62084: ग्रामेऽनिवसन्तः

Padacheda: ग्रामे | S | 7 | 1 |

अनिवसन्तः | S | 1 | 1 |

Sutrartha


Vasu English Summary

Before ग्राम the first syllable of the first member as acute accent (उदात्त) when thereby inhabitants are not meant.

Vasu English Translation

Before ग्राम the first syllable of the first member as acute accent (उदात्त) when thereby inhabitants are not meant. Thus म꣡ल्लग्रामः, व꣡णिग्ग्रामः ॥ Here ग्राम is equal to समूह ‘an assembly’. देवग्रामः = देवस्वामिकः ॥ Why do we say ‘when not meaning inhabitants’. Observe दाक्षिग्रामः ‘a village inhabited by the descendants of Daksha’, माहिकग्रामः ‘a village inhabited by Mahikas’.

Kashika

ग्रामशब्द उत्तरपदे पूर्वपदमाद्युदात्तं भवति, न चेद् निवसद्वाचि भवति। मल्ल॑ग्रामः। वणि॑ग्ग्रामः। ग्रामशब्दोऽत्र समूहवाची। देव॑ग्रामः। देवस्वामिक इत्यर्थः। अनिवसन्त इति किम्? दा॒क्षि॒ग्रा॒मः। मा॒ह॒कि॒ग्रा॒मः। दाक्ष्यादयो निवसन्ति यस्मिन् ग्रामे, स तेषामिति व्यपदिश्यते॥

Siddhanta Kaumudi

ग्रामे परे पूर्वपदमुदात्तम् । तच्चेन्निवसद्वाचि न । मल्लग्रामः । ग्रामशब्दोऽत्र समूहवाची । देवग्रामः । देवस्वामिकः । अनिवसन्तः किम् । दाक्षिग्रामः । दाक्षिनिवासः ॥

Padamanjari

निपूर्वाद्वसेरौणादिकोऽधिकरणे झच् , निवसग्त्यस्मिन्निति निवसन्तः । देवग्राम इति । प्राचीनपरिक्षिप्तदेशेऽयं ग्रामशब्दः । यद्येवम्, निवसन्तवाची भवति तत्राह - देवस्वामिक कैति । ततश्चायं न देवापेक्षया ग्रामो निवसन्त इति भावः । दाक्ष्यादयो निवसन्ति यस्मिन्नित्यादि । अन्ये निवसन्तु, तत्र मा वा यसन्, ते तावदवात्सुरित्येतावता तेपामिति व्यपदिश्यत इत्यर्थः ॥

Nyaas

निवसन्तशब्दोऽयमौणादिको गृह्रते। `जृविशिभ्यां झच् (द।उ।6।17) इति वर्तमाने तृभूवहिवसिभासिसाधिगतिमण्डिजिनन्दिभ्यश्च (द।उ।6।19) [तृभृवहिवसिभासिसाधिगाडिमण्डिजिवन्दिभ्यश्च -द।उ।] इति वसेर्निपूर्वाज्झच्। निवसतीति निवसन्तः। केचिच्छन्नन्तस्य वसच्छब्दसय ग्रहणं वर्णयन्ति। मल्लग्रामः इति। षष्ठीसमासः। देवग्रामः इति। वाटकपरिक्षिप्ते गृहसमुदाये ग्रामशब्दो वर्तते। तस्माद्देवस्वामिक इत्यर्थः। एतेन स्वस्वामिभावसम्बन्धा या साऽत्र षष्ठी समस्यते, न तु क्रियावाससम्बन्धेति दर्शयति; अन्यथा देवशब्दः पूर्वपद निवसन्तवाच्येव स्यादित्यभिप्रायः। दाक्ष्यादयो निवसन्ति यस्मिन् इत्यादिना प्रत्युदाहरणे पूर्वपदस्य निवसन्तवाचित्वं दर्शयति॥

Prakriyasarvasvam

निवसन्तो निवासी (? सिनः) । तदन्यवाचि प्राक्पदं ग्रामे परे आद्युदात्तं स्यात् । मल्लग्रामः-तत्समूहः । देवग्रामः-तत्स्वमिकः । निवासिनि तु दाक्षिग्रामः ।