62056: प्रथमोऽचिरोपसम्पत्तौ¶
Padacheda: प्रथमः | S | 1 | 1 |
अचिर-उपसम्पत्तौ | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The word प्रथम when first in a compound optionally retains its original accent when meaning ‘a novice’.
Vasu English Translation¶
The word प्रथम when first in a compound optionally retains its original accent when meaning ‘a novice’. Thus प्रथमवैयाकरणः or प्रथमवैयाकरणः = संप्रतिव्याकरणमध्येतुं प्रवृत्तः ‘one who has recently commenced to study Grammar’. The word प्रथम is derived from प्रथ by अमच् (Unadi V. 68) and by चित् accent the acute falls on the last. Why do we say when meaning ‘a Novice?’ Observe प्रथमवैयाकरणः (वैयाकरणानामाद्यो मुख्यो वा यः सः) ‘the first Grammarian or a Grammarian of the first rank’. It will always have acute on the final.
Kashika¶
प्रथमशब्दः पूर्वपदमचिरोपसंपत्तौ गम्यमानायामन्यतरस्यां प्रकृतिस्वरं भवति। अचिरोपसंपत्तिरचिरोपश्लेषोऽभिनवत्वम्। प्॒रथ॒मव॑ैयाकरणः, प्॒रथ॒म॒व॒ैया॒क॒र॒णः। अभिनववैयाकरणः, संप्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः। प्रथमशब्दः प्रथेरमच् (प०उ० ५.६८) इति चित्त्वादन्तोदात्तः। अचिरोपसंपत्ताविति किम्? प्॒रथ॒म॒व॒ैया॒क॒र॒णः। वैयाकरणानामाद्यो मुख्यो वा यः, स नित्यमन्तोदात्त एव॥
Siddhanta Kaumudi¶
प्रथमशब्दो वा प्रकृत्याऽभिनवत्वे । प्रथमवैयाकरणः । संप्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः । प्रथमशब्दः प्रथेरमजन्तः । अचिरेति किम् । प्रथमो वैयाकरणः ॥
Nyaas¶
अचिरोपश्लेषः इति। अचिरकालसम्बन्ध इत्यर्थ-। अस्यैवार्थ प्रसिद्धतरार्थेन प्रदर्शयतुमाह -अभिनवत्वम् इति। प्रथमवैयाकरणः इति। प्रथमश्च वैयाकरणश्चेति पूर्वापर (2.1.57) इत्यादिना समासः। तत्र यत्तद्वैयाकरणत्वं व्याकरणस्याध्येतृत्वम्। अनेनाचिरकालसम्बन्धोऽध्येतुर्गम्यते। अभिनववैयाकरणादिनाऽचिरकालोपसम्पत्तिमुदाहरणे दर्शयति। आद्यो मुख्यो यः सः इति। अनेनापि प्रत्युदाहरणविषयस्य प्रथमशब्दस्यान्यार्थतां च पक्षेऽचिरोपसम्पत्तेरभावं च। अयमपि समासस्वरापवादो योगः। एवमुत्तरेऽपि॥
Prakriyasarvasvam¶
अभिनवत्वे द्योत्ये प्रथमः प्राक्पदं वा प्रकृत्या स्यात् । प्रथमभागवतः । सम्प्रति भगवद्भजनमारब्धवानित्यर्थः । प्रथेरमच् ।