62146: संज्ञायामनाचितादीनाम्¶
Padacheda: संज्ञायाम् | S | 7 | 1 |
अनाचितादीनाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
The Participle in क्त has acute accent (उदात्त) on the last syllable when preceded by a गति or a कारक or an उपपद if the compound denotes a Name, but not in आचित etc.
Vasu English Translation¶
The Participle in क्त has acute accent (उदात्त) on the last syllable when preceded by a गति or a कारक or an उपपद if the compound denotes a Name, but not in आचित etc. Thus संभूतो꣡ रामायणः, उपहूतः꣡ शाकल्यः, परिजग्धः꣡ कौण्डिन्यः ॥ This debars (6.2.49), धनुषखाता꣡ नदी, कुद्दालखात꣡म् नगरम्, हस्तिमृदिता꣡ भूमिः ॥ Here (6.2.48) is debarred. Why do we say “when it is not आचित &c” Observe आचितम् &c.
1 आचित, 2 पर्याचित, 3 आस्थापित, 4 परिगृहीत, 5 निरुक्त, 6 प्रतिपन्न, 7 अपश्लिष्ट, 8 प्रश्लिष्ट, 9 उपहित (उपहत) 10 उपस्थित, 11 संहितागवि (संहिताशब्दो यदा गोरन्यस्य संज्ञा तदान्तोदात्तो न भवति । यदा तु गोः संज्ञा तदान्तोदात्त एव ॥)
The word संहिता in the above list does not take acute on the final, when it is the name of anything else than a ‘cow’; but when it denotes ‘a cow’ it has acute on the final.
Kashika¶
संज्ञायां विषये गतिकारकोपपदात् क्तान्तमुत्तरपदमन्तोदात्तं भवति आचितादीन् वर्जयित्वा। सं॒भू॒तो रामायणः। उ॒प॒हू॒तः शाकल्यः। प॒रि॒ज॒ग्धः कौण्डिन्यः। संभूत इति प्राप्त्यर्थाद् भवतेः कर्मणि क्त ः। गतिरनन्तरः (६.२.४९) इत्यत्र हि कर्मणीत्यनुवर्तते, तद्बाधनार्थं चेदम्। ध॒नु॒ष्खा॒ता नदी। कु॒द्दा॒ल॒खा॒तं नगरम्। ह॒स्ति॒मृ॒दि॒ता भूमिः। तृतीया कर्मणि (६.२.४८) इति प्राप्तिरिह बाध्यते। अनाचितादीनामिति किम्? आचि॑तम्। पर्या॑चितम्। आस्था॑पितम्। परि॑गृहीतम्। निरु॑क्तम्। प्रति॑पन्नम्। प्रश्लि॑ष्टम्। उप॑हतम्। उप॑स्थितम्। संहितागवि (ग०सू० १७५)। संहिताशब्दो यदा गोरन्यस्य संज्ञा तदान्तोदात्तो न भवति। यदा तु गोः संज्ञा तदान्तोदात्त एव॥
Siddhanta Kaumudi¶
गतिकारकोपपदात् क्तान्तमन्तोदात्तमाचितादीन्वर्जयित्वा उपहूतः शाकल्यः । परिजग्धः कौण्डिन्यः । अनेति किम् । आचितम् । आस्थापितम् ॥
Padamanjari¶
सम्भूतादयः शब्दा रामायणादीनां संज्ञाः, रामायणशब्दो नपुंसकलिङ्गः, प्रायेण तु पुंल्लिङ्गः पठ।ल्ते। उपहूत इति । ह्वञो निष्ठायां यजादित्वात् सग्प्रसारणम्। परिजग्ध इति । अदो जग्धिरादेशः । प्राप्त्यर्थाद्भवतेरिति । चुरादौ आधृषाद्वा इत्यधिकारे भू प्राप्तवात्मनेपदी इति पठ।ल्ते । किं पुनः कारणं प्रयत्नेन कर्मणि क्त तौपपाद्यते अत आह - गातिरनन्तर इत्यत्र हीति । तद्वाधनार्थञ्चेदमिति । प्रकृतोदाहरणाभिप्रयमेतद् , न सूत्राभिप्रायम् । घनुष्खातेति । नित्यं समासेऽनुतरपदस्थस्य इति षत्वम् । चिञ् चयने ष्ठा गतिनिवृतौ, ण्यन्तः केवलश्च, ग्रह उपादाने , वच परिभाषणे, पद गतौ शिलष आलिङ्गने , डुधाञ् धारणपोषाणयोः - सर्वत्र कर्णमि क्तः, एते आचितादयः । संहिताऽगवीति गाणसूत्रम्, तद् व्याचष्टे - याद गोरन्यस्वेति ॥
