62070: अङ्गानि मैरेये¶
Padacheda: अङ्गानि | S | 1 | 3 |
मैरेये | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The first syllable of the word preceding मैरेय gets the acute accent (उदात्त) when it denotes the ingredient of the same.
Vasu English Translation¶
The first syllable of the word preceding मैरेय gets the acute accent (उदात्त) when it denotes the ingredient of the same. Thus गु꣡डमैरेयः ‘the wine maireya prepared from treacle or molasses’. म꣡धुमैरेयः ‘the maireya prepared from honey’. Why do we say when denoting ‘an ingredient?’ Observe परममैरयः꣡ ॥ Why do we say “before मेरेय?” Observe पुष्पासवः꣡ ॥ Every sort of spirituous liquor except सुरा is called मैरेय ॥
Kashika¶
मैरेयशब्द उत्तरपदे तदङ्गवाचीनि पूर्वपदान्याद्युदात्तानि भवन्ति। गुड॑मैरेयः। मधु॑मैरेयः। मद्यविशेषो मैरेयः, तस्य गुडविकारस्य गुडोऽङ्गं भवति, मधुविकारस्य तस्य मध्वङ्गम्। अङ्गानीति किम्? प॒र॒म॒म॒ैरे॒यः। मैरेय इति किम्? पु॒ष्पा॒स॒वः। फ॒ला॒स॒वः॥
Siddhanta Kaumudi¶
मद्यविशेषो मैरेयः । मधुमैरेयः । मधुविकारस्य तस्य मध्वङ्गम् । अङ्गानि किम् । परममैरेयः । मैरेये किम् । पुष्पासवः ॥
Padamanjari¶
एअङ्गम् - आरम्भकम्, बहुवचनं स्वरुपविधिनिरासार्थंम् । सुराव्यतिरिक्तं मद्यम् - दैरेयम् । तदङ्गवाचिनीति । दैरेयशब्द इति प्रकृतम्, कैह तु तच्छब्देन तदर्थः परामृश्यते । पौष्पासव इति । आसवः - मद्यविशेषः, यत् पौष्पैण मधुना द्रव्यान्तरेण चारभ्यते तस्य पौष्पमङ्गं भवति । पुष्पासव कैति तु युक्तः पाठः ॥
Nyaas¶
अङ्गशब्दोऽयं कारणवाची। आरम्भकं यत्? तदङ्गमुच्यते। अङ्गानीति बहुवचनं स्वरूपविधिनिरासार्थम्। सुरावज्र्यं मद्यम्=मैरेयमित्यभिधीयते। गुडमैरेयः, मधुमैरेयः इति। ष्ठासमासः। गुडविकारस्य मैरयस्य गुडोऽङ्गम् इति। तत्कारणत्वात्। अयमपि समासस्वरापवादो योगः॥
Prakriyasarvasvam¶
अङ्गमारम्भकम् । तदर्थानि प्राक्पदानि मैरेये परे आद्युदात्तानि स्युः । गुडमैरेयः । मद्यविशेषो मैरेयः ।