62156: ययतोश्चातदर्थे

Padacheda: ययतोः | S | 6 | 2 |

च | S | 0 | 0 |

अतदर्थे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The words formed with the तद्धित affixes य and यत् when not denoting ‘useful for that’ have acute accent (उदात्त) on the last syllable after the particle नञ् negating the attribute.

Vasu English Translation

The words formed with the तद्धित affixes य and यत् when not denoting ‘useful for that’ have acute accent (उदात्त) on the last syllable after the particle नञ् negating the attribute. Thus पाशानां समूहः = पाश्याः, न पाश्याः = अपाश्याः꣡, So also अतृण्याः꣡ ( IV. 2.49); दन्तेषु भवं = दन्त्यम्, न दन्त्यं = अदन्त्य꣡म्, अकर्ण्य꣡म् (5.1.6). Why do we say ‘atadartha: not useful for that’. Observe पादार्थमुदकम् = पाद्यम्, न पाद्यम् = अ꣡पाद्यम् (5.4.25). This rule does not apply when the affixes are not Taddhita, as अदेयम् formed with the krit affix यत् ॥ There must be negation of the attribute, otherwise दन्त्यादन्यत् = अदन्त्यम् ॥ The affix य and यत्, one without any anubandha and the other with the anubandha त् being specifically mentioned, excludes all other affixes having य as their effective element, such as उप &c. (4.2.9), thus न वामदेव्यं = अ꣡वामदेव्यम् ॥ See (4.2.9).

Kashika

य यत् इत्येतौ यौ तद्धितावतदर्थे वर्तेते, तदन्तस्योत्तरपदस्य नञो गुणप्रतिषेधविषयादन्त उदात्तो भवति। पाशानां समूहः पाश्या, न पाश्या अ॒पा॒श्या। अ॒तृ॒ण्या। यत् — दन्तेषु भवं दन्त्यम्, न दन्त्यम् अ॒द॒न्त्यम्। अ॒क॒र्ण्यम्। अतदर्थ इति किम्? पादार्थमुदकं पाद्यम्, न पाद्यम् अपा॑द्यम्। तद्धिता इत्येव — अदे॑यम्। गुणप्रतिषेध इत्येव — दन्त्यादन्यद् अद॑न्त्यम्। निरनुबन्धकैकानुबन्धकयोः (सीर०प० ५०.५१) ययतोर्ग्रहणादिह न भवति — वामदेवाड् ड्यड्ड्यौ (४.२.९) — वामदेव्यम्, न वामदेव्यम् अवा॑मदेव्यम् इति॥

Siddhanta Kaumudi

ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्य नञो गुणप्रतिषेधविषयात्परस्यान्त उदात्तः स्यात् । पाशानां समूहः पाश्या । न पाश्या अपाश्या । अदन्त्यम् । अतदर्थे किम् । अपाद्यम् । तद्धितः किम् । अदेयम् । गुणप्रतिषेधे किम् । दन्त्यादन्यददन्त्यम् । तदनुबन्धग्रहणे नातदनुबन्धकस्येति । नेह । अवामदेव्यम् ॥

Padamanjari

पाशतृणशब्दाभ्यां समूहे पाशादिभ्यो यः दन्तकर्णशब्दाभ्यां भवार्थे दिगादिभ्यो यत्, शरीरावयवाच्चेति यत् । पाद्यमिति । पादार्घाभ्यां चेति यत् । अदेयमिति । अर्हार्थे अचो यत् ईद्याति इतीत्वम्, गुणः । निरनुबन्धकैकानुबन्धयीरिति । एते च परिभाषे - वामदेवाद् ड।ल्ड्ड।लै इत्यत्र ज्ञापिते ॥

Nyaas

पाश्या इति। प्रत्ययस्वरेणान्तोदात्तत्वम्। अदन्त्यम् इति। यतोऽनावः (6.1.213) इत्याद्युदात्तत्वम्। एवम् - अकण्र्यम् इत्येतदपि तद्वदेवाद्युदात्तम्। पाद्यम् इति। पादार्धाभ्याञ्च (5.4.25) इति यत्। दन्त्यादन्यददनत्यम् इति। अत्र दन्त्यादन्यत्र नञ्? वर्तते, न तु तदन्तस्य प्रतिषेदे। अदेयम् इति। अर्हे कृत्यतृचश्च (3.3.169) इत्यत्रार्हार्थे यत्, ईद्यति (6.4.65) इतीत्त्वम्। अथेह कस्मान्न भवति - वामदेवेन दृष्टं साम वामदेव्यम्? इत्यत आह - निरनुबन्धक इत्यादि। गतार्थम्॥

Prakriyasarvasvam

अतदर्थवति यत् तद्धितान्तं नञः परमन्तोदात्तं स्यात् । यः अपारया । यत् अदन्त्यम् । तादर्थ्येतु अपाद्यम् ।