62168: नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः =================================================== **Padacheda:** न | S | 0 | 0 | अव्यय-दिक्शब्द-गो-महत्-स्थूल-मुष्टि-पृथु-वत्सेभ्यः | S | 5 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- In a बहुव्रीहि समास the acute accent (उदात्त) does not fall on such मुख 'mouth' denoting a real mouth when it comes after an indeclinable and a name of a direction or after 1. गो 2. महत् 3. स्थूल 4. मुष्टि 5. पृथु and 6. वत्स। Vasu English Translation ------------------------ In a बहुव्रीहि समास the acute accent (उदात्त) does not fall on such मुख 'mouth' denoting a real mouth when it comes after an indeclinable and a name of a direction or after 1. गो 2. महत् 3. स्थूल 4. मुष्टि 5. पृथु and 6. वत्स। Thus: अव्ययः - उच्चै꣡र्मुखः, नीचै꣡र्मुखः ॥ The words उच्चैः and नीचैः are finally acute and retain their accent. दिक् - प्रा꣡ङ्मुखः, प्रत्य꣡ङ्मुखः ॥ The word प्राङ् has acute on the first by (6.2.52), and प्रत्यङ् is finally acute by (6.3.139). गो &c :- गो꣡मुखः, महा꣡मुखः, स्थूल꣡मुखः, मुष्टिमु꣡खः पृथु꣡मुखः and वत्स꣡मुखः ॥ In these the first members of the *Bahuvrihi* preserve their respective accents under Rule (6.2.1) and in the case of compounds preceded by गो, मुष्टि and वत्स, the optional rule taught in the next *sutra* is also superseded by anticipation, though the words may denote comparison. Kashika ------- अव्यय दिक्शब्द गो महत् स्थूल मुष्टि पृथु वत्स इत्येतेभ्यः परं मुखं स्वाङ्गवाचि बहुव्रीहौ समासे नान्तोदात्तं भवति। अव्यय — उ॒च्चैर्मु॑खः। नी॒चैर्मु॑खः। दिक् शब्द — प्राङ्मु॑खः। प्र॒त्यङ्मु॑खः। गो — गोमु॑खः। महत् — म॒हामु॑खः। स्थूल — स्थू॒लमु॑खः। मुष्टि — मु॒ष्टिमु॑खः। पृथु — पृथुमु॑खः। वत्स — व॒त्समु॑खः। पूर्वपदप्रकृतिस्वरो यथायोगमेषु भवति। गोमुष्टिवत्सपूर्वस्योपमानलक्षणो विकल्पः पूर्वविप्रतिषेधेन बाध्यते॥ Siddhanta Kaumudi ----------------- उच्चैर्मुखः । प्राङ्मुखः । गोमुखः । महामुखः । स्थूलमुखः मुष्टिमुखः । पृथुमुखः । वत्समुखः । पूर्वपदप्रकृतिस्वरोऽत्र । गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते ॥ Nyaas ----- पूर्वेण प्राप्तस्यान्तोदात्तत्वादयं प्रतिषेध उच्यते। `उच्चैर्मुखः` इति। उच्चैरित्येते स्वरादौ पठन्ते, तेऽन्तोदात्ता इति निपात्यन्ते। `प्राङ्मुखः` इति। प्राङित्येतत्? क्विन्नन्तमाद्युदात्तम्, तत्र **अनिगन्तोऽञ्चतौ वप्रत्यये** (6.2.52) इति पूर्वपदसय प्रकृतिस्वरः। `प्रत्यङमुखः` इति। अत्र कृदुत्तरपदप्रकृतिस्वरः। `गोमुखः महामुखः` इति। गोमहच्छब्दावन्तोदात्तावित्युक्तम्। `स्थूलमुखः` इति। `स्थूल परिबृंहणे` (धातुपाठः-1904), चुरार्दिः, तस्मात्? पचाद्यच्। तेन स्थूलशब्दोऽन्तोदात्तः। `मुष्टिमुखः` इति। मुषेः क्तिच्। तेन मुष्टिशब्दोऽन्तोदात्तः। `पृथुमुखः` इति। `कुभ्र्रश्च` (पं।3.1.23) इत्यधिकृत्य प्रथिम्रदिभ्रस्जां सम्प्रसारणं `सलोपश्च` (पं।उ।1।29) इति कुप्रत्ययः। तेन पृथुरन्तोदात्तः। `वत्समुखः` इति। `वृतृवदिनि` (द।उ।9।21) इत्यादिना सः। तेन वत्सोऽन्तोदात्तः। `गोमुष्टि` इत्यादि। उत्तरसूत्रेण निष्ठादिपूर्वपदस्योपमानलक्षणोऽपि यः प्राप्नोति सोऽप्यनेन बाध्यते। अस्य प्रतिषेधस्यावकाशो यत्र गवाद्युपमानं न; गौर्मुखमिव यस्य, मुष्टिर्मुखमिव यस्य, वत्सो मुखमिव यस्येति सर्वत्र गवाद्युपमेयम्, नोपमानम्। उत्तरसूत्रेण निष्ठादिपूर्वपदस्योपमानलक्षणस्य विकल्पस्यावकाशो यत्र गवादेरन्यदुपमानम् -सिंहमुखः, व्याघ्रमुख इति। यत्र गवाद्युपमानं तद्? यत्र पूर्वपदं तत्रोभयप्राप्तावुपमानलक्षणं बाधित्वाऽयमेव प्तिषेधो पूर्वप्रतिषेधेन॥ Prakriyasarvasvam ----------------- एभ्यः परं मुखं स्वाङ्गमन्तोदात्तं न स्यात् । तेन “बहुव्रीहौ प्रकृत्या—” (६-२-१) इति स्वरः । 'भिषोऽन्त उदात्तः' (फि. १) प्रातिपदिकस्यान्त उदात्तः स्यादिति उच्चैरन्तोदात्तः । उच्चैर्मुखः । प्राङ्मुखः । गोमुखः । महामुखः । प्रागादित्रये स्वर उक्तः । स्थूलादिचतुष्कमन्तोदात्तम् । स्थूलमुखः । मुष्टिमुखः । वत्समुखः । गोमुष्टिवत्सेषु उपमानोक्तविकल्पस्यानेन बाधः ॥