62144: थाथघञ्क्ताजबित्रकाणाम्

Padacheda: थ-अथ-घञ्-क्त-अचपित्र-काणाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

The last syllable of the second member has the acute accent (उदात्त) in the verbal nouns ending in 1. थ 2. अथ 3. घञ् 4. क्त 5. अच् 6. अप् 7. इत्र and 8. क when preceded by a गति , a कारक or an उपपद – गतिकारकोपपदात् कृत् (6.2.139)

Vasu English Translation

The last syllable of the second member has the acute accent (उदात्त) in the verbal nouns ending in 1. थ 2. अथ 3. घञ् 4. क्त 5. अच् 6. अप् 7. इत्र and 8. क when preceded by a गति , a कारक or an उपपद – गतिकारकोपपदात् कृत् (6.2.139) Thus, सुनीथः꣡, अवभृथः꣡ formed by क्थन् affix (Unadi II.2 and 3), and but for this sutra, by (6.2.139) these words would have retained their original accent which was acute on the first. अथः - आवसथः꣡, उपवसथः꣡ formed by अथन् affix (Unadi III.116). घञ् - प्रभेदः꣡, काष्ठभेदः꣡, रज्जुभेदः꣡ ॥ क्तः -दूरादागतः꣡, Here क्त has the force of कर्म, and the gati आ would retain its accent (6.2.49) therefore, आगत is first acute: this accent would have been retained when compounded with the karaka word dura, but for this sutra. विशुष्कः꣡ आतपशुष्कः꣡ ॥ अच् (3.3.56) :- प्रक्षयः꣡, प्रजयः꣡, the words क्षय ‘dwelling’, and जय ‘victory’ are acute otherwise on the first (6.1.201), (6.1.202). अप् - प्रलवः꣡, प्रसवः꣡ ॥ इत्र - प्रलवित्र꣡म्, प्रसवित्र꣡म् ॥ क — खरीवृषः꣡ गोवृषः꣡ = गां वर्षति, खरीं वर्षति (III.2.5 Vartika): प्रवृषः꣡, प्रहृषः꣡, (क being added by (3.1.135)). The word वृष has acute on the first as it belongs to वृषादि class (6.1.203). When the preceding words are not Gati, Karaka or Upapada, this rule does not apply : as सुस्तुतं भवता, अतिस्तुतं भवता, where सु and अति being Karmapravachaniya, the words get the accent of the Indeclinable.

Kashika

थ अथ घञ् क्त अज् अप् इत्र क इत्येवमन्तानामुत्तरपदानां गतिकारकोपपदात् परेषामन्त उदात्तो भवति। सु॒नी॒थः। अ॒व॒भृ॒थः(तै०सं० १.७.५.३)। हनिकुषिनीरमिकाशिभ्यः क्थन् (प०उ० २.२) इति अवे भृञः (प०उ० २.३) इति च क्थन्प्रत्ययान्तावेतौ। तत्र कुदुत्तरपदप्रकृतिस्वरत्वेनाद्युदात्तमुत्तरपदं स्यात्। अथ — आ॒व॒स॒थः (शौ०सं० ९.६.७)। उ॒प॒व॒स॒थः। उपसर्गे वसेः (प०उ० ३.११६) इत्यथन्प्रत्ययः। घञ् — प्॒रभे॒दः। का॒ष्ठ॒भे॒दः। र॒ज्जु॒भे॒दः। क्त — दू॒रा॒दा॒ग॒तः। वि॒शु॒ष्कः। आ॒त॒प॒श्ाुष्कः। अच् — प्र॒क्ष॒यः। प्॒रज॒यः। क्षयो निवासे (६.१.२०१) जयः करणम् (६.१.२०२) इति चाद्युदात्तौ क्षयजयशब्दौ प्रयोजयतः। अप् — प्र॒ल॒वः(तै० आ० ५.४.५)। प्र॒स॒वः (तै०सं० १.७.८.३)। इत्र — प्॒रल॒वि॒त्रम्। प्॒रस॒वि॒त्रम्। क — गो॒वृ॒षः। ख॒री॒वृ॒षः। गां वर्षति, खरीं वर्षतीति मूलविभुजादित्वात् (३.२.५ वा०) कप्रत्ययः। प्र॒वृ॒षः। प्॒रहृ॒षः। इगुपधात् (३.१.१३५) इति कप्रत्ययः। वृषादीनां च (६.१.२०३) इति वृषशब्द आद्युदात्तः। गतिकारकोपपदादित्येव — सुस्तु॑तं भवता। कर्मप्रवचनीयेऽव्ययस्वर एव भवति॥

Siddhanta Kaumudi

थ अथ घञ् क्त अच् अप् इत्र क एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्तः । प्रभृथस्यायोः (प्र॑भृ॒थस्या॒योः) । आवसथः । घञ् । प्रबेदः । क्तः । धर्ता वज्री परुष्टुतः (ध॒र्ता व॒ज्री पु॑रुष्टु॒तः) । पुरुषु बहुप्रदेशेषु स्तुत इति विग्रहः । अच् । प्रक्षयः । अप् । प्रलवः । इत्र । प्रलवित्रम् । क । गोवृषः । मूलविभुजादित्वात्कः । गतिकारकोपपदादित्येव । सुस्तुतं भवता ॥

