuvrihi preserve their respective accents under Rule (6.2.1) and in the case of compounds preceded by गो, मुष्टि and वत्स, the optional rule taught in the next sutra is also superseded by anticipation, though the words may denote comparison.

Kashika

अव्यय दिक्शब्द गो महत् स्थूल मुष्टि पृथु वत्स इत्येतेभ्यः परं मुखं स्वाङ्गवाचि बहुव्रीहौ समासे नान्तोदात्तं भवति। अव्यय — उ॒च्चैर्मु॑खः। नी॒चैर्मु॑खः। दिक् शब्द — प्राङ्मु॑खः। प्र॒त्यङ्मु॑खः। गो — गोमु॑खः। महत् — म॒हामु॑खः। स्थूल — स्थू॒लमु॑खः। मुष्टि — मु॒ष्टिमु॑खः। पृथु — पृथुमु॑खः। वत्स — व॒त्समु॑खः। पूर्वपदप्रकृतिस्वरो यथायोगमेषु भवति। गोमुष्टिवत्सपूर्वस्योपमानलक्षणो विकल्पः पूर्वविप्रतिषेधेन बाध्यते॥

Siddhanta Kaumudi

उच्चैर्मुखः । प्राङ्मुखः । गोमुखः । महामुखः । स्थूलमुखः मुष्टिमुखः । पृथुमुखः । वत्समुखः । पूर्वपदप्रकृतिस्वरोऽत्र । गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते ॥

Nyaas

पूर्वेण प्राप्तस्यान्तोदात्तत्वादयं प्रतिषेध उच्यते। उच्चैर्मुखः इति। उच्चैरित्येते स्वरादौ पठन्ते, तेऽन्तोदात्ता इति निपात्यन्ते। प्राङ्मुखः इति। प्राङित्येतत्? क्विन्नन्तमाद्युदात्तम्, तत्र अनिगन्तोऽञ्चतौ वप्रत्यये (6.2.52) इति पूर्वपदसय प्रकृतिस्वरः। प्रत्यङमुखः इति। अत्र कृदुत्तरपदप्रकृतिस्वरः। गोमुखः महामुखः इति। गोमहच्छब्दावन्तोदात्तावित्युक्तम्। स्थूलमुखः इति। स्थूल परिबृंहणे (धातुपाठः-1904), चुरार्दिः, तस्मात्? पचाद्यच्। तेन स्थूलशब्दोऽन्तोदात्तः। मुष्टिमुखः इति। मुषेः क्तिच्। तेन मुष्टिशब्दोऽन्तोदात्तः। पृथुमुखः इति। कुभ्र्रश्च (पं।3.1.23) इत्यधिकृत्य प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च (पं।उ।1।29) इति कुप्रत्ययः। तेन पृथुरन्तोदात्तः। वत्समुखः इति। वृतृवदिनि (द।उ।9।21) इत्यादिना सः। तेन वत्सोऽन्तोदात्तः। गोमुष्टि इत्यादि। उत्तरसूत्रेण निष्ठादिपूर्वपदस्योपमानलक्षणोऽपि यः प्राप्नोति सोऽप्यनेन बाध्यते। अस्य प्रतिषेधस्यावकाशो यत्र गवाद्युपमानं न; गौर्मुखमिव यस्य, मुष्टिर्मुखमिव यस्य, वत्सो मुखमिव यस्येति सर्वत्र गवाद्युपमेयम्, नोपमानम्। उत्तरसूत्रेण निष्ठादिपूर्वपदस्योपमानलक्षणस्य विकल्पस्यावकाशो यत्र गवादेरन्यदुपमानम् -सिंहमुखः, व्याघ्रमुख इति। यत्र गवाद्युपमानं तद्? यत्र पूर्वपदं तत्रोभयप्राप्तावुपमानलक्षणं बाधित्वाऽयमेव प्तिषेधो पूर्वप्रतिषेधेन॥

Prakriyasarvasvam

एभ्यः परं मुखं स्वाङ्गमन्तोदात्तं न स्यात् । तेन “बहुव्रीहौ प्रकृत्या—” (६-२-१) इति स्वरः । ‘भिषोऽन्त उदात्तः’ (फि. १) प्रातिपदिकस्यान्त उदात्तः स्यादिति उच्चैरन्तोदात्तः । उच्चैर्मुखः । प्राङ्मुखः । गोमुखः । महामुखः । प्रागादित्रये स्वर उक्तः । स्थूलादिचतुष्कमन्तोदात्तम् । स्थूलमुखः । मुष्टिमुखः । वत्समुखः । गोमुष्टिवत्सेषु उपमानोक्तविकल्पस्यानेन बाधः ॥