62155: नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः

Padacheda: नञः | S | 5 | 1 |

गुणप्रतिषेधे | S | 7 | 1 |

सम्पादि-अर्ह-हित-अलम्-अर्थाः | S | 1 | 3 |

तद्धिताः | S | 1 | 3 |

Sutrartha


Vasu English Summary

The words formed with the तद्धित affixes denoting ‘fitted for that’ – सम्पादिनि (5.1.99), ‘deserving that’ – तद् अर्हति (5.1.63), ‘good for that’ – तस्मै हितम् (5.1.5), ‘capable to effect that’ – तस्मै प्रभवति संतापादिभ्यः (5.1.101), have acute accent (उदात्त) on the final when preceded by the Negative Particle नञ् , when it makes a negation with regard to the above mentioned attributes.

Vasu English Translation

The words formed with the तद्धित affixes denoting ‘fitted for that’ – सम्पादिनि (5.1.99), ‘deserving that’ – तद् अर्हति (5.1.63), ‘good for that’ – तस्मै हितम् (5.1.5), ‘capable to effect that’ – तस्मै प्रभवति संतापादिभ्यः (5.1.101), have acute accent (उदात्त) on the final when preceded by the Negative Particle नञ् , when it makes a negation with regard to the above mentioned attributes. Thus संपादि ‘suited for that’ (5.1.99):- अकार्णवेष्टकिकं꣡ मुखम् = न कार्ण वेष्टकिकं (कर्ण वेष्टकाभ्यां सम्पादि) ॥ The affix is ठञ् ॥ अर्ह ‘deserving that’ (5.1.63):- अच्छैदिकः꣡ = न छैदिकः (छेदमर्हति). The affix is ठक् (5.1.64) and (5.1.19) हित ‘good for that’ (5.1.5) :- अवत्सीयः꣡ = न वत्सी यः ॥ The affix is छ(5.1.1). अलमर्थः ‘capable to effect that’ (5.1.101) :- असंतापिकः꣡ = न संतापिकः ॥ The affix is ठञ् (5.1.18) Why do we say ‘after नञ्’? Observe गर्दभरथमर्हति = गार्दभरथिकः, विगार्दभरथिकः, where the negative वि is used and therefore the avyaya वि retains its accent by (6.2.2). Why do we say ‘negation of that attribute’? Observe गार्दभरथिकादन्यः = अगार्दभरथिकः ॥ The word गुण here means the attribute denoted by the Taddhita affix, and not any attribute in general. Thus अकार्णवेष्टकिकं मुखं = कर्णवेष्टकाभ्याम् न संपादि मुखम् ॥ Why do we say ‘in the sense of sampadi &c’ ? Observe पाणिनीयमधीयते = पाणिनीयः, न पाणिनीयः, = अपाणिनीयः ॥ Why do we say “Taddhita affixes”? Observe कन्यां वोढुमर्हति = कन्यावोढा, न वोढा = अवोढा ॥ Here तृच् a krit affix is added in the sense of ‘deserving’ (3.3.169).

Kashika

संपादि अर्ह हित अलम् इत्येवमर्था ये तद्धितास्तदन्तान्युत्तरपदानि नञो गुणप्रतिषेधे वर्तमानात् पराण्यन्तोदात्तानि भवन्ति। संपादि — कर्णवेष्टकाभ्यां संपादि मुखं कार्णवेष्टकिकम्, न कार्णवेष्टकिकम् अ॒का॒र्ण्ावे॒ष्ट॒कि॒कम्। अर्ह — छेदमर्हति छैदिकः, न छैदिकः अ॒च्छ॒ैदि॒कः हित — वत्सेभ्यो हितो वत्सीयः, न वत्सीयः अ॒व॒त्सी॒यः। अलमर्थ — संतापाय प्रभवति सांतापिकः। न सांतापिकः अ॒सां॒ता॒पि॒कः। नञ इति किम्? गर्दभरथमर्हति गार्दभरथिकः। विगा॑र्दभरथिकः। गुणप्रतिषेध इति किम्? गार्दभरथिकादन्यः अगा॑र्दभरथिकः। गुण इति तद्धितार्थप्रवृत्तिनिमित्तं संपादित्वाद्युच्यते। तत्प्रतिषेधो यत्रोच्यते समासे, तत्रायं विधिः — कर्णवेष्टकाभ्यां न संपादि मुखमिति। संपाद्यर्हहितालमर्था इति किम्? पाणिनीयमधीते पाणिनीयः, न पाणिनीयः अपा॑णिनीयः। तद्धिता इति किम्? कन्यां वोढुमर्हति कन्याया वोढा, न वोढा अवो॑ढा। **अर्हे कृत्यतृचश्च**(३.३.१६९) इति तृच्॥