Padamanjari

आद्यौदातमुतरपदं स्यादिति । यदिदं नोच्येतेति भावः । दूरादागत तैति । तात्र कर्मणि क्तः , ग्रामादिरभिघेयः, कृता आङे गतिसमासे गतिरनन्तरः इति प्रकृतिभावे चागत इत्याद्यौदातम्, तेन स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन इति समासः पञ्चम्याः स्तोकादिभ्यः इत्यलुक्, तत्र कारकात्परमागतमित्येतत् कृदुतरपदप्रकृतिस्वरेणाद्यौद्तं स्यात् । विशुष्क इति । शुषेरकर्मकत्वात् कर्तारि क्तः, शुष्कधृष्टौ इत्याद्यौदातत्वम्, ततो गतिसमासः । आतपशुष्क इति । नायम् सिद्धसुष्क इति सप्तमीसमासः, सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् तैति पूर्वपदप्रकृतिस्वरप्रसङ्गात् । तस्मात् कर्तृकरणे कृता बहुरम् इति समासः । प्रक्षयः, प्रजय इति । एरच् । ननु च कृदुतरपदप्रकृतिस्वरेणैवात्रान्तोदातोत्वं सिद्धमत आह - क्षयो निवास इत्यादि । प्रलवः प्रसव इत्यादि । आञ्दोरप् । प्रलवित्रमिति । अर्तिलूधूसूखनसहचर इत्र) । गोवृष इति । वृषु मृषु सेवने । सुस्तुतमिति । सुः पूजायाम्, अतिरतिक्रमणे चेति कर्मप्रवचनीयसंज्ञा, स्वती पूजायाम् इति प्रादिसमासः ॥

Nyaas

अत्र कृदुत्तरपदप्रकृतिस्वरत्वेनाद्युदात्तमुत्तरपदं स्यात् इति। यदीदं नारभ्येतेति भावः। उपसर्गे वसेः इत्यथप्रत्ययः इति। तत्र शीङ्शपिरुगमिवञ्चि (द।उ।6।38) इत्यादिनाऽथप्रत्यया नुवृत्तेः कृदुत्तरपदप्रकृतिसवरत्वेन मध्योदात्तमुत्तरपदं स्यात्। दूरादागतः इति। गमेः क्तः, अनुदात्तोपदेश (6.4.37) इत्यादिनाऽनुनासिकलोपः, आगतशब्देन स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (2.1.39) इत्यादिना समासः, पञ्चम्याः स्तोकादिभ्यः (6.3.2) इत्यलुक्। शुष्कः [विशुष्कः -काशिका, पदमञ्जरी च] इति। शुषः कः (8.2.51) इति कादेशः। उभयत्रात्र कर्मणि निष्ठा। तत्र गतिरनन्तरः (6.2.49) इति प्राप्ते तदपवाद उत्तरपदान्तोदात्तत्वं विधीयते। यदा तु कर्तरि क्तः, तदा तु कृत्स्वरेणोत्तरपदस्य प्रकृतिभावे सत्यन्तोदात्तत्वं सिद्धमेव। ननु च शुषिरकर्मकः, तस्य कुतः कर्मणि निष्ठा? अन्तरभावितण्यर्थः सकर्मको भवतीत्यदोषः। आतपशुष्कम् [आतपशुष्कः -काशिका, पदमञ्जरी च] इति। कर्तृकरणे कृता बहुलम् (2.1.32) इति समासः। अत्र तत्पुरुषे तुल्यार्थ (6.2.2) इत्यादिना पूर्वपदं पूर्वपदप्रकृतिस्वरं स्यात्। पूर्वपदं पुनरत्र पचाद्यजन्तत्वात्? कृत्स्वरेणान्तोदात्तः। प्रक्षयः, प्रजयः इति। एरच् (3.3.56) ननु च कृदुत्तरपदप्रकृतिस्वरत्वेनैवात्रोत्तरपदान्तोदात्तत्वं भविष्यति? इत्यत आह -क्षयो निवासे इत्यादि। यदा क्षयो निवासे (6.1.201) जयः करणम् (6.1.202) इति चादयुदात्तौ क्षयजयशब्दौ भवतः, तदा कृत्स्वरेण मध्योदात्तत्वं स्यात्। प्रलवित्रम्, प्रसवित्रम् इति। अर्तिलूधूसूखन (3.2.184) इत्यादिनेत्रः। अत्र कृत्स्वरे सति प्रत्ययस्वरं स्यात्। तेनोत्तरपदं मध्योदात्तं स्यात्। गोवृषः इति। पृषु वृषु मृषु सेचने (धातुपाठः-705,706,707), अत्र उपपदमतिङ् (2.2.19) इति समासः गतिकारकोपपदात् कृत् (6.2.139) इत्युत्तरपदाद्युदात्तत्वं स्यात्। सुस्तुतम् इति। सुः पूजायाम् (1.4.94) , अतिरतिक्रमणे च (1.4.95) इति स्वती कर्मप्रवचनीयसंज्ञौ। अत्राव्ययस्वर एव भवति इति। तत्पुरुषे तुल्यार्थ (6.2.2) इत्यादिना॥

Prakriyasarvasvam

गतिकारकोपपदात् परेषां थाद्यन्तानामन्त उदात्तः स्यात् । सुनीथो घासः । ‘हनि कुषि—’ (उ. सू.) इत्यादि कथन् । आवसथः । ‘उपसर्गे वसेः’ (उ. सू.) इत्यर्थः । प्रभेदः । विशुष्कः । अच् — प्रक्षयः । प्रचयः । ‘क्षयो निवासे’ (६-१-२०१) ‘जयः करणम्’ (६–१–२०२) इत्यनयोरेव बाधः । अप् — प्रलवः । इत्र — प्रलवि१त्रम् । (क —) प्रवृपः । ‘वृषादीनाम्—’ (६-१-२०३) इत्याद्युदात्ते प्राप्त उक्तिः ।