62167: मुखं स्वाङ्गम्¶
Padacheda: मुखम् | S | 1 | 1 |
स्वाङ्गम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
In a बहुव्रीहि समास the acute accent (उदात्त) is on the final when the second member is मुख ‘mouth’ i.e. the actual bodily part of an animal and not used metaphorically.
Vasu English Translation¶
In a बहुव्रीहि समास the acute accent (उदात्त) is on the final when the second member is मुख ‘mouth’ i.e. the actual bodily part of an animal and not used metaphorically. Thus गौरमुखः꣡, भद्रमुखः꣡ ॥ Why do we say ‘an actual part of a body’? Observe दीर्घमुखा शाला ॥ Here मुख means “entrance or door”. The word स्वाङ्ग means “a non liquid substance actually to be found in living beings &c”. as explained in (3.4.54).
Kashika¶
मुखमुत्तरपदं स्वाङ्गवाचि बहुव्रीहौ समासेऽन्तोदात्तं भवति। गौ॒र॒मु॒खः। भ॒द्॒रमु॒खः। स्वाङ्गमिति किम्? दी॒र्घमु॑खा शाला। स्वाङ्गमद्रवादिलक्षणम् (४.१.५४ का०) इह गृह्यते॥
Siddhanta Kaumudi¶
गौरमुखः । स्वाङ्गं किम् । दीर्घमुखा शाला ॥
Padamanjari¶
उच्चैर्नीचैः शब्दै स्वरादिष्वन्तोदातौ । प्राक्शब्दः अनिगन्तोऽञ्चतौ इत्याद्यौदातः । प्रत्यङ्त्यित्र कृदुतरपदप्रकृतिस्वरः । गोमहतोरुक्तः स्वरः । स्थूलशब्दः ऋज्रेन्द्र इत्यादौ निपातितः, अन्तोदातः । मुषेः क्तिच् - मुष्टिः । कुश्च, प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्चेति पृथुः । वदेः सः वत्सः । गोमुष्टिवत्सपूर्वस्यत्यादि । अस्य प्रतिषेधस्यावकाशो यत्र गवाध्युपमानं न भवति - गौर्मुखमित यस्य, मुष्टिर्मुखमिव यस्य, वत्सो मुखमिव यस्येति, सर्वत्र गवाद्यौपमेयम्, नोपमानम् विकल्पस्योतरस्यावकाशो यत्र गवादिपूर्वपदं न भवति - सिंहमुखः व्याघ्रमुखः, गावादावुपमाने उभयप्रसंगेऽयमेव भवति प्रतिषेधः पूर्वविप्रतिषेधेन ॥
Nyaas¶
गौरमुखः इति। गुरी उद्यमने (धातुपाठः-1396) एतस्मादच्। तदन्तदपि प्रज्ञादेरवृत्करणात्? परज्ञादिभ्यश्च (5.4.38) इत्यण्, तेन गौरोऽन्तोदात्तः। उदि दृणातेरजलौ [दृणातेरजलौ -मुद्रितः पाठः] पूर्वपदान्त्यलोपश्च (पं।उ।5।19) इति प्रकृत्य डित्? खनेर्मुट्? स चोदात्तः (पं।उ।5।20) इति खनेरजलावित्येतौ प्रत्ययौ भवतः, तौ च डितौ, मुट्? चोदात्तः। तेन मुखशब्द आद्युदात्तः। भदरमुखः इति। ऋजेन्द्र (द।उ।8।46) इत्यादिसूत्रेण भद्रशब्दो व्युत्पाद्यते। तेन भद्र इत्यन्तोदात्तः। दीर्घमुखा शला इति। मुखशब्देनात्र द्वारप्रदेशः शालाया उच्यते। स्वाङ्गमद्रवलक्षणमिह गृह्रते इति अद्रवं मूर्त्तिमत्? स्वाङ्गम् (का।वृ।4.1.54) इत्यादि यत्परिभाषितं स्वाङ्गमद्रवादिलक्षणं तदिह गृह्रते। तेन दीर्घमुखा शालेत्यत्र न भवतीति भावः॥
Prakriyasarvasvam¶
स्वाङ्गार्थमुखमन्तोदात्तं स्यात् । स्मेरमुखः । अस्वाङ्गे दीर्घमुखा शाला ।