62145: सूपमानात् क्तः¶
Padacheda: सूपमानात् | S | 5 | 1 |
क्तः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The Participle in क्त has acute accent (उदात्त) on the final when it is preceded by सु or by a word with which the second member is compared.
Vasu English Translation¶
The Participle in क्त has acute accent (उदात्त) on the final when it is preceded by सु or by a word with which the second member is compared. Thus सुकृत꣡म्, सुभुक्त꣡म्, सुपीत꣡म् ॥ With Upamana words we have - वृकावलुप्त꣡म्, शशलुत꣡म् , सिंहविनर्दित꣡म् ॥ This debars (6.2.49) and (6.2.48). When सु is not a Gati, the rule does not apply, as सुस्तुत꣡म् भवता ॥
Kashika¶
सु इत्येतस्मादुपमानात् च परं क्तान्तमुत्तरपदमन्तोदात्तं भवति। सु॒कृ॒तम् (तै०सं० ४.७.२.२)। सु॒भु॒क्त म्। सु॒पी॒तम्। उपमानात् — वृ॒का॒व॒लु॒प्तम्। श॒श॒प्लु॒तम्। सिं॒ह॒वि॒न॒र्दि॒तम्। सुशब्दाद् गतिरनन्तरः (६.२.४९) इति प्राप्त उपमानादपि तृतीया कर्मणि (६.२.४८) इत्ययमपवादः। गतिकारकोपपदादित्येव — सुस्तु॑तं भवता॥
Siddhanta Kaumudi¶
सोरुपमानाच्च परं क्तान्तमन्तोदात्तम् । ऋतस्य योनौ सुकृतस्य (ऋ॒तस्य योनौ॑ सुकृ॒तस्य॑) । शशप्लुतः ॥
Padamanjari¶
वृकावलुप्तमित्यादि । लूञ् छेदने , च्युङ् प्रुङ् प्लुङ् गतौ, नर्द गर्द शब्दे - सर्वत्र कर्तृकरकणे कृता बहुलम् इति समासः । कवृकैसरिवालुप्तमित्यादिविग्रहः । उपमानादपीत्यादि । अत्रेतिशब्दस्यानन्तरं प्रप्त इत्यस्यानुषङ्गः ॥
Nyaas¶
सुपीतम् इति। घुमास्था (6.4.66) इत्यादिसूत्रेणेत्त्वम्। वृकावलुप्तम् इति। लुप्लृच्छेदने (धातुपाठः-1431)। शशप्लुतम् इति। च्युङ् जयुङ्? प्रुङ्? प्लुङ्? गतौ (धातुपाठः-955,956,957,958)। सिंहविनर्दितम् इति। नर्द शब्दे (धातुपाठः-56) सर्वत्र कर्तृकरणे कृता बहुलम् (2.1.32) इति समासः। वृकैरिवावप्लुतमित्यादिर्विग्रहः॥
Prakriyasarvasvam¶
सोतपमानाच्च परं क्तान्तमन्तोदात्तं स्यात् । सुष्टुतः कृष्णः । हरिणेव हतो हरिहतः । ‘कर्तृकरणे कृता—’ (२-१-३२) इति समासः । गतिरनन्तरः’ (६-२-४९) ‘तृतीयाकर्मणि’ (६-२-४८) इत्यनयोरपवादः ।