62106: बहुव्रीहौ विश्वं संज्ञायाम् ================================== **Padacheda:** बहुव्रीहौ | S | 7 | 1 | विश्वम् | S | 1 | 1 | संज्ञायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word विश्व has acute accent (उदात्त) on the final, being first member in a बहुव्रीहि समास , when it is a Name. Vasu English Translation ------------------------ The word विश्व has acute accent (उदात्त) on the final, being first member in a बहुव्रीहि समास , when it is a Name. Thus विश्व꣡देवः, विश्व꣡यशाः, विश्व꣡महान् ॥ This is an exception to (6.2.1) by which the first member in a *Bahuvrihi* would have retained its original accent. Why do we say in a *Bahuvrihi* compound? Observe विश्वे च देवाः = विश्वदेवाः ॥ Why do we say 'when a name'? Observe विश्वेदेवा अस्य = विश्वदेवः ॥ But विश्वामित्रः꣡ and विश्वाजिनः꣡ have acute on the final, as they are governed by the subsequent rule (6.2.165) which supersedes this. The word *Bahuvrihi* governs the succeeding *sutras* upto (6.2.120) inclusive. The word विश्व is originally acute on the first, as it is formed by the affix क्वन् added to विश् ॥ This rule has unrestricted scope in विश्वदेवः, विश्वयशाः and rule (6.2.165) has unrestricted scope in कुलमित्रः, कुलजिनः ॥ But in विश्वामित्रः and विश्वाजिनः there is a conflict, as both these rules would apply, therefore by the maxim of *vipratishedha*, (6.2.165) supersedes this. Bhashya ------- बहुव्रीहौ विश्वं संज्ञायाम् (2766) (6359 विप्रतिषेधोपसंख्यानवार्तिकम् ॥ 1 ॥) - बहुव्रीहौ विश्वस्यान्तोदात्तात्संज्ञायां मित्राजिनयोरन्तः - बहुव्रीहौ विश्वस्यान्तोदात्तात्संज्ञायां मित्राजिनयोरन्त इत्येतद्भवति विप्रतिषेधेन । बहुव्रीहौ विश्वं संज्ञायाम् इत्यस्यावकाशः - विश्वदेवः, विश्वयशाः । मित्राजिनयोरन्त इत्यस्यावकाशः - कुलमित्रम्, कुलाजिनम् । इहोभयं प्राप्नोति - विश्वमित्रः, विश्वाजिनः । मित्राजिनयोरन्त इत्येतद्भवति विप्रतिषेधेन ॥ (उपसंख्यानभाष्यम्) अन्तोदात्तप्रकरणे मरुद्वृधादीनां छन्दस्युपसंख्यानं कर्तव्यम् । मरुद्वृधः सुवया उपतस्थे ॥ Kashika ------- बहुब्रीहौ समासे विश्वशब्दः पूर्वपदं संज्ञायां विषयेऽन्तोदात्तं भवति। वि॒श्वदे॑वः। वि॒श्वय॑शाः। वि॒श्वम॑हान्। पूर्वपदप्रकृतिस्वरत्वेनाद्युदात्तत्वं प्राप्तम्। बहुब्रीहाविति किम्? विश्वे च ते देवा वि॒श्व॒दे॒वाः। संज्ञायामिति किम्? विश्वे देवा अस्य विश्व॑देवः। वि॒श्व॒मि॒त्रः, वि॒श्वा॒जि॒न इत्यत्र **संज्ञायां मित्राजिनयोः** (६.२.१६५) इत्येतद् भवति परत्वात्। बहुब्रीहावित्येतदधिक्रियते प्रागव्ययीभावसंज्ञानात् (६.२.१२१)॥ Siddhanta Kaumudi ----------------- बहुव्रीहौ विश्वशब्दः पूर्वपदभूतः संज्ञायामन्तोदात्तः स्यात् । पूर्वपदप्रकृतिस्वरेण प्राप्तस्याद्युदात्तस्यापवादः । विश्वकर्मा विश्वदेवः (वि॒श्वक॑र्मा वि॒श्वदे॑वः) । आविश्वदेवं सत्पतिम् (आवि॒श्वदे॑वं॒ सत्प॑तिम्) । बहुव्रीहौ किम् । विश्वे च ते देवाश्च विश्वदेवाः । संज्ञायां किम् । विश्वदेवः (विश्व॑देवः) । प्रागव्ययीभावाद्बहुव्रीह्यधिकारः ॥ Nyaas ----- `पूर्वपदकृतिस्वरत्वेनाद्युदात्तत्वं प्राप्तम्` इति। `बहुव्रीहौ प्रकृत्या` (6.2.1) । इत्यादिना विओ च ते देवा विआवेवा इति विशेषणसमासः, तत्पुरुषोऽयम्। अत्र समासान्तोदात्तत्वमेव भवति। `विआदेवः` इति। अत्र पूर्वपदप्रकृतिस्परत्वेनाद्यदात्तत्वमेव भवति। विआशब्दसय क्वन्प्रत्ययन्तस्य नित्स्वरेणाद्युदात्तत्वम्। `विआआमित्रः` इति। `बहुवरीहौ विआं संज्ञायाम्` (6.2.106) इति पूर्वपदान्तोदात्तस्यावकाशः -विआदेवः, विआयशा इति। **संज्ञायां मित्राजिनयोः** (6.2.165) इत्युत्तरपदान्तोदात्तत्वस्यावकाशः -कुलमित्त्रम्, कुलाजिनमिति; विआआमित्त्रः, विआआजिन इत्यत्रोभयं प्राप्नोति, **संज्ञायां मित्राजिनयोः** (6.2.165) इत्येतत्तु भवति विप्रतिषेधेन॥