62068: पापं च शिल्पिनि¶
Padacheda: पापम् | S | 1 | 1 |
च | S | 0 | 0 |
शिल्पिनि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The word पाप is optionally acutely accented (उदात्त) on the first syllable when followed by a word denoting a professional man.
Vasu English Translation¶
The word पाप is optionally acutely accented (उदात्त) on the first syllable when followed by a word denoting a professional man. Thus पा꣡पनापितः or पापनापितः꣡, पा꣡पकुलालः or पापकुलालः꣡ ॥ This rule applies to the pratipadokta samasa of पाप in the sense of censure as taught in (2.1.54), when it is an appositional compound; and not when it forms a Genitive compound. Thus पापस्यनापितः = पापनापितः꣡ ॥
Kashika¶
पापशब्दः शिल्पिवाचिन्युत्तरपदे विभाषाद्युदात्तो भवति। पाप॑नापितः, पा॒प॒ना॒पि॒तः। पाप॑कुलालः, पा॒प॒कु॒ला॒लः। पापाणके कुत्सितैः (२.१.५४) इति पापशब्दस्य प्रतिपदोक्तः समानाधिकरणसमास इति षष्ठीसमासे न भवति। पापस्य नापितः पा॒प॒ना॒पि॒त इति॥
Siddhanta Kaumudi¶
पापनापितः । पापाणके-(SK733) इति प्रतिपदोक्तस्यैव ग्रहणात् । षष्ठीसमासे न ॥
Nyaas¶
पापमिति स्वरूपग्रहणम्। शिल्पिनीत्यत्रार्थग्रहणम्। अर्थग्रहणं किमर्थम्, ग्रामशिल्पिनीत्यत्र शिल्पिग्रहणादर्थग्रहणं प्रसिद्धम्, अत इहाप्यर्थग्रहणं विज्ञायते? नित्यं समासस्वरे प्राप्ते विकल्पेन पूर्वपदस्याद्युदात्तत्वं विधीयते, तेनमुक्ते समासस्वर एव भवति। अथेह कस्मान्न भवति -पापस्य नापित इति? अत आह -पापशब्दस्य प्रतिपदोक्तः इति। तस्मात्? षष्ठी समासे न भवति इति। प्रतिपदोक्ते हि समासे सति लक्षण प्रतिपदोक्तपरिभाषया (व्या।प।3) तस्यैव ग्रहणं भविष्यति; नान्यस्य॥
Prakriyasarvasvam¶
शिल्प्यर्थे परे पापमाद्युदात्तं वा स्यात् । पापनापितः । ‘पापाणके—’ (२-१-५४) इति समासोऽयम् । तेन षष्ठी समासे न ।