62082: दीर्घकाशतुषभ्राष्ट्रवटं जे¶
Padacheda: दीर्घ-काश-तुष-भ्राष्ट्र-वटम् | S | 1 | 1 |
जे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
When the first member is a word ending in a long vowel or is 1. काश 2. तुष 3. भ्राष्ट्र 4. वट and is followed by ज , the acutely accented (उदात्त) falls on the first syllable.
Vasu English Translation¶
When the first member is a word ending in a long vowel or is 1. काश 2. तुष 3. भ्राष्ट्र 4. वट and is followed by ज , the acutely accented (उदात्त) falls on the first syllable. Thus कु꣡टीजः, श꣡मीजः, का꣡शजः, तु꣡षजः, भ्रा꣡ष्ट्रजः व꣡टजः These are formed by the affix ङ् added to जन् (3.2.97).
Bhashya¶
दीर्घकाशतुषभ्राष्ट्रवटं जे (2742) (विप्रतिषेधबोधकभाष्यम्) जे दीर्घान्तस्यादिरुदात्तो भवतीत्येतस्मात् अन्त्यात्पूर्वं बह्वचः इत्येतद्भवति विप्रतिषेधेन । जे दीर्घान्तस्यादिरुदात्तो भवतीत्यस्यावकाशः - कुटीजः, शमीजः । अन्त्यात्पूर्वं बह्वच इत्यस्यावकाशः - उपसरजः, मन्दुरजः । इहोभयं प्राप्नोति - आमलकीजः, वलभीजः । अन्त्यात्पूर्वं बह्वच इत्येतद्भवति विप्रतिषेधेन ॥
Kashika¶
दीर्घान्तं पूर्वपदं काश तुष भ्राष्ट्र वट इत्येतानि च ज उत्तरपद आद्युदात्तानि भवन्ति। कुटी॑जः। शमी॑जः। काश॑जः। तुष॑जः। भ्राष्ट्॑रजः। वट॑जः॥
Siddhanta Kaumudi¶
कुटीजः । काशजः । तुषजः । भ्राष्ट्रजः । वटजः ॥
Padamanjari¶
कुटीज इति । सप्तम्यां जनेर्डः ॥
Nyaas¶
कृत्स्वरापवादो योगः। कृटीजः इति। कुटआं जात इति `सप्तम्यां जनेर्डः (3.2.97) इति डप्रत्ययः॥
Prakriyasarvasvam¶
दीर्घान्तानि तुषादीनि च प्राक् पदानि जे परे आयुदात्तानि स्युः । कुटीजः । काषजः । इत्यादि ।