Nyaas¶
उपहूतः इति। ह्वेञो निष्ठा, वचिस्वपि (6.1.15) इत्यादिना संप्रसारणम्, हलपः (6.4.2) इति दीर्घः। परिजग्धः इति। अदो जग्धिर्ल्यप्ति किति (2.4.36) इत्यदेर्जग्धिरादेशः। झषस्ततोर्धोऽधः (8.2.40) इति घत्वम्। कर्मणि क्तः इति। भवतेरकर्मकत्वात्? कर्मनिष्ठा नोपपद्यत इति सम्भूत इति कर्तरीयं निष्ठेति कस्यचिद्भ्रमः स्यात्, अतस्तन्निराकरणायाह -सम्भूतः इति। अनेकार्थत्वाद्धातूनां भवतिरत्र प्राप्तौ वर्तते। ये च प्राप्त्यर्थास्ते नियोगतः प्राप्त्यैव कर्मणा सकर्मका सकर्मका भवन्ति। यथा -णीञ्? प्रापणे (धातुपाठः-901) इत्येवमादयः। तास्मात्? प्राप्त्यर्थाद्भवतेः सम्भूत इत्यत्र कर्मणि क्त-। किं पुनः कारणं कर्मणि क्त इष्यते? इत्याह -गतिरनन्तर इत्यत्र कर्मणीत्यनुवर्तते (इति। ततः किम्? इत्याह -तद्बाधनार्थं चेदम् इति। गतिरनन्तरः (6.2.49) इत्यत्र हि कर्मणीत्यनुवर्तते। इदं च सूत्रं, तत्? गतिरनन्तरः (6.2.49) इत्यस्यैव बाधनार्थम्। एवं चैतद्गतिस्वरस्य बाधकं भवति, यदि कर्मणि क्तो विहितः। तदन्तस्योत्तरपदस्यानेनान्तोदात्तत्वं विधीयते, नान्यथा। तस्मात्? सम्भूत इत्यत्र कर्मणि क्तो द्रष्टव्य इत्यभिप्रायः। धनुष्खाता इति। खन्? अवदारणे (धातुपाठः-878) जनसनखनाम् (6.4.42) इत्यात्तवम्। कर्तृकरणे कृता बहुलम् (2.1.32) इति समासः। एवं कुद्दालखाता इत्येवमादादपि। धनुःशब्दः नब्विषयस्यानिसन्तस्य (फि।सू।2।26) इत्याद्युदातद्तः। कुद्दालशब्दः लघावन्ते (फि।सू।2।42) इत्यादिना मध्योदात्तः। हस्तिमृदिता इति। मृद क्षोदे (धातुपाठः-1515), हस्तिशब्द हस्ताज्जातौ (5.2.133) इतीनिपरतययान्ततवादन्तोदात्तः। आस्थापितम् इति। तिष्ठतेर्णिटच्, अर्तिह्यी (7.3.36) इत्यादिना पुक्। परिगृहीतम् (इति। ग्रहोऽलिटि दीर्घः (7.2.37) । निरुक्तम् (इति)। वच परिभाषणे (धातुपाठः-1842), वचिस्वपि (6.1.15) इत्यादिना सम्प्रसारणम्, चोः कुः (8.2.30) । प्रतिपन्नम् इति। पद गतौ (धातुपाठः-1169), रदाभ्याम् (8.2.42) , इति नत्वम्। प्रश्लिष्टम् इति। ष्लिष आलिङ्गने (धातुपाठः-1186)। उपद्रूतम् इति। दु द्रु गतौ (धातुपाठः-944),945) स्थितम् इति। द्यतिस्यति (7.4.40) इत्यादिनेत्त्वम्। संहिता इति। दधातेर्हिरादेशः॥
Prakriyasarvasvam¶
नाम्नि गतिकारकोपपदात् परं क्तान्तमन्तोदात्तं स्यात् । परिजग्धः कौण्डिन्यः । आचितपर्याचितास्थापितास्थितपरिगृहीतनिरुक्तप्रतिपन्न प्रश्लिष्टोपश्लिष्टोपद्रुतोप- स्थापितानां तु न । आचितं पर्याचितम् । इत्यादि ।<!संहिताऽगवि!> (वा.) गोरन्यस्य नाम्नि संहिता अन्तोदात्ता । संहिता । गोनाम्नि तु—संहिता विश्वरूपी इति ।