62069: गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे¶
Padacheda: गोत्र-अन्तेवासि-माणव-ब्राह्मणेषु | S | 7 | 3 |
क्षेपे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The first syllable of the first member of a compound is acutely accented (उदात्त) before a गोत्र (Patronymic) name or a Scholar-name and also before माणव and ब्राह्मण when a reproach is meant.
Vasu English Translation¶
The first syllable of the first member of a compound is acutely accented (उदात्त) before a गोत्र (Patronymic) name or a Scholar-name and also before माणव and ब्राह्मण when a reproach is meant. Thus ज꣡घावात्स्यः = यो जंघादानं ददान्यहमिति वात्स्यः, संपद्यते सः; यत्र श्राद्धादौ वात्स्यानामेव पादप्रक्षालनं क्रियते, तत्रावात्स्यः सन् वात्स्याऽहमिति ब्रूते तल्लाभाय सः ॥ भार्यासौश्रुतः ‘a descendant of Susruta under the petticoat government of his wife’. The compounding takes place by the analogy of शाकपार्थिवः ॥ व꣡शाब्राह्मकृतेयः (Brahmakrita belongs to Subhradi class). The above are examples of Gotra words. Now with scholar names. कु꣡मारीदाक्षाः ‘the pupils of Daksha for the sake of marriage i. e. who study the work of Daksha or make themselves the pupils of Daksha for the sake of girls’. क꣡म्बलचारायणीयाः, घृ꣡तरौढीयाः, and ओ꣡दनपाणिनीयाः &c. भि꣡क्षामाणवः = भिक्षां लप्स्येऽहमिति माणवो भवति ॥ दा꣡सीब्राह्मणः, वृ꣡षली ब्राह्मणः, भ꣡यब्राह्मणः- यो भयेन ब्राह्मणः संपद्यते ॥ Compounding by (2.1.4) where no other rule applies. Why do we say ‘when followed by a Gotra word ?’ Observe दासीश्रोत्रियः꣡ ॥ Why do we say ‘when reproach is meant?’ Observe महाब्राह्मणः ॥
Kashika¶
गोत्रवाचिन्यन्तेवासिवाचिनि चोत्तरपदे माणवब्राह्मणयोश्च क्षेपवाचिनि समासे पूर्वपदमाद्युदात्तं भवति। जङ्घा॑वात्स्यः। यो जङ्घादानं ददान्यहमिति वात्स्यः संपद्यते, स जङ्घावात्स्य इति क्षिप्यते। भार्या॑सौश्रुतः। सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः। वशा॑ब्रह्मकृतेयः। ब्रह्मकृतशब्दः शुभ्रादिषु पठ्यते। गोत्र। अन्तेवासि — कुमा॑रीदाक्षाः। कम्ब॑लचारायणीयाः। घृत॑रौढीयाः। ओद॑नपाणिनीयाः। कुमार्यादिलाभकामा ये दाक्ष्यादिभिः प्रोक्त ानि शास्त्राण्यधीयते तच्छिष्यतां वा प्रतिपद्यन्ते त एवं क्षिप्यन्ते। अन्तेवासि। माणव — भिक्षा॑माणवः। भिक्षां लष्स्येऽहमिति माणवो भवति। माणय। ब्राह्मण — दासी॑ब्राह्मणः। वृष॑लीब्राह्मणः। भय॑ब्राह्मणः। यो भयेन ब्राह्मणः संपद्यते। अत्र यस्यान्यत् समासलक्षणं नास्ति, सुप्सुपेत्येव तत्र समासः कर्तव्यः। गोत्रादिष्विति किम्? दा॒सी॒श्रो॒त्रि॒यः। क्षेप इति किम् ? म॒हा॒ब्रा॒ह्म॒णः॥
Siddhanta Kaumudi¶
भार्यासौश्रुतः । सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः । अन्तेवासी । कुमारीदाक्षाः । ओदनपाणिनीयाः । कुमार्यादिलाभकामा ये दाक्ष्यादिभिः प्रोक्तानि शास्त्रण्यधीयन्ते ते एवं क्षिप्यन्ते । भिक्षामाणवः । भिक्षां लप्स्येऽहमिति माणवः । भयब्राह्मणः । भयेन ब्राह्मणः संपद्यते । गोत्रादिषु किम् । दासीश्रोत्रियः । क्षेपे किम् । परमब्राह्मणः ॥
Padamanjari¶
