62155: नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः ======================================================= **Padacheda:** नञः | S | 5 | 1 | गुणप्रतिषेधे | S | 7 | 1 | सम्पादि-अर्ह-हित-अलम्-अर्थाः | S | 1 | 3 | तद्धिताः | S | 1 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The words formed with the तद्धित affixes denoting 'fitted for that' -- सम्पादिनि (5.1.99), 'deserving that' -- तद् अर्हति (5.1.63), 'good for that' -- तस्मै हितम् (5.1.5), 'capable to effect that' -- तस्मै प्रभवति संतापादिभ्यः (5.1.101), have acute accent (उदात्त) on the final when preceded by the Negative Particle नञ् , when it makes a negation with regard to the above mentioned attributes. Vasu English Translation ------------------------ The words formed with the तद्धित affixes denoting 'fitted for that' -- सम्पादिनि (5.1.99), 'deserving that' -- तद् अर्हति (5.1.63), 'good for that' -- तस्मै हितम् (5.1.5), 'capable to effect that' -- तस्मै प्रभवति संतापादिभ्यः (5.1.101), have acute accent (उदात्त) on the final when preceded by the Negative Particle नञ् , when it makes a negation with regard to the above mentioned attributes. Thus संपादि 'suited for that' (5.1.99):- अकार्णवेष्टकिकं꣡ मुखम् = न कार्ण वेष्टकिकं (कर्ण वेष्टकाभ्यां सम्पादि) ॥ The affix is ठञ् ॥ अर्ह 'deserving that' (5.1.63):- अच्छैदिकः꣡ = न छैदिकः (छेदमर्हति). The affix is ठक् (5.1.64) and (5.1.19) हित 'good for that' (5.1.5) :- अवत्सीयः꣡ = न वत्सी यः ॥ The affix is छ(5.1.1). अलमर्थः 'capable to effect that' (5.1.101) :- असंतापिकः꣡ = न संतापिकः ॥ The affix is ठञ् (5.1.18) Why do we say 'after नञ्'? Observe गर्दभरथमर्हति = गार्दभरथिकः, विगार्दभरथिकः, where the negative वि is used and therefore the *avyaya* वि retains its accent by (6.2.2). Why do we say 'negation of that attribute'? Observe गार्दभरथिकादन्यः = अगार्दभरथिकः ॥ The word गुण here means the attribute denoted by the *Taddhita* affix, and not any attribute in general. Thus अकार्णवेष्टकिकं मुखं = कर्णवेष्टकाभ्याम् न संपादि मुखम् ॥ Why do we say 'in the sense of *sampadi* &c' ? Observe पाणिनीयमधीयते = पाणिनीयः, न पाणिनीयः, = अपाणिनीयः ॥ Why do we say "*Taddhita* affixes"? Observe कन्यां वोढुमर्हति = कन्यावोढा, न वोढा = अवोढा ॥ Here तृच् a *krit* affix is added in the sense of 'deserving' (3.3.169). Kashika ------- संपादि अर्ह हित अलम् इत्येवमर्था ये तद्धितास्तदन्तान्युत्तरपदानि नञो गुणप्रतिषेधे वर्तमानात् पराण्यन्तोदात्तानि भवन्ति। संपादि — कर्णवेष्टकाभ्यां संपादि मुखं कार्णवेष्टकिकम्, न कार्णवेष्टकिकम् अ॒का॒र्ण्ावे॒ष्ट॒कि॒कम्। अर्ह — छेदमर्हति छैदिकः, न छैदिकः अ॒च्छ॒ैदि॒कः हित — वत्सेभ्यो हितो वत्सीयः, न वत्सीयः अ॒व॒त्सी॒यः। अलमर्थ — संतापाय प्रभवति सांतापिकः। न सांतापिकः अ॒सां॒ता॒पि॒कः। नञ इति किम्? गर्दभरथमर्हति गार्दभरथिकः। विगा॑र्दभरथिकः। गुणप्रतिषेध इति किम्? गार्दभरथिकादन्यः अगा॑र्दभरथिकः। गुण इति तद्धितार्थप्रवृत्तिनिमित्तं संपादित्वाद्युच्यते। तत्प्रतिषेधो यत्रोच्यते समासे, तत्रायं विधिः — कर्णवेष्टकाभ्यां न संपादि मुखमिति। संपाद्यर्हहितालमर्था इति किम्? पाणिनीयमधीते पाणिनीयः, न पाणिनीयः अपा॑णिनीयः। तद्धिता इति किम्? कन्यां वोढुमर्हति कन्याया वोढा, न वोढा अवो॑ढा। **अर्हे कृत्यतृचश्च**(३.३.१६९) इति तृच्॥ Siddhanta Kaumudi ----------------- संपाद्याद्यर्थतद्धितान्ता नञो गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकम् । न कार्णवैष्टकिकमकार्णवेष्टकिकम् । छेदमर्हति छैदिकः । न छैदिकोऽच्छैदिकः । न वत्सेभ्यो हितोऽवत्सीयः । न सन्तापाय प्रभवति । असान्तापिकः । नञः किम् । गर्दभरथमर्हति गार्दभरथिकः । द्विगार्दभरथिकः । गुणप्रतिषेदे किम् । गार्दभरथिकादन्योऽगार्दभरथिकः । गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादित्वाद्युच्यते । तत्प्रतिषेधो यत्रोच्यते तत्रायं विधिः । कर्णवेष्टकाभ्यां न सम्पादि मुखमिति । संपेति किम् । पाणिनीयमधीते पाणिनीयः । न पाणिनीयः अपाणिनीयः । तद्धिताः किम् । वोढुमर्हति वोढा । न वोढाऽवोढा ॥ Padamanjari ----------- सम्पादि - शोभनम् । कार्णवेष्टकिकमिति । सम्पादिनि इति प्राग्वतेष्ठय् । छ्èअदिक इति । छ्èअदादिभ्यो नित्यम् इति आर्हादगोपुच्छ इत्यादिना ठक् । वत्सीय इति । प्राक् क्रीताच्छः । सान्तापिक इति । तस्मै प्रभवति सन्तापादिभ्यः इति पाग्वतेष्ठञ् । नञ तिति किमिति । प्रतिषेधे प्रायेण नञ एव प्रवृत्तिदर्शनात्प्रश्नः । विगार्दभरथिक तैति । अव्ययपूर्वपदप्रकृतिस्वर एवात्र भवति । गर्दभरथिकादन्य इत्यादि । उदाहरणादस्य विशेषंम प्रदशेयितुम् गुणप्रतिषेधे इति सूत्रावयवं व्याचष्टे - गुण इति । तद्धितार्थः सम्पाद्यादिः, तस्य यत्प्रवृत्तिनिमितं सम्पादित्वादि । आदिशब्देन तदर्हत्वादेर्ग्रहणम्, स गुण इत्युच्यते । उक्तं हि - संसर्गभेदकं यद्यत् सव्यापारं प्रतीयते । गुणत्वं परतन्त्रत्वातस्य शास्त्र उदाहृतम् ॥ इति । कथं तस्य गुणस्य प्रतिषेध उच्यते इत्याह - कर्णवेष्टकाभ्यां न सम्पादीति । ववेढेअति । अर्हर्थे तृच्, ढत्वधात्वष्टुअत्वधलोपषु सहिवहोरोदवर्णस्य इत्योत्वम् ॥ Nyaas ----- `सम्पाद्याद्यर्थास्तद्धिताः` इति। तद्धितप्रत्ययाः। तस्मात्? प्रत्ययग्रहणपरिभाषया (पु।प।वृ।