62154: मिश्रं चानुपसर्गमसंधौ

Padacheda: मिश्रम् | S | 1 | 1 |

च | S | 0 | 0 |

अनुपसर्गम् | S | 1 | 1 |

असन्धौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

The word मिश्र has acute accent (उदात्त) on the final after an Instrumental -3rd case when it is not joined with any Preposition and does not mean a ‘compact or alliance’.

Vasu English Translation

The word मिश्र has acute accent (उदात्त) on the final after an Instrumental -3rd case when it is not joined with any Preposition and does not mean a ‘compact or alliance’. Thus गुडमिश्राः꣡, तिलमिश्राः꣡, सर्पिमिश्राः꣡ ॥ Why do we say मिश्र? Observe गुडधानाः ॥ Why do we say ‘not having a Preposition’? Observe गुडसंमिश्राः ॥ The employment in this sutra of the phrase ‘anupasargam’ implies, that wherever else, the word misra is used, it includes misra with a preposition also. Therefore in (2.1.31) where the word मिश्र is used, we can form the Instrumental compounds with मिश्र preceded by a preposition also. Why do we say ‘not denoting a compact’? Observe ब्राह्मणमिश्रो राजा = ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः ॥ The word सन्धि here means a contract formed by reciprocal promises, if you do this thing for me, I will do this for you. Others say, it means close proximity, without losing identity, and thus differs from मिश्र in which two things blend together into one. Therefore though the King and the Brahmana may be in close proximity as regards space, they both retain their several individualities: hence the counter-example ब्राह्मणमिश्रोराजा ॥ While in the examples गुडमिश्राः &c there is no possibility of separating the two.

Kashika

तृतीयेति वर्तते। मिश्र इत्येतदुत्तरपदमनुपसर्गं तृतीयान्तात् परमन्तोदात्तं भव्यत्यसंधौ गम्यमाने। गु॒ड॒मि॒श्राः। ति॒ल॒मि॒श्राः। स॒र्पि॒र्मि॒श्राः। मिश्रमिति किम्? गु॒डधा॑नाः। अनुपसर्गमिति किम्? गु॒डसं॑मिश्राः। इहानुपसर्गग्रहणं ज्ञापकमन्यत्र मिश्रग्रहणे सोपसर्गग्रहणस्य। तेन मिश्रश्लक्ष्णैः (२.१.३१) इति सोपसर्गेणापि मिश्रशब्देन तृतीयासमासो भवति। असंधाविति किम्? ब्रा॒ह्म॒णमि॑श्रो राजा। ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः। संधिरिति हि पणबन्धेनैकार्थ्यमुच्यते। केचित् पुनराहुर्गृह्यमाणविशेषा प्रत्यासत्तिः संधिरिति। अत्र राज्ञो ब्राह्मणैः सह देशप्रत्यासत्तावपि सत्यां मूर्त्तिविभागो गृह्यत इति ब्राह्मणमिश्रो राजेति प्रत्युदाह्रियते। उदाहरणेष्वविभागापत्तिरेव गुडमिश्रा इति॥

Siddhanta Kaumudi

पणबन्धेनैकार्थ्यं सन्धिः । तिलमिश्राः । सर्पिर्भिश्राः । मिश्रं किम् । गुडधानाः । अनुपसर्गं किम् । तिलसंमिश्राः । मिश्रग्रहणे सोपसर्ग्रहणस्येदमेव ज्ञापकम् । असन्धौ किम् । ब्राह्मणमिश्रो राजा । ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः ॥

Padamanjari

कथं पुनर्मिश्रशब्दस्य विधीयमानः सम्मिश्रशब्दस्य प्राप्वोति, कथं वा मिश्रशब्देन समान उच्यमानः सोपसर्गेण लभ्यते अत आह - इहेत्यादि । प्रत्युदाहरणे सन्धिं दर्शयति - बाह्मकणैरिति । एतदेव स्पष्ययति - एकार्थ्यमापचेति । कथं पुनः सन्धिशब्दस्यायमर्थः इत्याह - सन्धिरिति । पणबन्धः - परिभाषणम् - यदि मे भवानेषं कुर्यादहमपि ते इदं करिष्यामीत्येवंरुपः । केचित्पुनरिति । गृह्यमाणो विशेषो व्यावृत्तिर्थस्यां प्रत्यासतो सा तथोक्ता । ततः किम् इत्याह - तत्रेति । यद्यपि राज्ञोऽपि ब्राह्मणैस्सह प्रत्यासतिरस्ति, तथापि सत्यामपि तस्यां परस्परमूर्तिविभागस्वरुपभेदो गृह्यत इति प्रत्युदाहरणोपपतिरित्यर्थः । उदाहरणेषु नैवमित्याह - उदाहरणेष्विति ॥