गोत्रान्तेवासिनोरर्थग्रहणम्, इतरयोः स्वरुपगरह्णम्। अपत्याधकारादन्यत्र लीकिकं गोत्रमित्यनेन लौकिकमपत्यमात्रं गोत्रं गृह्यते । जङ्घादानगहं ददानीति । जङ्घादानं करवाणीत्यर्थः , ओदनपाकं पचतीतिवत् । अत्र शाद्वादा वात्स्यानाभव पादप्रक्षालनं क्रियते, तत्रावात्स्यः सन्वात्स्योऽहणिति ब्रूतं, तल्लाभाय एजङ्घावात्स्य इति क्षिप्यते । वत्सश्बदो सौश्रुतः । भार्याप्रधानतयेति । शाकपार्थिवादित्वादुतरपदलोपी समास कैति दर्शयति । वशाब्राह्मकृतेय इति वशा - वन्ध्या भार्या, सौश्रु तवत्समासः । दक्षेण प्रोक्तं दाक्षम्, तदधीते दाक्षः, दाक्षेश्छात्त्रो वा दाक्षः । चारशब्दो नडादिः, चारायणेन प्रोक्तमधीते तस्य वा शिष्यश्चारायणीयः । एवं पाणिनीयः । कुमार्यादिलाभकामा इति । तत्प्रोक्ते ग्रन्थे श्रद्वायामसत्यामपि ये कुमार्यादिलाभकामास्तत्र प्रवर्तन्ते त एवं क्षिप्यन्ते । पूर्ववत्समासः । माणवब्राह्मणयोरपत्यवाचित्वेन प्रसिद्ध्यभावात्पृथग्ग्रहणम् । अपर आकह - तस्येदम् इत्यणन्तयोर्ग्रहण्, निपातनाञ्च माणवे णत्वमिति । भयब्राह्मण इति । यो ब्राह्मण एव सन् राजदण्डादिभयेन ब्राह्मणाचारं करोति, न श्रद्धया, स एवं एक्षिप्यते । कर्तृकरणे कृता बहुलम् कैति बहुलवचनादकृतापि समासः । दासीश्रोत्रियो दासीब्राह्मणवत् ॥
Nyaas¶
गोत्राधिकारादन्यत्र गोत्रग्रहणे लोकिकं गोत्रं गृहते (का।वृ।4.2.40) इत्युक्तम्। लोके चापत्यमात्रे प्रसिद्धम्, तेनेह तस्यैव ग्रहणम्, न तु पारिभाषिकस्य। अन्तेवासी=शिष्यः। तत्रान्तेवसिग्रहणादर्थग्रहणं प्रसिद्धम्। अत इहाप्यर्थ एव गृह्रते, न स्वरूपम्। माणवब्राआहृणयोः स्वरूपमेव। मनोरयं माणवः, अस्मादेव निपातनाण्णत्वम्। अबाधकान्यपि निपातनानि भवन्ति (पु।प।वृ।99) इति पक्षे मानव इत्यपि भवति। ब्राहृणोऽयं ब्राआहृणः। यस्तु अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः (का।वृ।4.1.161) इति माणवकशब्दो व्युत्पाद्यते, यश्च ब्राहृणोऽपत्यं ब्राआहृण इत्यर्थे ब्राआहृणशब्दः तयोर्गोत्रग्रहणेनैव सिद्धम्। क्षेपः निन्दा। जङ्घावात्स्यः इति। सुप्? सुपा (2.1.4) इति समासः। कथं पुनरत्र क्षेपः? इत्याह -यो जङ्घादानम् इत्यादि। जङ्घादानं किमप्याचारनियतं देयमुच्यते, तद्ददान्यहमित्यतोऽभिप्रायेण वात्स्यः सम्पद्यते। वात्स्योऽहमित्यभ्युपगच्छति यः सः जङ्घावात्स्य इत्येवं निन्द्यते। अवात्स्यस्यापि सतो जङ्घादानं प्रति वात्स्यत्वाभ्युपगमात्। वात्स्यशब्दोऽयं गर्गादिः। भार्यासौश्रुतः इति। सुश्रुतोऽपत्यं सौश्रुत इत्यण्, भार्याप्रधानः सौश्रुतो भार्यासौश्रुतः। समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च (वा।83) इति समासः। सुश्रुतस्य भार्याप्रधानतयेत्यनेन समानाधिकरणेनात्र समास इति दर्शयति। सुश्रुतोऽपत्यमित्यनेनापि सौश्रुतस्याण्प्रत्ययान्तत्वम्। वशाब्राआहृकृतेयः इति। तेनैवोपसंख्यानेन समासः। अत्रापि वशाप्रधानतया ब्राहृकृतापत्यस्य क्षेपः। कुमारीदीक्षाः इति। सुप्? सुपा (2.1.4) इति समासः। एवं कम्बलचारायणीयाः इत्यत्रापि। दाक्षिणा प्रोक्तं दाक्षं शास्त्रम्। इञश्च (4.2.111) इत्यण्, दाक्षमधीयते तद्वेत्तीति वा पुनरण्, तस्य प्रोक्ताल्लुक् (4.2.64) इति लुक्। चरशब्दो नडादिः, चरस्यापत्यं चारायणः, तेन प्रोक्तं चारायणीयम्। वृद्धाच्छः (4.2.114) , तदधीते (4.2.58) इति पूर्ववदण्। पाणिना प्रोक्तं पाणनीयम्, ततः पूर्ववदध्येतर्यण्? तस्य च लुक्। कमार्यादिलाभकामाः इति। आदिशब्देन कम्बलौदनादीनां ग्रहणम्। अत्रापि सुप्? सुपा (2.1.4) इति समासः। तेनैवोपसंख्यानेन वा कुमारीलाभकामा दाक्षाः कुमारीदाक्षाः। भिक्षामाणवः इति। पूर्ववत्? समासः। भिक्षालाभकामो माणवो भिक्षामाणवः। दासीब्राआहृणः इति। दास्याः कामयिता ब्राआहृणो दासीब्राआहृणः। एवं वृषलीब्राआहृणः इति। कर्तृकरणे कृता बहुलम् (2.1.32) इति बहुलवचनादकृतापि समासः। तृतीया (2.3.18) इति योगविभागाद्वा। दासीश्रोत्रियः इति। दासीब्राआहृण इत्यनेन तुल्यम्। समासस्वरापवायो योगः॥
Prakriyasarvasvam¶
गोत्रार्थशिष्यार्थेषु ब्राह्मणमाणवयोश्च परेषु क्षेपार्थे समासे प्राक्पदमाद्युदात्तं स्यात् । भार्यागार्ग्यः । भार्याप्राधान्यात् क्षेपः । शिष्ये ओदनपाणिनीयाः । भिक्षामाणवः । भयब्राह्मणः । अन्नार्थं भिक्षार्थं भयेन चैषां तथात्वमिति क्षेपः ।