Siddhanta Kaumudi

संपाद्याद्यर्थतद्धितान्ता नञो गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकम् । न कार्णवैष्टकिकमकार्णवेष्टकिकम् । छेदमर्हति छैदिकः । न छैदिकोऽच्छैदिकः । न वत्सेभ्यो हितोऽवत्सीयः । न सन्तापाय प्रभवति । असान्तापिकः । नञः किम् । गर्दभरथमर्हति गार्दभरथिकः । द्विगार्दभरथिकः । गुणप्रतिषेदे किम् । गार्दभरथिकादन्योऽगार्दभरथिकः । गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादित्वाद्युच्यते । तत्प्रतिषेधो यत्रोच्यते तत्रायं विधिः । कर्णवेष्टकाभ्यां न सम्पादि मुखमिति । संपेति किम् । पाणिनीयमधीते पाणिनीयः । न पाणिनीयः अपाणिनीयः । तद्धिताः किम् । वोढुमर्हति वोढा । न वोढाऽवोढा ॥

Padamanjari

सम्पादि - शोभनम् । कार्णवेष्टकिकमिति । सम्पादिनि इति प्राग्वतेष्ठय् । छ्èअदिक इति । छ्èअदादिभ्यो नित्यम् इति आर्हादगोपुच्छ इत्यादिना ठक् । वत्सीय इति । प्राक् क्रीताच्छः । सान्तापिक इति । तस्मै प्रभवति सन्तापादिभ्यः इति पाग्वतेष्ठञ् । नञ तिति किमिति । प्रतिषेधे प्रायेण नञ एव प्रवृत्तिदर्शनात्प्रश्नः । विगार्दभरथिक तैति । अव्ययपूर्वपदप्रकृतिस्वर एवात्र भवति । गर्दभरथिकादन्य इत्यादि । उदाहरणादस्य विशेषंम प्रदशेयितुम् गुणप्रतिषेधे इति सूत्रावयवं व्याचष्टे - गुण इति । तद्धितार्थः सम्पाद्यादिः, तस्य यत्प्रवृत्तिनिमितं सम्पादित्वादि । आदिशब्देन तदर्हत्वादेर्ग्रहणम्, स गुण इत्युच्यते । उक्तं हि - संसर्गभेदकं यद्यत् सव्यापारं प्रतीयते । गुणत्वं परतन्त्रत्वातस्य शास्त्र उदाहृतम् ॥ इति । कथं तस्य गुणस्य प्रतिषेध उच्यते इत्याह - कर्णवेष्टकाभ्यां न सम्पादीति । ववेढेअति । अर्हर्थे तृच्, ढत्वधात्वष्टुअत्वधलोपषु सहिवहोरोदवर्णस्य इत्योत्वम् ॥

