62057: कतरकतमौ कर्मधारये

Padacheda: कतर-कतमौ | S | 1 | 2 |

कर्मधारये | S | 7 | 1 |

Sutrartha


Vasu English Summary

The words कतर and कतम when as first member of a compound optionally retain their original accent in a कर्मधारय समास।

Vasu English Translation

The words कतर and कतम when as first member of a compound optionally retain their original accent in a कर्मधारय समास। Thus कतर꣡कठः or कतरकठः꣡, कतम꣡कठः or कतमकठः꣡ ॥ The word Karmadharaya is used for the sake of the next sutra, this sutra could have done without it, as ‘katara’ and ‘katama’ by the maxim of pratipadokta, form only Karmadharaya compound by (2.1.63).

Kashika

कतरशब्दः कतमशब्दश्च पूर्वपदं कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। क॒त॒रक॑ठः क॒त॒र॒क॒ठः। क॒त॒मक॑ठः, क॒त॒म॒क॒ठः। कर्मधारयग्रहणमुत्तरार्थम्, इह तु प्रतिपदोक्तत्वादेव सिद्धम्॥

Siddhanta Kaumudi

वा प्रकृत्या । कतरकठः । कर्मधारयग्रहणमुत्तरार्थम् । इह तु प्रतिपदोक्तत्वादेव सिद्धम् ॥

Nyaas

किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् (5.3.92) वा बूनां जातिपरिप्रश्ने डतमच् (5.3.93) इति कतरकतमशब्दौ व्युत्पाद्येते, तेन तौ चित्स्वरेणान्तोदात्तौ। कतरकठः इति। कतरकतमौ जातिपरिप्रश्ने (2.1.63) इति समानाधिकरणसमासः। एतदर्थमपि कर्मधारयग्रहणं कस्मान्न भवति? इत्याह -इह तु इत्यादि। कतरकतमशब्दयोर्हि यः प्रतिपदसमासः स एव लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) विज्ञायते। स च कर्मधारय एव। तस्मात्? प्रतिपदोक्तत्वादेवैतत्समासस्य कर्मधारयत्वम्। तस्मन्नैतदर्थं कर्मधारयग्रहणमुपपद्यते॥

Prakriyasarvasvam

एते प्राक्पदे कर्मधारये वा प्रकृत्या स्तः । कतराश्वः । कतमाश्वः ।