44) तदन्तविधिज्र्ञायते। `गुणप्रतषेधे` इति। यस्मिन्? वाक्यार्थे तद्धित उत्पद्यते स तद्धितस्य प्रवृत्तिनिमित्तं विधीयते -यथोक्तम् -`उपकारि सिद्धमङ्गम्, साध्योऽनुपकारकस्त्वङ्गी` इति। अङ्गी, गुण इति पर्यायावेतौ। गुणस्य प्रतिषेधो गुणप्रतिषेधः। एतचच नञो विशेषणम्, गुणप्रतिषेधे चेन्नञ्वर्तत इत्यर्थः। `कार्णवेष्टकिकम्` इति। कर्णवेष्टकभ्यां शोभत इत्यर्थः। **सम्पादिनि** (5.1.99) इति **प्राग्वतेष्ठञ्** (5.1.18) , न कर्णवेष्टकिकमकार्णवेष्टकिकमिति। अत्र कर्णवेष्टकाभ्यां सम्पद्यत इति वाक्यार्थे तद्धितान्तस्य प्रवृत्तिनिमित्तं यो गुणस्तस्य प्रतिषेन नञ्वर्तते। तत्? पुनः प्रवृत्तिनिमित्त्वम्। `छैदिकः` इति। छेदमर्हतीति `आर्हादगोपुच्छ` (5.1.19) इत्यादिनां ठक्। `वत्सीयः` इति। `प्रक्क्रीताच्छः` (5.1.1) । `सान्तापिकः` इति। **तस्मै प्रभवति संतापादिभ्यः** (5.1.101) इति **प्राग्वतेष्ठञ्** (5.1.18) । `विगार्दभरथिकः` इति। `तदर्हति` (5.1.62) इत्यार्हीयष्ठञ्। विशब्देन प्रादिसमासः। विशब्दोऽयमिह गार्दभरथिक इत्यस्य गुणप्रतिषेधे वर्तते। अत्र `तत्पुरुषे तुल्यार्थ` (6.2.2) इत्यादिना पूर्वपदस्य प्रकृतिस्वर एव भवति। एवमुत्तरत्रापि। नञ्यसति, अस्मिन्? प्रत्युदाहरणेऽपि यत्? पूर्वपदं प्रकृतिस्वरः प्रत्युदाहार्यः। `गार्दभरथिकदन्योऽगार्दभरथिकः` इति। अत्र गार्दभरथिकादन्यत्र नञ्वर्तते, न तु गार्दभरथिकत्वस्य प्रतिषेधे; पर्युदासत्वादस्य। `गुण इति तद्धितार्थप्रवृत्तिनिमित्तम्` इत्यादि। तद्धितार्थः -कर्णवेष्टकाभ्यां सम्पादीत्येवमादिवाक्यार्थः, तत्र यत्? प्रवृत्तिनिमित्तं तद्धितान्तस्य शब्दस्य सम्पादित्वादि तत्? गुण इत्युच्यते। आदिशब्देन तदर्हत्वादेग्र्रहणम्। तद्धितान्तमलमर्थञ्च परिग्रह्रते। `तत्प्रतिषेधः` इत्यादि। तस्य प्रतिषेधो यत्र समास उच्यते तत्रायं विधिः। कथं तसय गुणस्य प्रतिषेध उच्यते? इत्याह -`कर्णवेष्टकाभ्यां न सम्पादि मुखम्` इति। एतेन सर्वेण प्रसज्यपरतिषेधेऽयं विधिः, न पर्युदास इति दर्शयन्नगार्दभरथिक इत्यतर प्रत्युदाहरणेऽस्य विधेरभावं दर्शयति। `पाणिनीयम्` इति। `वृद्धाच्छः` (4.2.125। `अपाणिनीयः` इति। अत्राध्येतर्यर्थे यस्तद्धितस्तदन्तमुत्तरपदम्। न सम्पाद्यर्हहिताद्यमलमर्था ये तद्धितास्तदन्तम्। `वोढा` इति। पूर्ववद्? धत्वढत्वष्टुत्वढलोपा विधेयाः, **सहिवहोरोदवर्णस्य** (6.3.112) इत्योत्त्वम्। `अवोढा` इति। अत्राहार्थो य कृदतः स उत्तरपदम्। तेन तद्धितगरहणादन्तोदात्तत्वमुत्तरपदस्य न भवति। अव्ययपूर्वपदप्रकृतिस्वर एव भवति। पूर्वपदप्रकृतस्वरापवादो योगः। एवमुत्तरेऽपि योगा द्रष्टव्याः। `प्राग्बहुव्रीहाविदमेतत्` (6.2.161) इत्यादियोगात्॥ Prakriyasarvasvam ----------------- गुणस्तद्धितार्थप्रवृत्तिनिमित्तं सम्पादित्वादि तन्निषेधार्थान्नञः सम्पाद्याद्यर्थ- तद्धिता अन्तोदात्ताः स्युः । अचान्दनिकमुरः । अच्छेदिकः । अवत्सीयः । असान्तापिकः ।