Nyaas

सम्पाद्याद्यर्थास्तद्धिताः इति। तद्धितप्रत्ययाः। तस्मात्? प्रत्ययग्रहणपरिभाषया (पु।प।वृ।44) तदन्तविधिज्र्ञायते। गुणप्रतषेधे इति। यस्मिन्? वाक्यार्थे तद्धित उत्पद्यते स तद्धितस्य प्रवृत्तिनिमित्तं विधीयते -यथोक्तम् -उपकारि सिद्धमङ्गम्, साध्योऽनुपकारकस्त्वङ्गी इति। अङ्गी, गुण इति पर्यायावेतौ। गुणस्य प्रतिषेधो गुणप्रतिषेधः। एतचच नञो विशेषणम्, गुणप्रतिषेधे चेन्नञ्वर्तत इत्यर्थः। कार्णवेष्टकिकम् इति। कर्णवेष्टकभ्यां शोभत इत्यर्थः। सम्पादिनि (5.1.99) इति प्राग्वतेष्ठञ् (5.1.18) , न कर्णवेष्टकिकमकार्णवेष्टकिकमिति। अत्र कर्णवेष्टकाभ्यां सम्पद्यत इति वाक्यार्थे तद्धितान्तस्य प्रवृत्तिनिमित्तं यो गुणस्तस्य प्रतिषेन नञ्वर्तते। तत्? पुनः प्रवृत्तिनिमित्त्वम्। छैदिकः इति। छेदमर्हतीति आर्हादगोपुच्छ (5.1.19) इत्यादिनां ठक्। वत्सीयः इति। प्रक्क्रीताच्छः (5.1.1) । सान्तापिकः इति। तस्मै प्रभवति संतापादिभ्यः (5.1.101) इति प्राग्वतेष्ठञ् (5.1.18) । विगार्दभरथिकः इति। तदर्हति (5.1.62) इत्यार्हीयष्ठञ्। विशब्देन प्रादिसमासः। विशब्दोऽयमिह गार्दभरथिक इत्यस्य गुणप्रतिषेधे वर्तते। अत्र तत्पुरुषे तुल्यार्थ (6.2.2) इत्यादिना पूर्वपदस्य प्रकृतिस्वर एव भवति। एवमुत्तरत्रापि। नञ्यसति, अस्मिन्? प्रत्युदाहरणेऽपि यत्? पूर्वपदं प्रकृतिस्वरः प्रत्युदाहार्यः। गार्दभरथिकदन्योऽगार्दभरथिकः इति। अत्र गार्दभरथिकादन्यत्र नञ्वर्तते, न तु गार्दभरथिकत्वस्य प्रतिषेधे; पर्युदासत्वादस्य। गुण इति तद्धितार्थप्रवृत्तिनिमित्तम् इत्यादि। तद्धितार्थः -कर्णवेष्टकाभ्यां सम्पादीत्येवमादिवाक्यार्थः, तत्र यत्? प्रवृत्तिनिमित्तं तद्धितान्तस्य शब्दस्य सम्पादित्वादि तत्? गुण इत्युच्यते। आदिशब्देन तदर्हत्वादेग्र्रहणम्। तद्धितान्तमलमर्थञ्च परिग्रह्रते। तत्प्रतिषेधः इत्यादि। तस्य प्रतिषेधो यत्र समास उच्यते तत्रायं विधिः। कथं तसय गुणस्य प्रतिषेध उच्यते? इत्याह -कर्णवेष्टकाभ्यां न सम्पादि मुखम् इति। एतेन सर्वेण प्रसज्यपरतिषेधेऽयं विधिः, न पर्युदास इति दर्शयन्नगार्दभरथिक इत्यतर प्रत्युदाहरणेऽस्य विधेरभावं दर्शयति। पाणिनीयम् इति। वृद्धाच्छः (4.2.125। अपाणिनीयः इति। अत्राध्येतर्यर्थे यस्तद्धितस्तदन्तमुत्तरपदम्। न सम्पाद्यर्हहिताद्यमलमर्था ये तद्धितास्तदन्तम्। वोढा इति। पूर्ववद्? धत्वढत्वष्टुत्वढलोपा विधेयाः, सहिवहोरोदवर्णस्य (6.3.112) इत्योत्त्वम्। अवोढा इति। अत्राहार्थो य कृदतः स उत्तरपदम्। तेन तद्धितगरहणादन्तोदात्तत्वमुत्तरपदस्य न भवति। अव्ययपूर्वपदप्रकृतिस्वर एव भवति। पूर्वपदप्रकृतस्वरापवादो योगः। एवमुत्तरेऽपि योगा द्रष्टव्याः। प्राग्बहुव्रीहाविदमेतत् (6.2.161) इत्यादियोगात्॥

Prakriyasarvasvam

गुणस्तद्धितार्थप्रवृत्तिनिमित्तं सम्पादित्वादि तन्निषेधार्थान्नञः सम्पाद्याद्यर्थ- तद्धिता अन्तोदात्ताः स्युः । अचान्दनिकमुरः । अच्छेदिकः । अवत्सीयः । असान्तापिकः ।