62059: राजा च¶
Padacheda: राजा | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The word राजन् optionally retains its original accent in a कर्मधारय समास before the words ब्राह्मण and कुमार।
Vasu English Translation¶
The word राजन् optionally retains its original accent in a कर्मधारय समास before the words ब्राह्मण and कुमार। Thus रा꣡जब्राह्मणः or राजब्राह्मणा꣡, रा꣡जकुमारः or राजकुमारः꣡ ॥ The word राजन् is formed by the affix कनिन् added to राज् (Unadi I.156). But राज्ञो ब्राह्मण = राजब्राह्मणः where the compound is not Karmadharaya. The making of this a separate aphorism is for the purpose of preventing the yathasankhya rule and also for the sake of the subsequent sutra into which the anuvritti of राजन् runs and not of आर्य ॥
Kashika¶
राजा च पूर्वपदं ब्राह्मणकुमारयोरुत्तरपदयोः कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। राज॑ब्राह्मणः,रा॒ज॒ब्रा॒ह्म॒णः। राज॑कुमारः, रा॒ज॒कु॒मा॒रः। कर्मधारय इत्येवराज्ञो ब्राह्मणो रा॒ज॒ब्रा॒ह्म॒णः। रा॒ज॒कु॒मा॒रः। पृथग्योगकरणमुत्तरार्थम्॥
Siddhanta Kaumudi¶
ब्राह्मणकुमारयोः परतो वा प्रकृत्या कर्मधारये । राजब्राह्मणः । राजकुमारः । योगविभाग उत्तरार्थः ॥
Padamanjari¶
राजाव्राह्मण इति । राजशब्दो ब्राह्मणे ताद्धूर्म्यादूर्तत इति सामानाधिकरण्यात्कर्मधारयः, राजशब्दः कनिन्प्रत्ययान्तत्वादद्यौदातः । पृथग्योगकरणमुतरार्थमिति । उतरो विधी राजशब्दस्यैव यथा स्यात्, आर्यशब्दस्य म भूत् । यथासङ्ख्याभावोऽपि पृथग्योगकरणस्य प्रयोजनम्, ततु नोक्तमित्येतावत् ॥
Nyaas¶
राजब्राआहृणम्` [राजब्राआहृणः -काशिका] इति। पूर्ववत्? समासः। प्रत्युदाहरणेऽपि पूर्ववत्। राजशब्दः क्वनिन्प्रत्ययान्तत्वादाद्युदात्तः। पृथग्योगकरणमुत्तरार्थम् इति। उत्तरो विधी राजशब्दस्यैव यथा स्यात्। आर्यशब्दस्य मा भूदिति॥