62069: गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे =========================================== **Padacheda:** गोत्र-अन्तेवासि-माणव-ब्राह्मणेषु | S | 7 | 3 | क्षेपे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The first syllable of the first member of a compound is acutely accented (उदात्त) before a गोत्र (Patronymic) name or a Scholar-name and also before माणव and ब्राह्मण when a reproach is meant. Vasu English Translation ------------------------ The first syllable of the first member of a compound is acutely accented (उदात्त) before a गोत्र (Patronymic) name or a Scholar-name and also before माणव and ब्राह्मण when a reproach is meant. Thus ज꣡घावात्स्यः = यो जंघादानं ददान्यहमिति वात्स्यः, संपद्यते सः; यत्र श्राद्धादौ वात्स्यानामेव पादप्रक्षालनं क्रियते, तत्रावात्स्यः सन् वात्स्याऽहमिति ब्रूते तल्लाभाय सः ॥ भार्यासौश्रुतः 'a descendant of *Susruta* under the petticoat government of his wife'. The compounding takes place by the analogy of शाकपार्थिवः ॥ व꣡शाब्राह्मकृतेयः (*Brahmakrita* belongs to *Subhradi* class). The above are examples of *Gotra* words. Now with scholar names. कु꣡मारीदाक्षाः 'the pupils of *Daksha* for the sake of marriage i. e. who study the work of *Daksha* or make themselves the pupils of *Daksha* for the sake of girls'. क꣡म्बलचारायणीयाः, घृ꣡तरौढीयाः, and ओ꣡दनपाणिनीयाः &c. भि꣡क्षामाणवः = भिक्षां लप्स्येऽहमिति माणवो भवति ॥ दा꣡सीब्राह्मणः, वृ꣡षली ब्राह्मणः, भ꣡यब्राह्मणः- यो भयेन ब्राह्मणः संपद्यते ॥ Compounding by (2.1.4) where no other rule applies. Why do we say 'when followed by a *Gotra* word ?' Observe दासीश्रोत्रियः꣡ ॥ Why do we say 'when reproach is meant?' Observe महाब्राह्मणः ॥ Kashika ------- गोत्रवाचिन्यन्तेवासिवाचिनि चोत्तरपदे माणवब्राह्मणयोश्च क्षेपवाचिनि समासे पूर्वपदमाद्युदात्तं भवति। जङ्घा॑वात्स्यः। यो जङ्घादानं ददान्यहमिति वात्स्यः संपद्यते, स जङ्घावात्स्य इति क्षिप्यते। भार्या॑सौश्रुतः। सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः। वशा॑ब्रह्मकृतेयः। ब्रह्मकृतशब्दः शुभ्रादिषु पठ्यते। गोत्र। अन्तेवासि — कुमा॑रीदाक्षाः। कम्ब॑लचारायणीयाः। घृत॑रौढीयाः। ओद॑नपाणिनीयाः। कुमार्यादिलाभकामा ये दाक्ष्यादिभिः प्रोक्त ानि शास्त्राण्यधीयते तच्छिष्यतां वा प्रतिपद्यन्ते त एवं क्षिप्यन्ते। अन्तेवासि। माणव — भिक्षा॑माणवः। भिक्षां लष्स्येऽहमिति माणवो भवति। माणय। ब्राह्मण — दासी॑ब्राह्मणः। वृष॑लीब्राह्मणः। भय॑ब्राह्मणः। यो भयेन ब्राह्मणः संपद्यते। अत्र यस्यान्यत् समासलक्षणं नास्ति, सुप्सुपेत्येव तत्र समासः कर्तव्यः। गोत्रादिष्विति किम्? दा॒सी॒श्रो॒त्रि॒यः। क्षेप इति किम् ? म॒हा॒ब्रा॒ह्म॒णः॥ Siddhanta Kaumudi ----------------- भार्यासौश्रुतः । सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः । अन्तेवासी । कुमारीदाक्षाः । ओदनपाणिनीयाः । कुमार्यादिलाभकामा ये दाक्ष्यादिभिः प्रोक्तानि शास्त्रण्यधीयन्ते ते एवं क्षिप्यन्ते । भिक्षामाणवः । भिक्षां लप्स्येऽहमिति माणवः । भयब्राह्मणः । भयेन ब्राह्मणः संपद्यते । गोत्रादिषु किम् । दासीश्रोत्रियः । क्षेपे किम् । परमब्राह्मणः ॥ Padamanjari ----------- गोत्रान्तेवासिनोरर्थग्रहणम्, इतरयोः स्वरुपगरह्णम्। अपत्याधकारादन्यत्र लीकिकं गोत्रमित्यनेन लौकिकमपत्यमात्रं गोत्रं गृह्यते । जङ्घादानगहं ददानीति । जङ्घादानं करवाणीत्यर्थः , ओदनपाकं पचतीतिवत् । अत्र शाद्वादा वात्स्यानाभव पादप्रक्षालनं क्रियते, तत्रावात्स्यः सन्वात्स्योऽहणिति ब्रूतं, तल्लाभाय एजङ्घावात्स्य इति क्षिप्यते । वत्सश्बदो सौश्रुतः । भार्याप्रधानतयेति । शाकपार्थिवादित्वादुतरपदलोपी समास कैति दर्शयति । वशाब्राह्मकृतेय इति वशा - वन्ध्या भार्या, सौश्रु तवत्समासः । दक्षेण प्रोक्तं दाक्षम्, तदधीते दाक्षः, दाक्षेश्छात्त्रो वा दाक्षः । चारशब्दो नडादिः, चारायणेन प्रोक्तमधीते तस्य वा शिष्यश्चारायणीयः । एवं पाणिनीयः । कुमार्यादिलाभकामा इति । तत्प्रोक्ते ग्रन्थे श्रद्वायामसत्यामपि ये कुमार्यादिलाभकामास्तत्र प्रवर्तन्ते त एवं क्षिप्यन्ते । पूर्ववत्समासः । माणवब्राह्मणयोरपत्यवाचित्वेन प्रसिद्ध्यभावात्पृथग्ग्रहणम् । अपर आकह - तस्येदम् इत्यणन्तयोर्ग्रहण्, निपातनाञ्च माणवे णत्वमिति । भयब्राह्मण इति । यो ब्राह्मण एव सन् राजदण्डादिभयेन ब्राह्मणाचारं करोति, न श्रद्धया, स एवं एक्षिप्यते । कर्तृकरणे कृता बहुलम् कैति बहुलवचनादकृतापि समासः । दासीश्रोत्रियो दासीब्राह्मणवत् ॥ Nyaas ----- `गोत्राधिकारादन्यत्र गोत्रग्रहणे लोकिकं गोत्रं गृहते` (का।वृ।4.2.40) इत्युक्तम्। लोके चापत्यमात्रे प्रसिद्धम्, तेनेह तस्यैव ग्रहणम्, न तु पारिभाषिकस्य। अन्तेवासी=शिष्यः। तत्रान्तेवसिग्रहणादर्थग्रहणं प्रसिद्धम्। अत इहाप्यर्थ एव गृह्रते, न स्वरूपम्। माणवब्राआहृणयोः स्वरूपमेव। मनोरयं माणवः, अस्मादेव निपातनाण्णत्वम्। `अबाधकान्यपि निपातनानि भवन्ति` (पु।प।वृ।99) इति पक्षे मानव इत्यपि भवति। ब्राहृणोऽयं ब्राआहृणः। यस्तु `अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः` (का।वृ।4.1.161) इति माणवकशब्दो व्युत्पाद्यते, यश्च ब्राहृणोऽपत्यं ब्राआहृण इत्यर्थे ब्राआहृणशब्दः तयोर्गोत्रग्रहणेनैव सिद्धम्। क्षेपः निन्दा। `जङ्घावात्स्यः` इति। `सुप्? सुपा` (2.1.4) इति समासः। कथं पुनरत्र क्षेपः? इत्याह -`यो जङ्घादानम्` इत्यादि। जङ्घादानं किमप्याचारनियतं देयमुच्यते, तद्ददान्यहमित्यतोऽभिप्रायेण वात्स्यः सम्पद्यते। वात्स्योऽहमित्यभ्युपगच्छति यः सः जङ्घावात्स्य इत्येवं निन्द्यते। अवात्स्यस्यापि सतो जङ्घादानं प्रति वात्स्यत्वाभ्युपगमात्। वात्स्यशब्दोऽयं गर्गादिः। `भार्यासौश्रुतः` इति। सुश्रुतोऽपत्यं सौश्रुत इत्यण्, भार्याप्रधानः सौश्रुतो भार्यासौश्रुतः। `समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च` (वा।83) इति समासः। सुश्रुतस्य भार्याप्रधानतयेत्यनेन समानाधिकरणेनात्र समास इति दर्शयति। सुश्रुतोऽपत्यमित्यनेनापि सौश्रुतस्याण्प्रत्ययान्तत्वम्। `वशाब्राआहृकृतेयः` इति। तेनैवोपसंख्यानेन समासः। अत्रापि वशाप्रधानतया ब्राहृकृतापत्यस्य क्षेपः। `कुमारीदीक्षाः` इति। `सुप्? सुपा` (2.1.4) इति समासः। एवं `कम्बलचारायणीयाः` इत्यत्रापि। दाक्षिणा प्रोक्तं दाक्षं शास्त्रम्। `इञश्च` (4.2.111) इत्यण्, दाक्षमधीयते तद्वेत्तीति वा पुनरण्, तस्य **प्रोक्ताल्लुक्** (4.2.64) इति लुक्। चरशब्दो नडादिः, चरस्यापत्यं चारायणः, तेन प्रोक्तं चारायणीयम्। **वृद्धाच्छः** (4.2.114) , `तदधीते` (4.2.58) इति पूर्ववदण्। पाणिना प्रोक्तं पाणनीयम्, ततः पूर्ववदध्येतर्यण्? तस्य च लुक्। `कमार्यादिलाभकामाः` इति। आदिशब्देन कम्बलौदनादीनां ग्रहणम्। अत्रापि `सुप्? सुपा` (2.1.4) इति समासः। तेनैवोपसंख्यानेन वा कुमारीलाभकामा दाक्षाः कुमारीदाक्षाः। `भिक्षामाणवः` इति। पूर्ववत्? समासः। भिक्षालाभकामो माणवो भिक्षामाणवः। `दासीब्राआहृणः` इति। दास्याः कामयिता ब्राआहृणो दासीब्राआहृणः। एवं `वृषलीब्राआहृणः` इति। **कर्तृकरणे कृता बहुलम्** (2.1.32) इति बहुलवचनादकृतापि समासः। `तृतीया` (2.3.18) इति योगविभागाद्वा। `दासीश्रोत्रियः` इति। दासीब्राआहृण इत्यनेन तुल्यम्। समासस्वरापवायो योगः॥ Prakriyasarvasvam ----------------- गोत्रार्थशिष्यार्थेषु ब्राह्मणमाणवयोश्च परेषु क्षेपार्थे समासे प्राक्पदमाद्युदात्तं स्यात् । भार्यागार्ग्यः । भार्याप्राधान्यात् क्षेपः । शिष्ये ओदनपाणिनीयाः । भिक्षामाणवः । भयब्राह्मणः । अन्नार्थं भिक्षार्थं भयेन चैषां तथात्वमिति क्षेपः ।