62058: आर्यो ब्राह्मणकुमारयोः ============================= **Padacheda:** आर्यः | S | 1 | 1 | ब्राह्मण-कुमारयोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The word आर्य optionally retains its original accent in a कर्मधारय समास before the words ब्राह्मण and कुमार। Vasu English Translation ------------------------ The word आर्य optionally retains its original accent in a कर्मधारय समास before the words ब्राह्मण and कुमार। Thus आर्य॑ब्राह्मणः or आर्यबाह्मणः꣡, आर्य॑कुमारः or आर्यकुमारः꣡ ॥ The word आर्य is formed by ण्यत् affix and has *svarita* on the final. Why do we say '*Arya*'? Observe परमब्राह्मणः꣡, परमकुमारः꣡ ॥ Why do we say before '*Brahmana*' and '*Kumara*'? Observe आर्यक्षत्रियः ॥ Why '*Karmadharaya* ?' Observe आर्यस्य ब्राह्मणः = आर्यब्राह्मणः꣡ ॥ According to the Accentuated Text the accent is आ꣡र्य (Pro. Bohtlingk). Kashika ------- आर्यशब्दः पूर्वपदं ब्राह्मणकुमारशब्दयोः कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। आ॒॑र्यब्राह्मणः, आ॒र्य॒ब्रा॒ह्म॒णः। आ॒॑र्यकुमारः, आ॒र्य॒कु॒मा॒रः। आर्यशब्दो ण्यदन्तोऽन्तस्वरितः। आर्य इति किम्? प॒र॒म॒ब्रा॒ह्म॒णः। प॒र॒म॒कु॒मा॒रः। ब्राह्मणकुमारयोरिति किम् ? आ॒र्य॒क्ष॒त्रि॒यः। कर्मधारय इत्येव — आर्यस्य ब्राह्मणो आ॒र्य॒ब्रा॒ह्म॒णः॥ Siddhanta Kaumudi ----------------- आर्यकुमारः । आर्यब्राह्मणः । आर्यो ण्यदन्तत्वादन्तस्वरितः । आर्यः किम् । परमब्राह्मणः । ब्राह्मणादीति किम् । आर्यक्षत्रियः । कर्मधारय इत्येव ॥ Nyaas ----- `आर्यब्राआहृणः` इति। आर्यश्चासौ ब्राआहृणश्चेति विशेषणसमासः। `आर्यशब्दो ण्यदन्तः` इति। `ऋहलोण्र्यत्` (3.1.124) इति ण्यति व्युत्पादितत्वात्। `अन्तस्वरितः` इति। तित्स्वरेण। प्रत्युदाहरणे तु समासान्तोदात्तत्वमेव भवति॥ Prakriyasarvasvam ----------------- अनयोः परयोरायः कर्मधारये वा प्रकृत्या स्यात् । आर्यब्राह्मणः । आर्यकुमारः । ण्यत्यार्यः ।