62086: छात्र्यादयः शालायाम्¶
Padacheda: छात्र्यादयः | S | 1 | 3 |
शालायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The words छात्रि etc. get acute accent (उदात्त) on the first syllable when followed by the word शाला।
Vasu English Translation¶
The words छात्रि etc. get acute accent (उदात्त) on the first syllable when followed by the word शाला। Thus छा꣡त्रिशाला, ऐ꣡लिशाला, भा꣡ण्डिशाला ॥
Where the Tatpurusha compound ending in शाला becomes Neuter, by the option allowed in (2.4.25); there also in the case of these words, the acute falls on the first syllable of the first term; thus superseding (6.2.123) which specifically applies to Neuter Tatpurushas. Thus छा꣡त्रिशालम्, ऐ꣡लिशालम् ॥
1 छात्रि, 2 पेलि (ऐलि), 3 भाण्डि, 4 व्याडि, 5 आखण्डि, 6 आटि, 7 गामि (गौमि) ॥
Kashika¶
शालायामुत्तरपदे छात्र्यादय आद्युदात्ता भवन्ति। छात्रि॑शाला। ऐलि॑शाला। भाण्डि॑शाला॥ छात्रि। ऐलि। भाण्डि। व्याडि। आपिशलि। आखण्डि। आपारि। गौमि। यदा शालान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, तदापि तत्पुरुषे शालायां नपुंसके (६.२.१२३) इत्येतस्मात् पूर्वविप्रतिषेधेन पूर्वपदमाद्युदात्तं भवति। छात्रि॑शालम्। ऐलि॑शालम्॥
Siddhanta Kaumudi¶
छात्रिशाला । व्याडिशाला । यदापि शालान्तः समासो नपुंसकलिङ्गो भवति तदापि तत्पुरुषे शालायां नपुंसके (SK3857) इत्येतस्मात्पूर्वप्रतिषेधेनायमेव स्वरः । छात्रिशालम् ॥
Padamanjari¶
यदा शालान्त थैत्यादि । विभाषा सेनासुरा इत्यादिना शालान्तस्य तत्पुरुषस्य विभाषा नपुंसकत्वमुक्तम् । तत्रास्यावकाशो यो नपुंसकलिङ्गो न भवति - छात्रिशाला, गोशरितिः तत्पुरुषे शालायाम् इत्यस्यावकाशो यश्छात्त्र्यादिपूर्वपदो न भवति - वाराह्मणशालम्, क्षत्रियशालमिति, यश्छात्त्र्यादिपूर्वपदो नपुंसकलिङ्गश्च, तत्रैकदेशबिकृतस्यानन्यत्वादयमपि प्राप्नोति, तत्पुरुषे शालायाम् इत्ययं च तत्र पूर्वविप्रतिषेधादयमेव भवति ॥
Nyaas¶
यदा शालान्तः इत्यादि। विभाषा सेनासुरा (2.4.25) इत्यादिना शालान्तस्य तत्पुरुषस्य विभाषा नपुंसकत्वमुक्तम्? इह च शालाशब्दस्य स्त्रीलिङ्गस्य ग्रहणम्। तत्र यथा समासो नपुंसकलिङ्गो न भवति तथा तत्पुरुषे शालायां नपुंसके (6.2.123) इत्यनेन परत्वादुत्तरपदाद्युदात्तत्वेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्। अतस्तन्निरासाय यदा शालान्तः इत्यादेग्र्रन्थस्योपन्यासः। यो नपुंसकलिङ्गः शालान्ततत्पुरुषो न भवति सोऽस्यावकाशः -छात्त्रिशाला, ऐलिशालेति। यस्तु नपुंसकलिङ्गो न छात्त्रादिपूर्वपदस्तत्पुरुषः स शालायां नपुंसके (6.2.122) इत्यस्यावकाशः -ब्राआहृणशालम्, क्षत्त्रियशालमिति; इहोभयं प्राप्नोति -छात्त्रिशालमिति, पूर्वविप्रतिषेधेनायमेव स्वरो भवति॥
Prakriyasarvasvam¶
एते शालायां परत आद्युदात्ताः स्युः । ‘’छात्र्यैलिदाण्ड्यखण्डिव्यड्यापि- शलिगोद्वयाघाटयः शालायाम्’ (स. ८-४-१९) । छात्रिशाला, ऐलिशालेत्यादि ।