62145: सूपमानात् क्तः ===================== **Padacheda:** सूपमानात् | S | 5 | 1 | क्तः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The Participle in क्त has acute accent (उदात्त) on the final when it is preceded by सु or by a word with which the second member is compared. Vasu English Translation ------------------------ The Participle in क्त has acute accent (उदात्त) on the final when it is preceded by सु or by a word with which the second member is compared. Thus सुकृत꣡म्, सुभुक्त꣡म्, सुपीत꣡म् ॥ With *Upamana* words we have - वृकावलुप्त꣡म्, शशलुत꣡म् , सिंहविनर्दित꣡म् ॥ This debars (6.2.49) and (6.2.48). When सु is not a *Gati*, the rule does not apply, as सुस्तुत꣡म् भवता ॥ Kashika ------- सु इत्येतस्मादुपमानात् च परं क्तान्तमुत्तरपदमन्तोदात्तं भवति। सु॒कृ॒तम् (तै०सं० ४.७.२.२)। सु॒भु॒क्त म्। सु॒पी॒तम्। उपमानात् — वृ॒का॒व॒लु॒प्तम्। श॒श॒प्लु॒तम्। सिं॒ह॒वि॒न॒र्दि॒तम्। सुशब्दाद् **गतिरनन्तरः** (६.२.४९) इति प्राप्त उपमानादपि **तृतीया कर्मणि** (६.२.४८) इत्ययमपवादः। गतिकारकोपपदादित्येव — सुस्तु॑तं भवता॥ Siddhanta Kaumudi ----------------- सोरुपमानाच्च परं क्तान्तमन्तोदात्तम् । ऋतस्य योनौ सुकृतस्य (ऋ॒तस्य योनौ॑ सुकृ॒तस्य॑) । शशप्लुतः ॥ Padamanjari ----------- वृकावलुप्तमित्यादि । लूञ् छेदने , च्युङ् प्रुङ् प्लुङ् गतौ, नर्द गर्द शब्दे - सर्वत्र कर्तृकरकणे कृता बहुलम् इति समासः । कवृकैसरिवालुप्तमित्यादिविग्रहः । उपमानादपीत्यादि । अत्रेतिशब्दस्यानन्तरं प्रप्त इत्यस्यानुषङ्गः ॥ Nyaas ----- `सुपीतम्` इति। `घुमास्था` (6.4.66) इत्यादिसूत्रेणेत्त्वम्। `वृकावलुप्तम्` इति। `लुप्लृच्छेदने` (धातुपाठः-1431)। `शशप्लुतम्` इति। `च्युङ् जयुङ्? प्रुङ्? प्लुङ्? गतौ` (धातुपाठः-955,956,957,958)। `सिंहविनर्दितम्` इति। `नर्द शब्दे` (धातुपाठः-56) सर्वत्र **कर्तृकरणे कृता बहुलम्** (2.1.32) इति समासः। वृकैरिवावप्लुतमित्यादिर्विग्रहः॥ Prakriyasarvasvam ----------------- सोतपमानाच्च परं क्तान्तमन्तोदात्तं स्यात् । सुष्टुतः कृष्णः । हरिणेव हतो हरिहतः । 'कर्तृकरणे कृता—' (२-१-३२) इति समासः । गतिरनन्तरः' (६-२-४९) 'तृतीयाकर्मणि' (६-२-४८) इत्यनयोरपवादः ।