62087: प्रस्थेऽवृद्धमकर्क्यादीनाम्

Padacheda: प्रस्थे | S | 7 | 1 |

अवृद्धम् | S | 1 | 1 |

अ-कर्क्यादीनाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

The first member which has not a वृद्धि in the first syllable or which is not कर्की etc. gets the acute accent (उदात्त) on the first syllable before प्रस्थ।

Vasu English Translation

The first member which has not a वृद्धि in the first syllable or which is not कर्की etc. gets the acute accent (उदात्त) on the first syllable before प्रस्थ। Thus इ꣡न्द्रप्रस्थः, कु꣡ण्डप्रस्थः, ह्र꣡दप्रस्थः, सु꣡वर्णप्रस्थः ॥ But not in दाक्षिप्रस्थः, माहिकप्रस्थः which have Vriddhi in the first syllable; nor also in कर्कीप्रस्थः मघीप्रस्थः &c.

1 कर्की, 2 मघ्नी (मघी), 3 मकरी, 4 कर्कन्धु (कर्कन्धू), 5 शमी, 6 करीर, 7 कन्दुक (कटुक), 8 कवल (कुबल; कूरल), 9 बदरी (बदर)

Kashika

प्रस्थशब्द उत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं भवति। इन्द्॑रप्रस्थः। कुण्ड॑प्रस्थः। ह्रद॑प्रस्थः।सुव॑र्णप्रस्थः। अवृद्धमिति किम्? दा॒क्षि॒प्॒रस्थः। मा॒ह॒कि॒प्॒रस्थः। अकर्क्यादीनामिति किम्? क॒र्की॒प्॒रस्थः। म॒घी॒प्र॒स्थ॥ कर्की। मघी। मकरी। कर्कन्धू। शमी। करीर। कटुक। कुरल। बदर। कर्क्यादिः॥

Siddhanta Kaumudi

प्रस्थशब्दे उत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं स्यात् । इन्द्र प्रस्थः । अवृद्धं किम् । दाक्षिप्रस्थः । अकेति किम् । कर्कीप्रस्थः । मकरीप्रस्थः ॥

Padamanjari

मालीदीनां चेति वचनादवृद्धमिति पदच्छेदः । कर्क्यादिप्रतिषेधस्तु नामधेयार्थः स्यात् - वुअ नामधेयस्य वृद्धसंज्ञा वक्तव्या इति ॥

Nyaas

प्रस्थशब्दो यदि व्युत्पाद्यते घञर्थे कविधानं स्थास्नपाव्यधिहनियुध्यर्थम् (वा।306) इति, तदा थाथादिस्वरे (6.2.143) प्राप्ते। अथ न व्युत्पाद्यते, तदा समासान्तोदात्तत्वे। इन्द्रप्रस्थः इत्यादयः षष्ठीसमासाः॥

Prakriyasarvasvam

प्रस्थे परे कर्क्यादेरन्यदवृद्धमाद्युदात्तं स्यात् । इन्द्रप्रस्थः । वृद्धे तु दाक्षिप्रस्थः । कर्क्यादावपि-कर्कीप्रस्थः । ‘कर्कौकर्कन्धम²धोमकरीशमीकरीरकटुककुवलयबदरे- ष्वेवम् ।