62083: अन्त्यात् पूर्वं बह्वचः

Padacheda: अन्त्यात् | S | 5 | 1 |

पूर्वम् | S | 1 | 1 |

बह्वचः | S | 6 | 1 |

Sutrartha


Vasu English Summary

In a word consisting of more than two syllables followed by ज , the acute accent (उदात्त) falls on the syllable before the last.

Vasu English Translation

In a word consisting of more than two syllables followed by ज , the acute accent (उदात्त) falls on the syllable before the last. Thus उपस꣡रजः, मन्दु꣡रजः, आमल꣡कीजः, and वड꣡वाजः (though the last two words have upapadas ending in long vowel, the accent is governed by this sutra and not the last). Why do we say “a Polysyllabic first member”? Observe दग्धजानि तृणानि ॥

Kashika

ज उत्तरपदे बह्वचः पूर्वपदस्यान्त्यात् पूर्वमुदात्तं भवति। उ॒प॒सर॑जः। म॒न्दुर॑जः। आ॒म॒लकी॑जः। व॒डवा॑जः। बह्वच इति किम्? द॒ग्ध॒जा॑नि तृणानि॥

Siddhanta Kaumudi

बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्तं जे उत्तरपदे । उपसरजः । आमलकीजः । बह्वचः किम् । दग्धजानि तृणानि ॥

Padamanjari

आमलकीज इति । दीर्घान्तेऽपि बह्वचि परत्वादयमेव स्वरो भवति ॥

Nyaas

अयमपि कृत्स्वरपबादो योगः।दग्धजानि इति। अत्र कृत्स्वर एव भवति॥

Prakriyasarvasvam

जे परे बह्वचः प्राक् पदस्यान्त्यात् पूर्वमुदात्तं स्यात् । आमलकीजः ।