62120: वीरवीर्यौ च ================== **Padacheda:** वीर-वीर्यौ | S | 1 | 2 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- In a बहुव्रीहि समास in the छन्दस् (Vedas) after सु the words वीर and वीर्य have acute accent (उदात्त) on the first syllable. Vasu English Translation ------------------------ In a बहुव्रीहि समास in the छन्दस् (Vedas) after सु the words वीर and वीर्य have acute accent (उदात्त) on the first syllable. Thus सु꣡वीरेण ते, सुवीर॑स्ते जनि॒ता (*Rig* IV. 17.4) सुवीर्यं॒स्वश्व्य॑स् (*Rig* VIII.1.36) where सु꣡वीर्य has acute on वी ॥ So also सु꣡वीर्यस्य पतयः स्याम ॥ The word वीर्य is formed by यत् affix and by (6.1.213), it would have acute on the first. But its enumeration in this *sutra* shows that Rule (6.1.213) does not apply to वीर्य ॥ The word वीर्य॑ has *svarita* on the final in the *Chhandas*, by *Phit* IV. 9. In the secular literature it is *adyudatta*. Kashika ------- वीर वीर्य इत्येतौ च शब्दौ सोरुत्तरौ बहुव्रीहौ समासे छन्दसि विषय आद्युदात्तौ भवतः। सु॒वीर॑स्ते (ऋ० ४.१७.४)। सु॒वीर्य॑स्य॒ पत॑यः स्याम (तै०सं० १.७.१३.४)। वीर्यमिति यत्प्रत्ययान्तं तत्र **यतोऽनावः** (६.१.२१३) इत्याद्युदात्तत्वं न भवतीत्येतदेव वीर्यग्रहणं ज्ञापकम्। तत्र हि सति पूर्व्ेणैव सिद्धं स्यात्॥ Siddhanta Kaumudi ----------------- सोः परौ बहुव्रीहौ छन्दस्याद्युदात्तौ । सुवीरे रयिणा (सु॒वीरे(स्वः र॒यिणा॑) । सुवीर्यस्य गोमतः (सु॒वीर्य॑स्य॒ गोमतः॑) । वीर्यशब्दो यत्प्रत्ययान्तः । तत्र यतोऽनावः (SK3701) इत्याद्युदात्तत्वं नेति वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेणैव सिद्धं स्यात् ॥ Padamanjari ----------- वीर विक्रान्तौ चुरादिः, ततः पचाद्यचि - वीरः, अचो यत् - वीर्यंम्, वीरेषु वा साधुरिति पारग्घितीयौ यत् । तत्रेत्यादि । कथं पुनरेतज्ज्ञापकम् इत्याह - तत्र हि सतीति । फिषितु बिल्वभक्ष्यवीर्याणि च्छन्दसि इति च्छन्दस्यन्तस्वरितत्वं भाषायां वाद्यौदातत्वं शब्दस्य स्थितम् ॥ Nyaas ----- `स्फायितञ्चि` (द।उ।8।31) इत्यादिनाऽजे रकिप्रत्यये वीरशब्दो व्युत्पाद्यते। तेनान्तोदात्तः। अथ वा -`वीर विक्रान्तौ` (धातुपाठः-1903) इत्यस्य पचाद्यचि व्युत्पादितत्वात्। `वीर्यमिति यत्प्रत्ययान्तम्` इति। वीरे साधुः, **तत्र साधुः** (4.4.98) इति प्राग्घितीयो यत्। अथ वा -वीर इत्यसमाच्चौरादिकादस्मादेव निपातनात् `अचो यत्` (3.1.97) , तेन वीर्यमिति यत्प्रत्ययान्तम्। एवं सति **यतोऽनावः** (6.1.213) इत्याद्युदात्तत्वं प्राप्नोति? इत्यत आह -`तत्र` इत्यादि। कथं पुनर्वीर्यग्रहणं ज्ञापकम्? इत्याह -`तत्र हि` इत्यादि। यद्याद्युदात्तं स्यात्? तदा **आद्युदात्तं द्व्यच् छन्दसि** (6.2.119) इत्यनेनैव सिद्धं स्यात्। ततश्चेह वीर्यग्रहणं न कुर्यात्, कृतञ्च; तस्मात्? तदेव ज्ञापयति -वीर्यशब्दस्य यदन्तस्याप्याद्युदात्तत्वं न भवतीति। तस्मिन्नसति **तित्स्वरितम्** (6.1.185) इत्यन्तस्वरितमेव भवति॥ Prakriyasarvasvam ----------------- वेदे सोः परावाद्युदात्तौ स्तः। शतहिमाः सुवीराः। सुवीर्यस्य पतयः स्याम। यदन्नत्वादेव सिद्धेऽप्यत्राद्युदात्तत्वविधेः 'यतोऽनावः' (६–२–२१३) इत्येतद् वीर्ये नेति ज्ञाप्यते। मयीन्द्रियं वीर्यम्।