Nyaas

गुडमिश्राः इति। पूर्ववत्? पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (2.1.31) इत्यादिना समासः। गुडशब्दः इगुपध (3.1.135) इति गुड रक्षायाम् (दा।पा।1370) इत्यस्मात्? कः, तेनान्तोदात्तः। स्फायितञ्चि (द।उ।8।31) इत्यादिना रग्विधीयमानो बहुलवचनान्? मिशेरपि रग्भवति, तेन मित्रशब्दोऽन्तोदात्तः। तिलशब्दः तृणधान्यानाञ्च द्व्यषाम् (फि।सू।2।27) इत्याद्युदात्तः। प्रमिश्रम्, सन्मिश्रमित्यस्य प्राप्नोति, अतस्तन्निवृत्तयेऽनुपसर्गग्रहणं क्रियते? इत्याह -इह इत्यादि। अथ वा -मिश्रशब्देन तृतीयासमास उच्यमानः कथं सोपसर्गे लभ्यते? इत्याह -इह इत्यादि। यदि तदिहानुपसर्गग्रहणं क्रियते, तह्र्रन्यत्र मिश्रशब्दग्रहणे सोपसर्गस्य ग्रहणं नास्तीतीहानुपसर्गग्रहणमनर्थकं स्यात्। तेन इत्यादि। ज्ञापनस्य प्रयोजनं दर्शयति। ब्राआहृणमिश्रो राजा इति। पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (2.1.31) इत्यादिनैव समासः। ब्राआहृणैः सह संहितः इत्यनेन प्रत्युदाहरणे सन्धिं दर्शयति। ऐकार्थमापन्नः इति। अनन्तरोक्तमेवार्थं विस्पष्टीकरोति। एकः=अभिन्नोऽर्थो यस्य स एकार्थः, तद्भाव ऐकाथ्र्यम्। तदापन्नः प्राप्त इत्यर्थः। कथं पुनज्र्ञायते -सन्धिशब्दस्यायमर्थः? इत्याह -सन्धिः इत्यादि। पणबन्धः=परिभाषणम् -यदि मे भवानिदं कुर्यात्? ततोऽहमपि भवत इदं करिष्यामीत्येवञ्जातीयकम्। तेन पणबन्धेन यदैकाथ्र्यं तत्? सन्धिरुच्यते। तस्मात्? प्रत्युदाहरणे सन्धौ सति ब्राआहृणैः सह संहित ऐकाथ्र्यमापन्नः -इत्येषोऽर्थो विज्ञायते। केचित्? पुनराहुः इत्यादि। गृह्रमाणो विशेषो यस्यां प्रत्यासत्तौ सा गृह्रमणविशेषा सन्धिरिति केचिदेवमाहुः, तत्रैव स्यात्। एवंविधः सन्धिः प्रत्युदाहरणे नास्तीत्यत आह -अत्र राज्ञो ब्राआहृणौ सह इत्यादि। यद्यपि राज्ञा ब्राआहृणैः सह प्रत्यासत्तिः=देशसामीप्यमस्ति, तधापि सत्यामपि तस्यां मूर्तिविभागो मूर्तिविशेषो राज्ञो ब्राआहृणानाञ्च गृह्रत इत्येव। इतिकरणो हेतौ। यत एवम्, तेन ब्राआहृणैः सह मिश्रो राजेति प्रतयुदाह्यियते। उदाहणेष्वविभागापत्तिरेव इति। एतेन गृडमिश्रा इत्यादौ तु सन्धेरभावं दर्शयति। यथा हि विलीनेन मिश्रा धानादयो भवन्ति, तथास्य गुडाः, तेषां च मूर्त्तिविभागो न गृह्रते; न तत्र सन्धेरविभागापत्तिरिति। न विभागोऽविभागः, तस्यापत्तिः=प्राप्तिः। यदा पणबन्धेनैकाथ्र्यं सन्धिस्तदोदहरणेषु तस्याभावो वेदितव्यः स हि परिभाषणविशेषणलक्षणः। न चासौ गुडमिश्रेषु धानास्वचेतनेषु विद्यते; तस्य प्राणिधर्मत्वात्॥

Prakriyasarvasvam

असन्धौ द्योत्ये तृतीयान्तात् परमनुपसर्गं मिश्रमन्तोदात्तं स्यात् । गुणमिश्रः । उपसर्गे तु गुणसम्मिश्रः । ‘तत्पुरुषे तुल्य-’ (६-२-२) इति स्वरः । यदि त्वमित्थं कुर्याः अहं तवेदं कुर्यामिति पणबन्धनैकार्थ्यं तस्मिन् द्योत्ये तु ब्राह्मणमिश्रो राजा । तेनैकार्थ्यं प्राप्त इत्यर्थः ।