62058: आर्यो ब्राह्मणकुमारयोः

Padacheda: आर्यः | S | 1 | 1 |

ब्राह्मण-कुमारयोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

The word आर्य optionally retains its original accent in a कर्मधारय समास before the words ब्राह्मण and कुमार।

Vasu English Translation

The word आर्य optionally retains its original accent in a कर्मधारय समास before the words ब्राह्मण and कुमार। Thus आर्य॑ब्राह्मणः or आर्यबाह्मणः꣡, आर्य॑कुमारः or आर्यकुमारः꣡ ॥ The word आर्य is formed by ण्यत् affix and has svarita on the final. Why do we say ‘Arya’? Observe परमब्राह्मणः꣡, परमकुमारः꣡ ॥ Why do we say before ‘Brahmana’ and ‘Kumara’? Observe आर्यक्षत्रियः ॥ Why ‘Karmadharaya ?’ Observe आर्यस्य ब्राह्मणः = आर्यब्राह्मणः꣡ ॥ According to the Accentuated Text the accent is आ꣡र्य (Pro. Bohtlingk).

Kashika

आर्यशब्दः पूर्वपदं ब्राह्मणकुमारशब्दयोः कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। आ॒॑र्यब्राह्मणः, आ॒र्य॒ब्रा॒ह्म॒णः। आ॒॑र्यकुमारः, आ॒र्य॒कु॒मा॒रः। आर्यशब्दो ण्यदन्तोऽन्तस्वरितः। आर्य इति किम्? प॒र॒म॒ब्रा॒ह्म॒णः। प॒र॒म॒कु॒मा॒रः। ब्राह्मणकुमारयोरिति किम् ? आ॒र्य॒क्ष॒त्रि॒यः। कर्मधारय इत्येव — आर्यस्य ब्राह्मणो आ॒र्य॒ब्रा॒ह्म॒णः॥

Siddhanta Kaumudi

आर्यकुमारः । आर्यब्राह्मणः । आर्यो ण्यदन्तत्वादन्तस्वरितः । आर्यः किम् । परमब्राह्मणः । ब्राह्मणादीति किम् । आर्यक्षत्रियः । कर्मधारय इत्येव ॥

Nyaas

आर्यब्राआहृणः इति। आर्यश्चासौ ब्राआहृणश्चेति विशेषणसमासः। आर्यशब्दो ण्यदन्तः इति। ऋहलोण्र्यत् (3.1.124) इति ण्यति व्युत्पादितत्वात्। अन्तस्वरितः इति। तित्स्वरेण। प्रत्युदाहरणे तु समासान्तोदात्तत्वमेव भवति॥

Prakriyasarvasvam

अनयोः परयोरायः कर्मधारये वा प्रकृत्या स्यात् । आर्यब्राह्मणः । आर्यकुमारः । ण्यत्यार्यः ।