62108: क्षेपे ============= **Padacheda:** क्षेपे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A word before 1. उदर 2. अश्व and 3. इषु in a बहुव्रीहि समास gets the acute accent (उदात्त) on the final, when reproach is meant. Vasu English Translation ------------------------ A word before 1. उदर 2. अश्व and 3. इषु in a बहुव्रीहि समास gets the acute accent (उदात्त) on the final, when reproach is meant. Thus कुण्डो꣡दरः, घटो꣡दरः, कटुका꣡श्वः, स्यन्दिता꣡श्वः, अनिघाते꣡षुः, चलाचले꣡षुः ॥ The word कु꣡ण्ड has acute on the first as it is a Neuter name (*Phit* 11.3), and it would have retained this accent in the *Bahuvrihi* by (6.2.1). but for this *sutra*. The word घट is formed by अच् (3.1.134) and has acute on the final, and so it would have retained this accent by (6.2.1), even with out this *sutra*. The word क꣡टुक being formed by कन् (5.3.75) has acute on the first. स्यन्दित is formed by the *Nishita* affix क्त ॥ The word अनिघात being an *avyayibhava*, the first member would have retained its original accent. In this and the last *sutra*, all the acutes may optionally be changed into *svarita* by (8.2.6). But अनुदरः꣡ and सूदरः꣡ have acute on the final by (6.2.172), which being a subsequent *sutra*, supersedes this present, so far as अन् and सु are concerned. Bhashya ------- क्षेपे (2768) (6360 विप्रतिषेधोपसंख्यानवार्तिकम् ॥ 1 ॥) - उदरादिभ्यो नञ्ञ्सुभ्याम् - उदराश्वेषुषु क्षेपे इत्येतस्मात् नञ्ञ्सुभ्याम् (172) इत्येतद्भवति विप्रतिषेधेन । उदराश्वेषुषु क्षेपे इत्यस्यावकाशः - कुण्डोदरः, घटोदरः । नञ्ञ्सुभ्यामित्यस्यावकाशः - अयवः, अतिलः, अमाषः, सुयवः, सुतिलः, सुमाषः । इहोभयं प्राप्नोति - अनुदरः, सूदरः । नञ्ञ्सुभ्यामित्येतद्भवति विप्रतिषेधेन ॥ Kashika ------- क्षेपे गम्यमान उदरादिषूत्तरपदेषु बहुव्रीहौ समासे संज्ञायां विषये पूर्वपदमन्तोदात्तं भवति। कु॒ण्डोद॑रः। घ॒टोद॑रः। क॒टु॒काश्वः॑। स्प॒न्दि॒ताश्वः॑। अ॒नि॒घा॒तेषुः॑। च॒ला॒च॒लेषुः॑। अ॒नु॒द॒रः, सू॒द॒र इत्यत्र **नञ्सुभ्याम्** (६.२.१७२) इत्येतद् भवति विप्रतिषेधेन॥ Siddhanta Kaumudi ----------------- उदराश्वेषुषु पूर्वमन्तोदात्तं बहुव्रीहौ निन्दायाम् । घटोदरः । कटुकाश्वः । चलाचलेषुः । अनुदरः इत्यत्र नञ्सुभ्याम् (SK3906) इति भवति विप्रतिषेधेन ॥ Padamanjari ----------- कुण्डशब्दः नब्विषयस्यानिसन्तस्य इत्याद्यौदातः । घटशब्दः पचाद्यजन्तः । महेषुवदस्योपन्यासः । कटुअशब्दात्संज्ञायां कन् । स्पन्दितशब्दो निष्ठान्तः । निहन्यतेऽनेनेति निघातः ततोऽन्योऽनिघातः , अतोऽव्ययपूर्वपदप्रकृतिस्वरत्वम्, चरिचलिपतिवदिनां वा द्वित्वमच्याक्चाभ्यासस्य - चलाचलः । अनुदर इत्यादि । अस्यावकाशः - कुण्डोदर इत्यादि, नञ्सुभ्याम् इत्यस्यावकः शः - अयशः, सुयशः, एवं स्थिते विप्रतिषेधः ॥